अध्यायः 311

भीष्मेण युधिष्ठिरम् प्रति साङ्ख्यप्रतिपादकवसिष्ठकरालजनकसंवादानुवादः ॥ 1 ॥ जनक उवाच 001
नानात्वैकत्वमित्युक्तं त्वयैतदृषिसत्तम । 001a
पश्यामि वाभिसन्दिग्धमेतयोर्वै निदर्शनम् ॥ 001c
तथाऽबुद्धप्रबुद्धाभ्यां बुध्यमानस्य चानघ । 002a
स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः ॥ 002c
अक्षरक्षरयोर्युक्तं त्वया यदपि कारणम् । 003a
तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मेऽनघ ॥ 003c
तदेत्तच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् । 004a
प्रबुद्धमप्रबुद्धं च बुध्यमानं च तत्त्वतः ॥ 004c
विद्याविद्ये च भगवन्नक्षरं क्षरमेव च । 005a
साङ्ख्यं योगं च कार्त्स्न्येन पृथक्चैवापृथक्च ह ॥ 005c
वसिष्ठ उवाच 006
हन्त ते सम्प्रवक्ष्यामि यदेतदनुपृच्छसि । 006a
योगकृत्यं महाराज पृथगेव शृणुष्व मे ॥ 006c
योगकृत्यं तु योगानां ध्यानमेव परं बलम् । 007a
तच्चापि द्विविधं ध्यानमाहुर्वेदविदो जनाः ॥ 007c
एकाग्रता च मनसः प्राणायामस्तथैव च । 008a
प्राणायामस्तु सगुणो निर्गुणो मनसस्तथा ॥ 008c
मूत्रोत्सर्गपुरीषे च भोजने च नराधिप । 009a
द्विकालं नाभियुञ्जीत शेषं युञ्जीत तत्परः ॥ 009c
इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः । 010a
दशद्वादशभिर्वापि चतुर्विंशात्परं ततः ॥ 010c
तं चोदनाभिर्मतिमानात्मानं चोदयेदथ । 011a
तिष्ठन्तमजरं यं तु यत्तदुक्तं मनीषिभिः ॥ 011c
तैश्चात्मा सततं योज्य इत्येवमनुशुश्रुम । 012a
द्रुतं ह्यहीनमनसो नान्यथेति विनिश्चयः ॥ 012c
विमुक्तः सर्वसङ्गेभ्यो लघ्वाहारो जितेन्द्रियः ॥ 013a
पूर्वरात्रेऽपररात्रे च धारयेत मनोऽऽत्मनि ॥ 013c
स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर । 014a
मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ॥ 014c
स्थाणुवच्चाप्यकम्पः स्याद्दारुवच्चापि निश्चलः । 015a
बुधा विधिविधानज्ञास्तदा युक्तं प्रचक्षते ॥ 015c
न शृणोति न चाघ्राति न रस्यति न पश्यति । 016a
न च स्पर्शं विजानाति न सङ्कल्पयते मनः ॥ 016c
न चाभिमन्यते किञ्चिन्न च बुध्यति काष्ठवत् । 017a
तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः ॥ 017c
निर्वाते हि यथा दीप्यन्दीपस्तद्वत्प्रकाशते । 018a
निर्लिङ्गो विचलश्चोर्ध्वं न तिर्यग्गतिमाप्नुयात् ॥ 018c
तदा तमनुपश्येत यस्मिन्दृष्टे तु कथ्यते । 019a
हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः ॥ 019c
विधूम इव सप्तार्चिरादित्य इव रश्मिमान् । 020a
वैद्युतोऽग्निरिवाकाशे दृश्यतेऽऽत्मा तथाऽऽत्मनि ॥ 020c
सम्पश्यन्ति महात्मानो धृतिमन्तो मनीषिणः । 021a
ब्राह्मणा ब्रह्मयोनिस्था ह्ययोनिममृतात्मकम् ॥ 021c
तदेवाहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम् । 022a
तत्तत्र सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते ॥ 022c
बुद्धिद्रव्येण दृश्येत मनोदीपेन लोककृत् । 023a
महतस्तमसस्तात पारे तिष्ठन्न तामसः ॥ 023c
स च मानस इत्युक्तस्तत्वज्ञैर्वेदपारगैः । 024a
विमलो वितमस्कश्च निर्लिङ्गोऽलिङ्गसञ्ज्ञकः ॥ 024c
योगमेतत्तु योगानां मन्ये योगस्य लक्षणम् । 025a
एवं पश्यं प्रपश्यन्ति आत्मस्थमजरं परम् ॥ 025c
योगदर्शनमेतावदुक्तं ते तत्वतो मया । 026a
साङ्ख्यज्ञानं प्रवक्ष्यामि परिसङ्ख्यानदर्शनम् ॥ 026c
अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः । 027a
तस्मान्महत्समुत्पन्नं द्वितीयं राजसत्तम ॥ 027c
अहङ्कारस्तु महतस्तृतीय इति नः श्रुतम् । 028a
पञ्चभूतान्यहङ्कारादाहुः साङ्ख्यनिदर्शिनः ॥ 028c
