अध्यायः 309

भीष्मेण युधिष्ठिरम् प्रति जीवानामज्ञाननिमित्तकानर्थप्राप्त्यादिप्रतिपादकवसिष्ठकरालजनकसंवादानुवादः ॥ 1 ॥ वसिष्ठ उवाच 001
एवमप्रतिबुद्धत्वादबुद्धमनुवर्तनात् । 001a
देहाद्देहसहस्राणि तथा समभिपद्यते ॥ 001c
तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि । 002a
उपपद्यति संयोगाद्गुणैः सह गुणक्षयात् ॥ 002c
मानुषत्वाद्दिवं याति दिवो मानुष्यमेति च । 003a
मानुष्यान्निरयस्थानमनन्तं प्रतिपद्यते ॥ 003c
कोशकारो यथाऽऽत्मानं कीटः समनुरुन्धति । 004a
सूत्रतन्तुगुणैर्नित्यं तथाऽयमगुणो गुणैः ॥ 004c
द्वन्द्वमेति च निर्द्वन्द्वस्तासु तास्विह योनिषु । 005a
शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे ॥ 005c
जलोदरे तृषारोगे ज्वरगण्डे विषूचके । 006a
श्वित्रकुष्ठेऽग्निदग्धे च सिध्मापस्मारयोरपि ॥ 006c
यानि चान्यानि द्वन्द्वानि प्राकृतानि शरीरिषु । 007a
उत्पद्यन्ते विचित्राणि तान्येषोऽप्यभिमन्यते ॥ 007c
अभिमन्यत्यभीमानात्तथैव सुकृतान्यपि ॥ 008ac
शुक्लवासाश्च दुर्वासाः शायी नित्यमधस्तथा । 009a
मण्डूकशायी च तथा वीरासनगतस्तथा ॥ 009c
चीरधारणमाकाशे शयनं स्थानमेव च । 010a
इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा ॥ 010c
भस्मप्रस्तरशायी च भूमिशय्याऽनुलेपनः । 011a
वीरस्थानाम्बुपङ्के च शयनं फलकेषु च ॥ 011c
विविधासु च शय्यासु फलगृद्ध्यान्वितस्तथा । 012a
मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च ॥ 012c
शणवालपरीधानो व्याघ्रचर्मपरिच्छदः । 013a
सिंहचर्मपरीधानः पट्टवासास्तथैव च ॥ 013c
फलकपरिधानश्च तथा कण्टकवस्त्रधृत् । 014a
कीटकार्पासवसनश्चीरवासास्तथैव च ॥ 014c
वस्त्राणि चान्यानि बहून्यभिमन्यत्यबुद्धिमान् । 015a
भोजनानि विचित्राणि रत्नानि विविधानि च ॥ 015c
एकवस्त्रान्तराशित्वमेककालिकभोजनम् । 016a
चतुर्थाष्टमकालश्च षष्ठकालिक एव च ॥ 016c
षड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः । 017a
सप्तरात्रदशाहारो द्वादशाहिकभोजनः ॥ 017c
मासोपवासी मूलाशी फलाहारस्तथैव च । 018a
वायुभक्षोऽम्बुपिण्याकदधिगोमयभोजनः ॥ 018c
गोमूत्रभोजनश्चैव शाकपुष्पाद एव च । 019a
शेवालभोजनश्चैव तथाऽऽचामेन वर्तयन् ॥ 019c
वर्तयञ्शीर्णपर्णैश्च प्रकीर्णफलभोजनः । 020a
विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया ॥ 020c
चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च । 021a
चातुराश्रम्यपन्थानमाश्रयत्यपथानपि ॥ 021c
उपाश्रमानप्यपरान्पाषण्डान्विविधानपि । 022a
विविक्ताश्च शिलाच्छायास्तथा प्रस्रवणानि च ॥ 022c
पुलिनानि विविक्तानि विविक्तानि वनानि च । 023a
देवस्थानानि पुण्यानि विविक्तानि सरांसि च ॥ 023c
विविक्ताश्चापि शैलानां गुहा गृहनिभोपमाः । 024a
विविक्तानि च जप्यानि व्रतानि विविधानि च ॥ 024c
नियमान्विविधांश्चापि विविधानि तपांसि च । 025a
यज्ञांश्च विविधाकारान्विधींश्च विविधांस्तथा ॥ 025c
वणिक्पथं द्विजक्षत्रं वैश्यं शूद्रांस्तथैव च । 026a
दानं च विविधाकारं दीनान्धकृपणादिषु ॥ 026c
अभिमन्यत्यसम्बोधात्तथैव त्रिविधान्गुणान् । 027a
सत्वं रजस्तमश्चैव धर्मार्थौ काम एव च ॥ 027c
प्रकृत्याऽऽत्मानमेवात्मा एवं प्रविभजत्युत । 028a
स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः ॥ 028c
याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम् । 029a
यजनाध्ययने चैव यच्चान्यदपि किञ्चन ॥ 029c
जन्ममृत्युविवादे च तथा विशसनेऽपि च । 030a
शुभाशुभमयं सर्वमेतदाहुः क्रियाफलम् ॥ 030c
प्रकृतिः कुरुते देवी भवं प्रलयमेव च । 031a
दिवसान्ते गुणानेतानभ्येत्यैकोऽवतिष्ठते ॥ 031c
रश्मिजालमिवादित्यस्तत्तत्काले नियच्छति । 032a
एवमेषोऽसकृत्सर्वं क्रीडार्थमभिमन्यते ॥ 032c
