अध्यायः 307

भीष्मेण युधिष्ठिरम् प्रति साङ्ख्यनिरूपणम् ॥ 1 ॥ युधिष्ठिर उवाच 001
सम्यक्त्वयाऽयं नृपते वर्णितः शिष्टसम्मतः । 001a
योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ॥ 001c
साङ्ख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते । 002a
त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते ॥ 002c
भीष्म उवाच 003
शृणु मे त्वमिदं कृत्स्नं साङ्ख्यानां विदितात्मनाम् । 003a
विदितं यतिभिः सर्वैः कपिलादिभिरीश्वरैः ॥ 003c
यस्मिन्नविभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ । 004a
गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला ॥ 004c
ज्ञानेन परिसङ्ख्याय सदोषान्विषयान्नृप । 005a
मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा ॥ 005c
राक्षसान्विषयाञ्ज्ञात्वा यक्षाणां विषयांस्तथा । 006a
विषयानौरगाञ्ज्ञात्वा गान्धर्वविषयांस्तथा ॥ 006c
पितॄणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप । 007a
सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा ॥ 007c
राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा । 008a
आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च ॥ 008c
देवर्षिविषयाञ्ज्ञात्वा योगानामपि चेश्वरान् । 009a
प्रजापतीनां विषयान्ब्रह्मणो विषयांस्तथा ॥ 009c
आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः । 010a
सुखस्य च परं तत्त्वं विज्ञाय वदतां वर ॥ 010c
प्राप्ते काले च यद्दुःखं सततं विषयैषिणाम् । 011a
तिर्यक्षु पततां दुःखं पततां नरके च यत् ॥ 011c
स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत । 012a
'परिसङ्ख्यानसङ्ख्यानं सत्वं साङ्ख्यगुणात्मकम् ।' 012c
वेदवादे येऽपि दोषा गुणा ये चापि वैदिकाः ॥ 012e
ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप । 013a
साङ्ख्यज्ञाने च ये दोषास्तथैव च गुणा नृप । 013c
'इतरेषु च ये दोषा गुणास्तेषु च भारत ॥' 013e
सत्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा । 014a
तमश्चाष्टगुणं ज्ञात्वा वृद्धिं सप्तगुणां तथा ॥ 014c
षड्गुणं च मनो ज्ञात्वा नभः पञ्चगुणं तथा । 015a
बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं तथा ॥ 015c
द्विगुणं च रजो ज्ञात्वा सत्वमेकगुणं पुनः । 016a
सर्गं विज्ञाय तत्त्वेन प्रलये प्रेक्ष्य चात्मनः ॥ 016c
ज्ञानविज्ञानसम्पन्नाः कारणैर्भाविताः शुभाः । 017a
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥ 017c
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च । 018a
शब्दे सक्तं तथा श्रोत्रं जिह्वा रसगुणेषु च ॥ 018c
त्वचं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम् । 019a
मोहं तमसि संयुक्तं लोभमर्थेषु संश्रितम् ॥ 019c
विष्णौ क्रान्तं बलं शक्रे कोष्ठे सक्तं तथाऽनलम् । 020a
अप्सु देवीं समासक्तामपस्तेजसि संश्रिताः ॥ 020c
तेजः सूक्ष्मे च संयुक्तं वायुं नभसि चाश्रितम् । 021a
नभो महति संयुक्तं महद्बुद्धौ च संश्रितम् ॥ 021c
बुद्धिं तमसि संसक्तां तमो रजसि संश्रितम् । 022a
रजः सत्वे तथा सक्तं सत्वं सक्तं तथाऽऽत्मनि ॥ 022c
सक्तमात्मानमीशे च देवे नारायणे तथा । 023a
देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित् ॥ 023c
ज्ञात्वा सत्वयुतं देहं वृतं षोडशभिर्गुणैः । 024a
स्वभावं चेतनां चैव ज्ञात्वा देहसमाश्रिते ॥ 024c
मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते । 025a
द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम् ॥ 025c
इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् । 026a
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ॥ 026c
प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः । 027a
आवहं चानिलं ज्ञात्वा प्रवहं चानिलं पुनः ॥ 027c
सप्तवातांस्तथा शेषान्सप्तधा विहितान्पुनः । 028a
प्रजापतीनृषींश्चैव मार्गांश्चैव बहून्वरान् ॥ 028c
सप्तर्षींश्च बहूञ्ज्ञात्वा राजर्षींश्च परन्तप । 029a
सुरर्षीन्महतश्चान्यान्ब्रह्मर्षीन्सूर्यसन्निभान् ॥ 029c
ऐश्वर्याच्च्यावितान्दृष्ट्वा कालेन महता नृप । 030a
महतां भूतसङ्घानां श्रुत्वा नाशं च पार्थिव ॥ 030c
गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मिणाम् । 031a
वैतरण्यां च यद्दुःखं पतितानां यमक्षये ॥ 031c
योनीषु च विचित्रासु संसारानशुभांस्तथा । 032a
जठरे चाशुभे वासं शोणितोदकभाजने ॥ 032c
श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते । 033a
शुक्रशोणितसङ्घाते मज्जास्नायुपरिग्रहे ॥ 033c
सिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ । 034a
विज्ञायाहितमात्मानं योगांश्च विविधान्नृप ॥ 034c
तामसानां च जन्तूनां रमणीयावृतात्मनाम् । 035a
सात्विकानां च जन्तूनां कुत्सितं भरतर्षभ ॥ 035c
गर्हितं महतामर्थे साङ्ख्यानां विदितात्मनाम् । 036a
उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा ॥ 036c
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् । 037a
द्वन्द्वानां विप्रयोगं च विज्ञाय कृपणं नृप ॥ 037c
अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् । 038a
बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम् ॥ 038c
रागे मोहे च सम्प्राप्ते क्वचित्सत्वं समाश्रितम् । 039a
सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः ॥ 039c
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् । 040a
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः ॥ 040c
विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः । 041a
गतासूनां च कौन्तेय देहान्दृष्ट्वा तथाऽशुभान् ॥ 041c
वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत । 042a
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ॥ 042c
सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् । 043a
गुरूदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥ 043c
जननीषु च वर्तन्ते येन सम्यग्युधिष्ठिर । 044a
सदेवकेषु लोकेषु येन वर्तन्ति मानवाः ॥ 044c
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् | 045a
तिर्यग्योनिगतानां च विज्ञाय च गतिं पृथक् ॥ 045c
वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा । 046a
क्षयं संवत्सराणां च मासानां च क्षयं तथा ॥ 046c
पक्षक्षयं तथा दृष्ट्वा दिवसानां च सङ्क्षयम् । 047a
क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा ॥ 047c
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः । 048a
क्षयं धनानां दृष्ट्वा च पुनर्वृद्धिं तथैव च ॥ 048c
संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः । 049a
क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा ॥ 049c
वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः । 050a
जरा मृत्युस्तथा जन्म दृष्ट्वा दुःखानि चैव ह ॥ 050c
देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः । 051a
देहविक्लवतां चैव सम्यग्विज्ञाय तत्त्वतः ॥ 051c
आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान् । 052a
स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभान् । 052c
'मूत्रश्लेष्मपुरीषादीन्स्वेदजांश्च सुकुत्सितान् ॥' 052e
युधिष्ठिर उवाच 053
कान्स्वगात्रोद्भवान्दोषान्पश्यस्यमितविक्रम । 053a
एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः ॥ 053c
भीष्म उवाच 054
पञ्च दोषान्प्रभो देहे प्रवदन्ति मनीषिणः । 054a
मार्गज्ञाः कापिलाः साङ्ख्याः शृणु तानरिसूदन ॥ 054c
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते ॥ 055ac
एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् । 056a
छिन्दन्ति क्षमया क्रोधं कामं सङ्कल्पवर्जनात् ॥ 056c
सत्वसंसेवनान्निद्रामप्रमादाद्भयं तथा । 057a
छिन्दन्ति पञ्चमं श्वासमल्पाहारतया नृप ॥ 057c
गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि । 058a
हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः ॥ 058c
अपां फेनोपमं लोकं विष्णोर्मायाशतैश्चितम् । 059a
चित्रभित्तिप्रतीकाशं नलसारमनर्थकम् ॥ 059c
तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसन्निभम् । 060a
क्लेशप्रायं सुखाद्धीनं नाशोत्तरमिहावशम् ॥ 060c
रजस्तमसि सम्मग्नं पङ्के द्वीपमिवावशम् । 061a
साङ्ख्या राजन्महाप्राज्ञास्त्यक्त्वा देहं प्रजाकृतम् ॥ 061c
ज्ञानयोगेन साङ्ख्येन व्यापिना महता नृप । 062a
राजसानशुभान्गन्धांस्ताम्मसांश्च तथाविधान् ॥ 062c
पुण्यांश्च सात्विकान्गन्धान्स्पर्शजान्देहसंश्रितान् । 063a
छित्त्वाऽऽशु ज्ञानशस्त्रेण तपो दण्डेन भारत ॥ 063c
ततो दुःखोदधिं घोरं चिन्ताशोकमहाह्रदम् । 064a
व्याधिमृत्युमहाग्राहं महाभयमहोरगम् ॥ 064c
तमःकूर्मं रजोमीनं प्रज्ञया सन्तरन्त्युत । 065a
स्नेहपङ्कं जरादुर्गं ज्ञानदीपमरिन्दम ॥ 065c
कर्मागाधं सत्यतीरं स्थितव्रतमरिन्दम । 066a
हिंसाशीघ्रमहावेगं नानारससमाकरम् ॥ 066c
नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम् । 067a
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम् ॥ 067c
अस्थिसङ्घातसङ्घट्टं श्लेष्मफेनमरिन्दम । 068a
दानमुक्ताकरं घोरं शोणितह्रदविद्रुमम् ॥ 068c
हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम् । 069a
रोदनाश्रुमलक्षारं सङ्गत्यागपरायणम् || 069c
पुत्रदारजलौकौघं मित्रबान्धवपत्तनम् । 070a
अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम् ॥ 070c
वेदान्तगमनद्वीपं सर्वभूतदयोदकम् । 071a
मोक्षदुर्लाभविषयं वडवामुखसागरम् ॥ 071c
तरन्ति मुनयः सिद्धा ज्ञानयानेन भारत । 072a
तीर्त्वाऽतिदुस्तरं जन्म विशन्ति विमलं नभः ॥ 072c
तत्र तान्सुकृतीन्साङ्ख्यान्सूर्यो वहति रश्मिभिः । 073a
पद्मतन्तुवदाविश्य प्रसह्य विषयान्नृप ॥ 073c
तत्र तान्प्रवहो वायुः प्रतिगृह्णाति भारत । 074a
वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान् ॥ 074c
सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत । 075a
सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान् । 075c
स तान्वहति कौन्तेय नभसः परमां गतिम् ॥ 075e
नभो वहति लोकेश रजसः परमां गतिम् । 076a
