अध्यायः 310

भीष्मेण युधिष्ठिरम् प्रति प्राणिनां शरीरादिसम्बन्धादिप्रकारप्रतिपादकवसिष्ठकरालजनकसंवादानुवादः ॥ 1 ॥ वसिष्ठ उवाच 001
एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् । 001a
सर्गकोटिसहस्राणि मरणान्तानि गच्छति ॥ 001c
धाम्ना धामसहस्राणि पतनान्तानि गच्छति । 002a
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च ॥ 002c
चन्द्रमा इव भूतानां पुनस्तत्र सहस्रशः । 003a
लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान् ॥ 003c
कला पञ्चदशी योनिस्तद्धाम इति मन्यते । 004a
नित्यमेतं विजानीहि सोमं वै षौडशीं कलाम् ॥ 004c
कलया जायते जन्तुः पुनः पुनरबुद्धिमान् । 005a
धाम तस्योपयुञ्जन्ति भूय एवोपजायते ॥ 005c
षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् । 006a
न तूपयुज्यते देवैर्देवानुपयुनक्ति सा ॥ 006c
एतामक्षपयित्वा हि जायते नृपसत्तम । 007a
सा ह्यस्य प्रकृतिर्दृष्टा तत्क्षयान्मोक्ष उच्यते ॥ 007c
तदेवं षोडशकलं देहमव्यक्तसञ्ज्ञिकम् । 008a
ममायमिति मन्वानस्तत्रैव परिवर्तते ॥ 008c
पञ्चविंशस्तथैवात्मा तस्यैवाप्रतिबोधनात् । 009a
विमलश्च विशुद्धश्च शुद्धामलनिषेवणात् ॥ 009c
अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव । 010a
अबुद्धसेवनाच्चापि बुद्धोऽप्यबुद्धतां व्रजेत् ॥ 010c
तथैवाप्रतिबुद्धोऽपि विज्ञेयो नृपसत्तम । 011a
प्रकृतेस्त्रिगुणायास्तु सेवनात्प्राकृतो भवेत् ॥ 011c
करालजनक उवाच 012
अक्षरक्षरयोरेष द्वयोः सम्बन्ध उच्यते । 012a
स्त्रीपुंसोश्चापि भगवन्सम्बन्धस्तद्वदुच्यते ॥ 012c
ऋते तु पुरुषं नेह स्त्री गर्भं धारयत्युत । 013a
ऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत्तथा ॥ 013c
अन्योन्यस्याभिसम्बन्धादन्योन्यगुणसंश्रयात् । 014a
रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु ॥ 014c
स्त्रीपुंसोरभिसम्बन्धादन्योन्यगुणसंश्रयात् । 015a
ऋतौ निर्वर्त्यते रूपं तद्वक्ष्यामि निदर्शनम् ॥ 015c
ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा । 016a
अस्थि स्नायु च मज्जानं जानीमः पैतृकान्द्विज ॥ 016c
त्वङ्मांसं शोणितं चेति मातृजान्यपि शुश्रुम । 017a
एवमेतद्द्विजश्रेष्ठ वेदे शास्त्रे च पठ्यते ॥ 017c
प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते । 018a
वेदशास्त्रप्रमाणानां प्रमाणं तत्सनातनम् ॥ 018c
[अन्योन्यगुणसंरोधादन्योन्यगुणसंश्रयात् ।] 019a
एवमेवाभिसम्बद्धौ नित्यं प्रकृतिपूरुषौ ॥ 019c
पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते । 020a
अथवाऽनन्तरकृतं किञ्चिदेव निदर्शनम् । 020c
तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा ॥ 020e
मोक्षकामा वयं चापि काङ्क्षामो यदनामयम् । 021a
अदेहमजरं नित्यमतीन्द्रियमनीश्वरम् ॥ 021c
वसिष्ठ उवाच 022
यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम् । 022a
एवमेतद्यथा चैतन्न गृह्णाति तथा भवान् ॥ 022c
धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः । 023a
न च ग्रन्थस्य तत्त्वज्ञो यथावत्त्वं नरेश्वरः ॥ 023c
यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः । 024a
न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥ 024c
भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः । 025a
यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थगुणो वृथा ॥ 025c
ग्रन्थस्यार्थस्य पृष्टः संस्तादृशो वक्तुमर्हति । 026a
यथातत्त्वाभिगमनादर्थं तस्य स विन्दति ॥ 026c
वस्तु संसत्सु कथयेद्ग्रन्थार्थस्थूलबुद्धिमान् । 027a
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥ 027c
निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः । 028a
सोपहास्यात्मतामेति यस्माच्चावाप्तवानपि ॥ 028c
तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते । 029a
याथातथ्येन साङ्ख्येषु योगेषु च महात्मसु ॥ 029c
यदेव योगाः पश्यन्ति साङ्ख्यैस्तदवगम्यते । 030a
एकं साङ्ख्यं च योगं च यः पश्यति स बुद्धिमान् ॥ 030c
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जा च स्नायु च । 031a
एतदैन्द्रियकं तात तद्भवानिदमाह माम् ॥ 031c
द्रव्याद्द्रव्यस्य निर्वृत्तिरिन्द्रियादिन्द्रियं तथा । 032a
देहाद्देहमवाप्नोति बीजाद्बीजं तथैव च ॥ 032c
निरिन्द्रियस्याबीजस्य निर्द्रव्यस्याप्यदेहिनः । 033a
कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः ॥ 033c
गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च । 034a
एवं गुणाः प्रकृतितो जायन्ते निविशन्ति च ॥ 034c
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जाऽस्थि स्नायु च । 035a
अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतानि वै ॥ 035c
पुमांश्चैवापुमांश्चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम् । 036a
न वा पुमान्पुमांश्चैव स लिङ्गीत्यभिधीयते ॥ 036c
अलिङ्गात्प्रकृतिर्लिङ्गैरुपालभ्यति सात्मजैः । 037a
यथा पुष्पफलैर्नित्यमृतवो मूर्तयस्तथा ॥ 037c
एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते । 038a
पञ्चविंशतिमस्तात लिङ्गेषु नियतात्मकः ॥ 038c
अनादिनिधनोऽनन्तः सर्वदर्शी निरामयः । 039a
केवलं त्वभिमानित्वादगुणेष्वगुण उच्यते ॥ 039c
गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः । 040a
तस्मादेवं विजानन्ति ये जना गुणदर्शिनः ॥ 040c
यदा त्वेष गुणानेव प्रकृतावनुमन्यते । 041a
तदा स गुणवानेव परमं नानुपश्यति ॥ 041c
यत्तं बुद्धेः परं प्राहुः साङ्ख्ययोगाश्च सर्वशः । 042a
बुध्यमानं महाप्राज्ञमबुद्धपरिवर्जनात् ॥ 042c
अप्रबुद्धमथाव्यक्तं गुणं प्राहुरनीश्वरम् । 043a
निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ॥ 043c
प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः । 044a
साङ्ख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥ 044c
यदा प्रबुद्धास्त्वव्यक्तमवस्थाजन्मभीरवः । 045a
बुध्यमानं प्रबुद्धेन गमयन्ति समन्ततः ॥ 045c
एतन्निदर्शनं सम्यगसम्यक्चार्थदर्शनम् । 046a
बुध्यमानाप्रबुद्धानां पृथग्पृथगरिन्दम ॥ 046c
परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम् । 047a
एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते ॥ 047c
पञ्चविंशतिनिष्ठोऽयं यदा सम्यक्प्रचक्षते । 048a
एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम् ॥ 048c
तत्त्वनिस्तत्त्वयोरेतत्पृथगेव निदर्शनम् । 049a
पञ्चविंशतितत्वं तु तत्त्वमाहुर्मनीषिणः ॥ 049c
निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम् । 050a
वर्गस्य वर्गमाचारं तत्त्वं तत्त्वात्सनातनम् ॥ 050c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि दशाधिकत्रिशततमोऽध्यायः ॥ 310 ॥

12-310-9 तस्यैव प्रतिसाधनात् इति ट. थ. पाठः ॥ 12-310-11 तथैव प्रतिबुद्धोऽपीति थ. ध. पाठः ॥ 12-310-15 रत्यर्थमभिसम्बन्धादिति ट. पाठः ॥ 12-310-27 न यः संसत्स्विति झ. पाठः ॥ 12-310-28 यस्माच्चैवात्मवानपीति झ. पाठः ॥ 12-310-29 योगेशेषु मह्यत्मस्विति ध. पाठः ॥ 12-310-33 निरिन्द्रियस्य बीजस्येति ट. ड. थ. पाठः ॥ 12-310-36 स्त्रीलिङ्गं माकृतं स्मृतमिति ड. थ. पाठः ॥ 12-310-42 यं तु बुद्धेः परम् इति ट. पाठः । यत्तद्बुद्धेरिति झ. पाठः ॥ 12-310-43 सगुणं प्राहुरीश्वरमिति ट. पाठः । अगुणं प्राहुरिति झ. पाठः ॥ 12-310-46 असत्यत्वार्थदर्शनमिति ड. पाठः । असक्त्वार्थदर्शनमिति ट. थ. पाठः ॥ 12-310-49 पञ्चविंशतिकत्वं तु इति ट. पाठः । पञ्चविंशतिसर्गं तु इति झ. पाठः ॥