आत्मरूपगुणानेतान्विविधान्हृदयप्रियान् । 033a
एवमेष विकुर्वाणः सर्गप्रलयधर्मिणी ॥ 033c
क्रियां क्रियापथे रक्तस्त्रिगुणांस्त्रिगुणाधिपः । 034a
क्रियां क्रियापथोपेतस्तथा तदभिमन्यते ॥ 034c
प्रकृत्या सर्वमेवेदं जगदन्धीकृतं विभो । 035a
रजसा तमसा चैव व्याप्तं सर्वमनेकधा ॥ 035c
एवं द्वन्द्वान्यथैतानि वर्तन्ते मयि नित्यशः । 036a
ममैवैतानि जायन्ते धावन्ते तानि मामिति ॥ 036c
निस्तर्तव्यान्यथैतानि सर्वाणीति नराधिप । 037a
मन्यतेऽयं ह्यबुद्धित्वात्तथैव सुकृतान्यपि ॥ 037c
भोक्तव्यानि मयैतानि देवलोकगतेन वै । 038a
इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम् ॥ 038c
पुण्यमेव तु कर्तव्यं तत्कृत्वा सुसुखं मम । 039a
यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति ॥ 039c
भविष्यति च मे दुःखं कृतेनेहाप्यनन्तकम् । 040a
महद्दुःखं हि मानुष्यं निरये चापि मज्जनम् ॥ 040c
निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः । 041a
मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः ॥ 041c
मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति । 042a
य एवं वेत्ति नित्यं वै निरात्मात्मगुणैर्वृतः ॥ 042c
तेन देवमनुष्येषु निरये चोपपद्यते । 043a
ममत्वेनावृतो नित्यं तत्रैव परिवर्तते ॥ 043c
सर्गकोटिसहस्राणि मरणान्तासु योनिषु । 044a
य एवं कुरुते कर्म शुभाशुभफलात्मकम् ॥ 044c
स एवं फलमाप्नोति त्रिषु लोकेषु मूर्तिमान् । 045a
प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् । 045c
प्रकृतिश्च तदश्नाति त्रिषु लोकेषु कामगा ॥ 045e
तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च । 046a
त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानिह ॥ 046c
अलिङ्गां प्रकृतिं त्वाहुर्लिङ्गैरनुमिमीमहे । 047a
तथैव पौरुषं लिङ्गमनुमानाद्धि गम्यते ॥ 047c
स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम् । 048a
व्रणद्वाराण्यधिष्ठाय कर्मणाऽऽत्मनि पश्यति ॥ 048c
श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाण्यथ । 049a
वागादीनि प्रवर्तन्ते गुणेष्विह गुणैः सह ॥ 049c
अहमेतानि वै सर्वं मय्येतानीन्द्रियाणि ह । 050a
निरिन्द्रियो हि मन्तेत व्रणवानस्मि निर्व्रणः ॥ 050c
अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः । 051a
असत्वं सत्वमात्मानमतत्त्वं तत्त्वमात्मनः ॥ 051c
अमृत्युर्मृत्युमात्मानमचरश्चरमात्मनः । 052a
अक्षेत्रः क्षेत्रमात्मानमसर्गः सर्गमात्मनः ॥ 052c
अतपास्तप आत्मानमगतिर्गतिमात्मनः । 053a
अभवो भवमात्मानमभयो भयमात्मनः ॥ 053c
'अकर्ता कर्तृ चात्मानमबीजो बीजमात्मनः ।' 054a
अक्षरः क्षरमात्मानमबुद्धिस्त्वभिमन्यते ॥ 054c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नवाधिकत्रिशततमोऽध्यायः ॥ 309 ॥

12-309-1 अबुद्धमनुवर्तत इति झ. ट. पाठः । अबुद्धम् अबोधम् अज्ञानम् । भावे निष्ठा न तेन नञ्समासः ॥ 12-309-2 गुणक्षयात् गुणसामर्थ्यात् । क्षि क्षयैश्वर्ययोरित्यैश्वर्यार्थस्य क्षिधातो रूपम् ॥ 12-309-6 यक्ष्मापस्मारयोरपि इति ध. पाठः ॥ 12-309-7 तान्येषोऽप्यभिपद्यते इति ध. पाठः ॥ 12-309-9 मण्डूकवत्पाणिपादं सङ्कोच्यन्युब्जः शेते इति मण्डूकशायी ॥ 12-309-10 आकाशे निरावरणे देशे ॥ 12-309-12 फलगृद्ध्या फलाशा ॥ 12-309-13 शाणीवालपरीधान इति झ. पाठः ॥ 12-309-14 फलकं भूर्जत्वगादि ॥ 12-309-19 आचामेन भक्तमण्डेन ॥ 12-309-24 गृहेषु ये निभाः नितरां भान्ति ते । दिव्यगृहोपमा इत्यर्थः ॥ 12-309-30 विशसने सङ्ग्रामे ॥ 12-309-31 भवं सृष्टिम् । अभ्येत्य ग्रसित्वा ॥ 12-309-34 क्रियापथे कर्ममार्गे ॥ 12-309-39 यावद्दानस्य मे सौख्यम् इति ट. ड. थ. पाठः ॥ 12-309-51 अगतिर्गतिमात्मन इति ध. पाठः ॥