'तमो वहति लोकेश रजसः परमां गतिम् ।' 076c
रजो वहति राजेन्द्र सत्वस्य परमां गतिम् ॥ 076e
सत्वं वहति राजेन्द्र परं नारायणं प्रभुम् । 077a
प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ॥ 077c
परमात्मानमासाद्य तद्भूता यतयोऽमलाः । 078a
अमृतत्वाय कल्पन्ते न निवर्तन्ति वा विभो ॥ 078c
परमा सा गतिः पार्थ निर्द्वन्द्वानां महात्मनाम् । 079a
सत्यार्जवरतानां वै सर्वभूतदयावताम् ॥ 079c
युधिष्ठिर उवाच 080
स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः । 080a
आजन्ममरणं वा ते स्मरन्त्युत न वाऽनघ ॥ 080c
यदत्र तथ्यं तन्मे त्वं यथावद्वक्तुमर्हसि । 081a
त्वदृते पुरुषं नान्यं प्रष्टुमर्हामि कौरव ॥ 081c
मोक्षे दोषो महानेष प्राप्य सिद्धिगतानृषीन् । 082a
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥ 082c
प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप । 083a
मग्नस्य हि परे ज्ञाने किं न दुःखतरं भवेत् । 083c
भीष्म उवाच 084
यथान्यायं त्वया तात प्रश्नः पृष्टः सुसङ्कटः । 084a
बुधानामपि सम्मोहः प्रश्नेऽस्मिन्भरतर्षभ ॥ 084c
अत्रापि तत्त्वं परमं शृणु सम्यङ्मयेरितम् । 085a
बुद्धिश्च परमा यत्र कापिलानां महात्मनाम् ॥ 085c
इन्द्रियाण्येव बुध्यन्ते स्वदेहे देहिनां नृप । 086a
कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः ॥ 086c
आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु । 087a
विनश्यन्ति न सन्देहः फेना इव महार्णवे ॥ 087c
इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन । 088a
सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ॥ 088c
स पश्यति यथान्यायं स्पर्शान्स्पृशति वा विभो । 089a
बुध्यमानो यथापूर्वमखिलेनेह भारत ॥ 089c
इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि । 090a
अनीशत्वात्प्रलीयन्ते सर्पा हतविषा इव ॥ 090c
इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः । 091a
आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः ॥ 091c
सत्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः । 092a
गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च भारत ॥ 092c
गुणांश्च मनसश्चापि नभसश्च गुणांश्च सः । 093a
गुणान्वायोश्च धर्मात्मंस्तेजसां च गुणान्पुनः ॥ 093c
अपां गुणांस्तथा पार्थ पार्थिवांश्च गुणानपि । 094a
सर्वात्मना गुणैर्व्याप्तः क्षेत्रज्ञेषु युधिष्ठिर ॥ 094c
आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे । 095a
शिष्या इव महात्मानमिन्द्रियाणि च तं प्रभो ॥ 095c
प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम् । 096a
परं नारायणं देवं निर्द्वन्द्वं प्रकृतेः परम् ॥ 096c
विमुक्तः सर्वपापेभ्यः प्रविष्टस्तमनामयम् । 097a
परमात्मानमगुणं न निवर्तति भारत ॥ 097c
शिष्टं तत्र मनस्तात इन्द्रियाणि च भारत । 098a
आगच्छन्ति यथाकालं गुरोः सन्देशकारिणः ॥ 098c
शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना । 099a
एवमुक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा ॥ 099c
साङ्ख्या राजन्महाप्राज्ञा गच्छन्ति परमां गतिम् । 100a
ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते ॥ 100c
अत्र ते संशयो मा भूज्ज्ञानं साङ्ख्यं परं मतम् । 101a
अक्षरं ध्रुवमव्यक्तं पूर्णं ब्रह्म सनातनम् ॥ 101c
अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम् । 102a
कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः ॥ 102c
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः । 103a
यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः ॥ 103c
सर्वे विप्राश्च देवाश्च तथा शमविदो जनाः । 104a
ब्रह्मण्यं परमं देवमनन्तं परमच्युतम् ॥ 104c
प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः । 105a
सम्यग्युक्तास्तथा योगाः साङ्ख्याश्चामितदर्शनाः ॥ 105c
अमूर्तेस्तस्य कौन्तेय साङ्ख्यं मूर्तिरिति श्रुतिः । 106a
अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ ॥ 106c
द्विविधानीह भूतानि पृथिव्यां पृथिवीपते । 107a
जङ्गमाजङ्गमाख्यानि जङ्गमं तु विशिष्यते ॥ 107c
ज्ञानं महद्यद्धि महत्सु राजन्वेदेषु साङ्ख्येषु तथैव योगे । 108a
यच्चापि दृष्टं विविधं पुराणे साङ्ख्यागतं तन्निखिलं नरेन्द्र ॥ 108c
यच्चेतिहासेषु महत्सु दृष्टं यच्चार्थशास्त्रे नृप शिष्टजुष्टे । 109a
ज्ञानं च लोके यदिहास्ति किञ्चित्साङ्ख्यागतं तच्च महन्महात्मन् ॥ 109c
शमश्च दृष्टः परमं बलं च ज्ञानं च साङ्ख्यं च यथावदुक्तम् । 110a
तपांसि सूक्ष्माणि सुखानि चैव साङ्ख्ये यथावद्विहितानि राजन् ॥ 110c
विपर्यये तस्य हि पार्थ देवान्गच्छन्ति साङ्ख्याः सततं सुखेन । 111a
तांश्चानुसञ्चार्य ततः कृतार्थाः पतन्ति विप्रेषु यतेषु भूयः ॥ 111c
हित्वा च देहं प्रविशन्ति मोक्षं दिवौकसो द्यामिव पार्थ साङ्ख्याः । 112a
अतोऽधिकं तेऽभिरता महार्थे साङ्ख्ये द्विजाः पार्थिव शिष्टजुष्टे ॥ 112c
तेषां न तिर्यग्गमनं हि दृष्टं नार्वाग्गतिः पापकृताधिवासः । 113a
च चाबुधानामपि ते द्विजातयो ये ज्ञानमेतन्नृपतेऽनुरक्ताः ॥ 113c
साङ्ख्यं विशालं परमं पुराणं महार्णवं विमलमुदाहरन्ति | 114a
कृत्स्नं च साङ्ख्यं नृपते महात्मा नारायणो धारयतेऽप्रमेयम् ॥ 114c
एतन्मयोक्तं नरदेव तत्त्वं नारायणो विश्वमिदं पुराणम् । 115a
स सर्गकाले च करोति सर्गं संहारकाले च तदत्ति भूयः ॥ 115c
संहृत्य सर्वं निजदेहसंस्थं कृत्वाऽप्सु शेते जगदन्तरात्मा ॥ 116ac

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्ताधिकत्रिशततमोऽध्यायः ॥ 307 ॥

12-307-1 सम्यक्त्वया यज्ञपते इति थ. पाठः ॥ 12-307-4 यस्मिन्न विश्रमाः इति थ. पाठः ॥ 12-307-5 दोषान्विषयजान्नृपेति थ. पाठः ॥ 12-307-9 विषयांश्च प्रणाशान्तान्ब्रह्मणो विषयांस्तथेति ध. पाठः ॥ 12-307-19 तनुं स्पर्शे इति झ. पाठः ॥ 12-307-20 कोष्ठे उदरे । देवीं पृथ्वीम् ॥ 12-307-24 सत्वगुणं देहमिति झ. पाठः ॥ 12-307-36 उपप्लवान् उपरागान् । तेजसः सूर्यस्य ॥ 12-307-37 नराणां पतनं दृष्ट्वेति थ. पाठः । बन्धूनां विप्रयोगं चेति ट. पाठः । द्वन्द्वानां दम्पतीनाम् ॥ 12-307-39 क्वचित्पुंसि ॥ 12-307-40 बहुमानम् अत्यादरम् । मध्यस्थताम् औदासीन्यम् ॥ 12-307-41 दौरात्म्यं बन्धहेतुताम् ॥ 12-307-42 कुलेषु गृहेषु ॥ 12-307-45 विज्ञाय गतयः पृथगिति थ. पाठः ॥ 12-307-48 क्षयं वनानामिति थ. पाठः ॥ 12-307-59 नलसारं नलतृणवदन्तःसारहीनम् ॥ 12-307-60 क्लेशप्रायं क्लेशबहुलम् ॥ 12-307-65 स्पर्शद्विपमरिन्दमेति ट. थ. पाठः ॥ 12-307-67 व्याधिमहारुजमिति थ. पाठः ॥ 12-307-76 तमसः परमां गतिमिति थ. पाठः ॥ 12-307-83 मग्नस्य हि परं ज्ञानमिति झ. पाठः ॥ 12-307-85 तथापि परमं तत्वमिति ट. थ. पाठः ॥ 12-307-104 सर्वे देवाश्च वेदाश्चेति ट. पाठः ॥