एताः प्रकृतयश्चाष्टौ विकाराश्चापि षोडश । 029a
पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च ॥ 029c
एतावदेव तत्त्वानां साङ्ख्या आहुर्मनीषिणः । 030a
साङ्ख्ये विधिविधानज्ञा नित्यं साङ्ख्यपथे रताः ॥ 030c
यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते । 031a
लीयन्ते प्रतिलोमानि सृज्यन्ते चान्तरात्मना ॥ 031c
अनुलोमेन जायन्ते लीयन्ते प्रतिलोमतः । 032a
गुणा गुणेषु सततं सागरस्योर्मयो यथा ॥ 032c
सर्वप्रलय एतावान्प्रकृतेर्नृपसत्तम । 033a
एकत्वं प्रलये चास्य बहुत्वं च यदाऽसृजत् ॥ 033c
एवमेव च राजेन्द्र विज्ञेयं ज्ञेयचिन्तकैः । 034a
अधिष्ठाता य इत्युक्तस्तस्याप्येतन्निदर्शनम् ॥ 034c
एकत्वं च बहुत्वं च प्रकृतेरनुतत्त्ववान् । 035a
एकत्वं प्रलये चास्य बहुत्वं च प्रवर्तनात् ॥ 035c
बहुधाऽऽत्मानमकरोत्प्रकृतिः प्रसवात्मिका । 036a
तच्च क्षेत्रं महानात्मा पञ्चविंशोऽधितिष्ठति ॥ 036c
अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः । 037a
अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम् ॥ 037c
क्षेत्रं जानाति चाव्यक्तं क्षेत्रज्ञ इति चोच्यते । 038a
अव्यक्तके पुरे शेते पुरुषश्चेति कथ्यते ॥ 038c
अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते । 039a
क्षेत्रमव्यक्तमित्युक्तं ज्ञाता वै पञ्चविंशकः ॥ 039c
अन्यदेव वचो ज्ञानं स्यादन्यज्ज्ञेयमुच्यते । 040a
ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः ॥ 040c
अव्यक्तं क्षेत्रमित्युक्तं यथासत्वं तथेश्वरम् । 041a
अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम् ॥ 041c
साङ्ख्यदर्शनमेतावत्परिसङ्ख्यानदर्शनम् । 042a
साङ्ख्याः प्रकुर्वते चैव प्रकृतिं च प्रचक्षते ॥ 042c
तत्त्वानि च चतुर्विंशत्परिसङ्ख्याय तत्त्वतः । 043a
साङ्ख्याः सह प्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ॥ 043c
पञ्चविंशो प्रबुद्धात्मा बुध्यमान इति स्मृतः । 044a
यदा तु बुध्यतेऽऽत्मानं तदा भवति केवलः ॥ 044c
सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः । 045a
एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत ॥ 045c
सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा । 046a
गुणतत्त्वाद्यथैतानि निर्गुणोऽन्यस्तथा भवेत् ॥ 046c
न त्वेवं वर्तमानानामवृत्तिर्विद्यते पुनः । 047a
विद्यतेऽक्षरभावत्वे स परात्परमव्ययम् ॥ 047c
पश्येरन्नेकमतयो न सम्पक्तेषु दर्शनम् । 048a
तेऽव्यक्तं प्रतिपद्यन्ते पुनः पुनररिन्दम ॥ 048c
सर्वमेतद्विजानन्तो नासर्वस्य प्रबोधनात् । 049a
व्यक्तीभूता भविष्यन्ति व्यक्तस्य वशवर्तिनः ॥ 049c
सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः । 050a
य एनमभिजानन्ति न भयं तेषु विद्यते ॥ 050c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकादशाधिकत्रिशततमोऽध्यायः ॥ 311 ॥

12-311-3 अक्षरक्षरयोरुक्तमिति ट. पाठः । अक्षरक्षरयोगेन त्वयेति थ. पाठः ॥ 12-311-7 तच्चापि विविधमिति ड. थ. पाठः ॥ 12-311-9 विकारं नाभियुञ्जीतेति ड. थ. पाठः । त्रिकालं नाभियुञ्जीतेति झ. पाठः ॥ 12-311-10 मनसात्मनीति ट. पाठः ॥ 12-311-12 द्रुतं ह्यदीनेति ध. पाठः ॥ 12-311-19 दृष्टेति कथ्यत इति ट. ड. थ. पाठः ॥ 12-311-21 यं पश्यन्ति महात्मान इति ट. ध. पाठः ॥ 12-311-41 तथा तत्वं तथेश्वरमिति ट. ड. थ. पाठः ॥ 12-311-47 विद्यते क्षरभावत्वं यो नैवं वेत्ति पार्थिव इति ट. ड. थ. पाठः ॥ 12-311-49 न सर्वस्य प्रबोधनादिति ध. पाठः ॥