अध्यायः 312
भीष्मेण युधिष्ठिरम् प्रति विद्याऽविद्यादिप्रतिपादकवसिष्ठकरालजनकसंवादानुवादः ॥ 1 ॥
वसिष्ठ उवाच 001
साङ्ख्यदर्शनमेतावदुक्तं ते नृपसत्तम । 001a
विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ॥ 001c
अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मिणीम् । 002a
सर्गप्रलयनिर्मुक्तो विद्यो वै पञ्चविंशकः ॥ 002c
'एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववित् ।' 003a
परस्परं तु विद्यां वै त्वं निबोधानुपूर्वशः । 003c
यथोक्तमृषिभिस्तात साङ्ख्यस्यास्य निदर्शनम् ॥ 003e
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् । 004a
बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् ॥ 004c
विशेषाणां मनस्तेषां विद्यामाहुर्मनीषिणः । 005a
मनसः पञ्चभूतानि विद्या इत्यभिचक्षते ॥ 005c
अहङ्कारस्तु भूतानां पञ्चानां नात्र संशयः । 006a
अहङ्कारस्य च तथा बुद्धिर्विद्या नरेश्वर ॥ 006c
बुद्धेः प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरम् । 007a
विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः ॥ 007c
अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम् । 008a
सर्वस्य सर्वमित्युक्तं ज्ञेयं ज्ञानस्य पार्थिव ॥ 008c
ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः । 009a
तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः ॥ 009c
विद्याविद्यार्थितत्त्वेन मयोक्ता ते विशेषतः । 010a
अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे ॥ 010c
उभावेतौ क्षरावुक्तावुभावेतौ क्षराक्षरौ । 011a
कारणं तु प्रवक्ष्यामि यथाख्यातो न जानतः ॥ 011c
अनादिनिधनावेतावुभावेवेश्वरौ मतौ । 012a
तत्त्वसञ्ज्ञावुभावेतौ प्रोच्यते ज्ञानचिन्तकैः ॥ 012c
सर्गप्रलयधर्मत्वादव्यक्तं प्राहुरक्षरम् । 013a
तदेतद्गुणसर्गाय विकुर्वाणं पुनःपुनः ॥ 013c
गुणानां महदादीनामुत्पद्यन्ते परम्पराः । 014a
अधिष्ठानं क्षेत्रमाहुरेतत्तत्पञ्चविंशकम् ॥ 014c
यदा तु गुणजालं तदव्यक्तात्मनि सङ्क्षिपेत् । 015a
तदा सह गुणैस्तैस्तु पञ्चविंशो विलीयते ॥ 015c
गुणा गुणेषु लीयन्ते तदैका प्रकृतिर्भवेत् । 016a
क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे सम्प्रलीयते ॥ 016c
तदाऽक्षरत्वं प्रकृतिर्गच्छते गुणसञ्ज्ञिता । 017a
निर्गुणत्वं च वैदेह गुणेष्वप्रतिवर्तनात् ॥ 017c
एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात् । 018a
प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ॥ 018c
क्षरो भवत्येष यदा तदा गुणवती मिथः । 019a
प्रकृतिं त्वभिजानाति निर्गुणत्वं तथाऽऽत्मनः ॥ 019c
तदा विशुद्धो भवति प्रकृतेः परिवर्जनात् । 020a
अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान् ॥ 020c
तदैषा त्वन्यतामेति न च मिश्रत्वतां व्रजेत् । 021a
प्रकृत्या चैव राजेन्द्र मिश्रोऽनन्यश्च दृश्यते ॥ 021c
यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते । 022a
पश्यते चापरं पश्यं तदा पश्यन्न संस्वजेत् ॥ 022c
किमहं कृतवानेवं योहं कालमिमं जनम् । 023a
'यदा मत्स्योदकं ज्ञानमनुवर्तितवांस्तदा ।' 023c
मत्स्यो जालं ह्यविज्ञानादनुवर्तितवानिह ॥ 023e
अहमेव हि सम्मोहादन्यमन्यं जनाज्जनम् । 024a
मत्स्यो यथोदकज्ञानादनुवर्तितवानहम् ॥ 024c
