अध्यायः 308

भीष्मेण युधिष्ठिरम् प्रति क्षराक्षरलक्षणप्रतिपादकजनकवसिष्ठसंवादानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
किं तदक्षरमित्युक्तं यस्मान्नावर्तते पुनः । 001a
किञ्च तत्क्षरमित्युक्तं यस्मादावर्तते पुनः ॥ 001c
अक्षरक्षरयोर्व्यक्तिं पृच्छाम्यरिनिषूदन । 002a
उपलब्धुं महाबाहो तत्त्वेन कुरुनन्दन ॥ 002c
त्वं हि ज्ञाननिधिर्विप्रैरुच्यसे वेदपारगैः । 003a
ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः ॥ 003c
शेषमल्पं दिनानां ते दक्षिणायनभास्करे । 004a
आवृत्ते भगवत्यर्के गन्तासि परमां गतिम् ॥ 004c
त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम् । 005a
कुरुवंशप्रदीपस्त्वं ज्ञानदीपेन दीप्यसे ॥ 005c
तदेतच्छ्रोतुमिच्छामि त्वत्तः कुरुकुलोद्वह । 006a
न तृप्यामीह राजेन्द्र शृण्वन्नमृतमीदृशम् ॥ 006c
भीष्म उवाच 007
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् । 007a
वसिष्ठस्य च संवादं करालजनकस्य च ॥ 007c
वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम् । 008a
पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥ 008c
परमध्यात्मकुशलमध्यात्मगतिनिश्चयम् । 009a
मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः ॥ 009c
स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्यनुल्बणम् । 010a
पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥ 010c
भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम् । 011a
यस्मान्न पुनरावृत्तिमाप्नुवन्ति मनीषिणः ॥ 011c
यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत् । 012a
यच्चाक्षरमिति प्रोक्तं शिवं क्षेम्यमनामयम् ॥ 012c
वसिष्ठ उवाच 013
श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् । 013a
यन्न क्षरति पूर्वेण यावत्कालेन चाप्यथ ॥ 013c
युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्युगम् । 014a
दशकल्पशतावृत्तमहस्तद्ब्राह्ममुच्यते ॥ 014c
रात्रिश्चैतावती राजन्यस्यान्ते प्रतिबुध्यते । 015a
सृजत्यनन्तकर्माणं महान्तं भूतमग्रजम् ॥ 015c
मूर्तिमन्तममूर्तात्मा विश्वं शम्भुः स्वयम्भुवम् । 016a
अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् ॥ 016c
सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् । 017a
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ 017c
हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः । 018a
महानिति च योगेषु विरिञ्चिरिति चाप्यजः ॥ 018c
साङ्ख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः । 019a
विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः ॥ 019c
वृतं नैकात्मकं येन कृतं त्रैलोक्यमात्मना । 020a
तथैव बहुरूपत्वाद्विश्वरूप इति स्मृतः ॥ 020c
एष वै विक्रियापन्नः सृजत्यात्मानमात्मना । 021a
अहङ्कारं महातेजाः प्रजापतिरहङ्कृतम् ॥ 021c
अव्यक्ताद्व्यक्तमापन्नं विद्यासर्गं वदन्ति तम् । 022a
महान्तं चाप्यहङ्कारमविद्यासर्गमेव च ॥ 022c
अपरश्च परश्चैव समुत्पन्नौ तथैकतः । 023a
विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः ॥ 023c
भूतसर्गमहङ्कारात्तृतीयं विद्धि पार्थिव । 024a
अहङ्कारेषु सर्वेषु चतुर्थं विद्धि वैकृतम् ॥ 024c
वायुर्ज्योतिरथाकाशमापोऽथ पृथिवी तथा । 025a
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ॥ 025c
एवं युगपदुत्पन्नं दशवर्गमसंशयम् । 026a
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थवत् ॥ 026c
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् । 027a
वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ॥ 027c
बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च । 028a
सम्भूतानीह युगपन्मनसा सह पार्थिव ॥ 028c
एषा तत्त्वचतुर्विंशत्सर्वाकृतिषु वर्तते । 029a
यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ॥ 029c
एतद्देहं समाख्यानं त्रैलोक्ये सर्वदेहिषु । 030a
वेदितव्यं नरश्रेष्ठ सदेवनरदानवे ॥ 030c
सयक्षभूतगन्धर्वे सकिन्नरमहोरगे । 031a
सचारणपिशाचे वै सदेवर्षिनिशाचरे ॥ 031c
सदंशकीटमशके सपूतिकृमिमूषिके । 032a
शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे ॥ 032c
हस्त्यश्वखरशार्दूले सवृके गवि चैव ह । 033a
यच्च मूर्तिमयं किञ्चित्सर्वत्रैतन्निदर्शनम् ॥ 033c
जले भुवि तथाऽऽकाशे नान्यत्रेति विनिश्चयः । 034a
स्थानं देहवतामस्ति इत्येवमनुशुश्रुम ॥ 034c
कृत्स्नमेतावतस्तात क्षरते व्यक्तसञ्ज्ञितम् । 035a
अहन्यहनि भूतात्मा ततः क्षर इति स्मृतः ॥ 035c
एतद्धि क्षरमित्युक्तं क्षरतीदं यथा जगत् । 036a
जगन्मोहात्मकं प्राहुरव्यक्तं व्यक्तसञ्ज्ञकम् ॥ 036c
महांश्चैवाग्रजो नित्यमेतत्क्षरनिदर्शनम् । 037a
कथितं ते महाराजन्यस्मान्नावर्तते पुनः ॥ 037c
पञ्चविंशतिमो विष्णुर्निस्तत्त्वस्तत्त्वसञ्ज्ञितः । 038a
तत्त्वसंश्रयणादेतत्तत्वमाहुर्मनीषिणः ॥ 038c
यन्मर्त्यमसृजद्व्यक्तं तत्तन्मूर्त्यधितिष्ठति । 039a
चतुर्विंशतिमोऽव्यक्तो ह्यमूर्तः पञ्चविंशकः ॥ 039c
स एव हृदि सर्वासु मूर्तिष्वात्मावतिष्ठते । 040a
चेतयंश्चेतनान्नित्यं सर्वमूर्तिरमूर्तिमान् ॥ 040c
सर्वप्रत्ययधर्मिण्यां स सर्गः प्रत्ययात्मकः । 041a
गोचरे वर्तते नित्यं निर्गुणो गुणसञ्ज्ञिते ॥ 041c
एवमेष महानात्मा सर्गप्रलयकोविदः । 042a
विकुर्वाणः प्रकृतिमानभिमन्यत्यबुद्धिमान् ॥ 042c
तमःसत्वरजोयुक्तस्तासु तास्विह योनिषु । 043a
लीयते प्रतिबुद्धत्वादबुद्धजनसेवनात् ॥ 043c
सहवासनिवासात्मा नान्योऽहमिति मन्यते । 044a
योऽहं सोहमिति ह्युक्त्वा गुणानेवानुवर्तते ॥ 044c
तमसा तामसान्भावान्विविधान्प्रतिपद्यते । 045a
रजसा राजसांश्चैव सात्विकान्सत्वसंश्रयात् ॥ 045c
शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु । 046a
सर्वाण्येतानि रूपाणि यानीह प्राकृतानि वै ॥ 046c
तामसा निरयं यान्ति राजसा मानुषानथ । 047a
सात्विका देवलोकाय गच्छन्ति सुखभागिनः ॥ 047c
निष्कैवल्येन पापेन तिर्यग्योनिमवाप्नुयात् । 048a
पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः ॥ 048c
एवमव्यक्तविषयं क्षरमाहुर्मनीषिणः । 049a
पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते ॥ 049c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टाधिकत्रिशततमोऽध्यायः ॥ 308 ॥

12-308-5 ज्ञानद्रव्येण दीप्यस इति ड. ध. पाठः ॥ 12-308-7 करालनामा जनकः करालजनकस्तस्य । एतत्ते वर्तयिष्यामीति ट. ड. थ. पाठः ॥ 12-308-9 कुशलम् ऊहापोहसमर्थम् । गतिरनुभवस्तेन निश्चयोऽस्यास्तीति तथा । मैत्रावरुणिं वसिष्ठम् ॥ 12-308-22 महतश्चाप्यहङ्कारमिति ड. ध. पाठः ॥ 12-308-23 अविधिश्च विधिश्चैवेति झ. पाठः । श्रुतिश्चाध्यात्मचिन्तकैरिति ड. थ. ध. पाठ ॥ 12-308-37 एतत्क्षेत्रनिदर्शनमिति ट. ड. ध. पाठः ॥ 12-308-39 यां तु मूर्तिं सृजत्येषा तां मूर्तिमधितिष्ठतीति ट. पाठः ॥ 12-308-41 सर्गप्रलयधर्मिण्या ससर्गप्रलयात्मक इति झ. पाठः ॥ 12-308-42 सर्गप्रत्ययकोविद इति ट. ध. पाठः । अक्षरः क्षरमात्मानमभिमज्जत्यबुद्धिमानिति थ. पाठः ॥ 12-308-44 सहवासविनाशित्वान्नान्योऽहमिति झ. पाठः ॥ 12-308-46 जातानि प्राकृतानि वै इति ड. थ. पाठः । जानीहि प्राकृतानि वै इति ध. पाठः ॥