मत्स्योऽन्यत्वं यथा ज्ञानादुदकान्नाभिमन्यते । 025a
आत्मानं तद्वदज्ञानादन्यत्वं चैव वेद्म्यहम् ॥ 025c
ममास्तु धिगबुद्धस्य योऽहमज्ञ इमं पुनः । 026a
अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम् ॥ 026c
अयमत्र भेवद्बन्धुरनेन सह मे क्षमम् । 027a
साम्यमेकत्वतां यास्ये यादृशस्तादृशस्त्वहम् ॥ 027c
तुल्यतामिह पश्यामि सदृशोऽहमनेन वै । 028a
अयं हि विमलोऽव्यक्तमहमीदृशकस्तथा ॥ 028c
योऽहमज्ञानसम्मोहादज्ञया सम्प्रवृत्तवान् । 029a
ससङ्गयाऽहं निःसङ्गः स्थितः कालमिमं त्वहम् ॥ 029c
अनयाऽहं वशीभूतः कालमेतं न बुद्धवान् । 030a
उच्चमध्यमनीचानां तामहं कथमावसे ॥ 030c
समानया न याचेह सहवासमहं कथम् । 031a
गच्छाम्यबुद्धभावत्वादेषेदानीं स्थिरो भवे ॥ 031c
सहवासं न यास्यामि कालमेतद्धि वञ्चनात् । 032a
वञ्चितोस्म्यनया यद्धि निर्विकारो विकारया ॥ 032c
न चायमपराधोऽस्या ह्यपराधो ह्ययं मम । 033a
योऽहमत्राभवं सक्तः पराङ्मुखमुपस्थितः ॥ 033c
ततोस्मि बहुरूपासु स्थितो मूर्तिष्वमूर्तिमान् । 034a
अमूर्तश्चापि मूर्तात्मा ममत्वेन प्रधर्षितः ॥ 034c
प्रकृतेरनयत्वेन तासु तास्विह योनिषु । 035a
निर्ममस्य ममत्वेन किं कृतं तासु तासु च ॥ 035c
योनीषु वर्तमानेन नष्टसञ्ज्ञेन चेतसा । 036a
न ममात्रानया कार्यमहङ्कारकृतात्मना ॥ 036c
आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम् । 037a
इदानीमेष बुद्धोस्मि निर्ममो निरहङ्कृतः ॥ 037c
ममत्वमनया नित्यमहङ्कारकृतात्मकम् । 038a
अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम् ॥ 038c
अनेन साम्यं यास्यामि नानयाऽहमचेतसा । 039a
क्षणं मम सहानेन नैकत्वमनया सह ॥ 039c
एवं परमसम्बोधात्पञ्चविंशोऽनुबुद्धवान् । 040a
अक्षरत्वं नियच्छेत त्यक्त्वा क्षरमनामयम् ॥ 040c
अव्यक्तं व्यक्तकर्माणं सगुणं निर्गुणं तथा । 041a
निर्गुणं परमं दृष्ट्वा तादृग्भवति मैथिल ॥ 041c
अक्षरक्षरयोरेतदुक्तं तत्वनिदर्शनम् । 042a
मयेह ज्ञानसम्पन्नं यथाश्रुतिनिदर्शनात् ॥ 042c
निःसन्दिग्धं च सूक्ष्मं च विबुद्धं विमलं यथा । 043a
प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम् ॥ 043c
साङ्ख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात् । 044a
यदेव शास्त्रं साङ्ख्योक्तं योगदर्शनमेव तत् ॥ 044c
प्रबोधनकरं ज्ञानं साङ्ख्यानामवनीपते । 045a
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ॥ 045c
पृथक्चैवमिदं शास्त्रमित्याहुः कुशला जनाः । 046a
अस्मिंश्च शास्त्रे योगानां पुनर्दधि पुनः शरः ॥ 046c
पञ्चविंशात्परं तत्त्वं न पश्यति नराधिप । 047a
साङ्ख्यानां तु परं तत्त्वं यथावदनुवर्णितम् ॥ 047c
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः । 048a
बुध्यमानं च बुद्धं च प्राहुर्योगनिदर्शनम् ॥ 048c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्वादशाधिकत्रिशततमोऽध्यायः ॥ 312 ॥
12-312-10 विद्याविद्यार्थतत्वेनेति ट. पाठः ॥ 12-312-14 अधिष्ठानं क्षेममाहुरिति ड. थ. पाठः ॥ 12-312-22 न संसृजेदिति ध. पाठः ॥ 12-312-25 उदकादभिमन्यत इति ट. ध. पाठः ॥ 12-312-35 प्राकृतेन ममत्वेनेति झ. पाठः ॥ 12-312-37 श्रेयो भूयो युनक्ति मामिति ध. पाठः ॥ 12-312-41 अव्यक्तं व्यक्तधर्माणमिति झ. पाठः ॥ 12-312-46 पुनर्वेदे पुरःसर इति झ. पाठः ॥ 12-312-47 पठ्यते न नराधिपेति झ. पाठः ॥