अध्यायः 306
भीष्मेण युधिष्ठिरम् प्रति योगनिरूपणम् ॥ 1 ॥
युधिष्ठिर उवाच 001
साङ्ख्ये योगे च मे तात विशेषं वक्तुमर्हसि । 001a
तव धर्मज्ञ सर्वं हि विदितं कुरुसत्तम ॥ 001c
भीष्म उवाच 002
साङ्ख्याः साङ्ख्यं प्रशंसन्ति योगा योगं द्विजातयः । 002a
वदन्ति कारणं श्रेष्ठं स्वपक्षोद्भावनाय वै ॥ 002c
अनीश्वरः कथं मुच्येदित्येवं शत्रुसूदन । 003a
वदन्ति कारणश्रैष्ठ्यं योगाः सम्यङ्मनीषिणः ॥ 003c
वदन्ति कारणं चेदं साङ्ख्याः सम्यग्द्विजातयः । 004a
विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥ 004c
ऊर्ध्वं च देहात्सुव्यक्तं विमुच्येदिति नान्यथा । 005a
एतदाहुर्महाप्राज्ञाः साङ्ख्यं वै मोक्षदर्शनम् ॥ 005c
स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् । 006a
शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसम्मतैः ॥ 006c
प्रत्यक्षहेतवो योगाः साङ्ख्याः शास्त्रविनिश्चयाः । 007a
उभे चैते मते तत्त्वे मम तात युधिष्ठिर ॥ 007c
उभे चैते मते ज्ञाने नृपते शिष्टसम्मते । 008a
अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥ 008c
तुल्यं शौचं तयोरेकं दया भूतेषु चानघ । 009a
व्रतानां धारणं तुल्यं दर्शनं न समं तयोः । 009c
'तयोस्तु दर्शनं सम्यक्सूक्ष्माभावे प्रसज्यते ॥' 009e
युधिष्ठिर उवाच 010
यदि तुल्यं व्रतं शौचं दया चात्र फलं तथा । 010a
न तुल्यं दर्शनं कस्मात्तन्मे ब्रूहि पितामह ॥ 010c
भीष्म उवाच 011
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् । 011a
योगाच्छित्त्वा ततो दोषान्पञ्चैतान्प्राप्नुवन्ति ते ॥ 011c
यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर्जलम् । 012a
प्राप्नुवन्ति तथा योगास्तत्पदं वीतकल्मषाः ॥ 012c
तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः । 013a
प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ 013c
लोभजानि तथा राजन्बन्धनानि बलान्विताः । 014a
छित्त्वा योगात्परं मार्गं गच्छन्ति विमलं शिवम् ॥ 014c
अबलाश्च मृगा राजन्वागुरासु यथा परे । 015a
विनश्यन्ति न सन्देहस्तद्वद्योगबलादृते ॥ 015c
बलहीनाश्च कौन्तेय यथा जालं गता झषाः । 016a
अन्तं गच्छन्ति राजेन्द्र योगास्तद्वत्सुदुर्बलाः ॥ 016c
यथा च शकुनाः सूक्ष्मं प्राप्य जालमरिन्दम । 017a
तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः ॥ 017c
कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगाः परन्तप । 018a
अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः ॥ 018c
अल्पकश्च यथा राजन्वह्निः शाम्यति दुर्बलः । 019a
आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगो बलः प्रभो ॥ 019c
स एव च यदा राजन्वह्निर्जातबलः पुनः । 020a
समीरणयुतः क्षिप्रं दहेत्कृत्स्नां महीमपि ॥ 020c
तद्वज्जातबलो योगी दीप्ततेजा महाबलः । 021a
अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत् ॥ 021c
दुर्बलश्च यथा राजन्स्रोतसा ह्रियते नरः । 022a
बलहीनस्तथा योगो विषयैर्ह्रियतेऽवशः ॥ 022c
तदेव च महास्रोतो विष्टम्भयति वारणः । 023a
तद्वद्योगबलं लब्ध्वा व्यूहते विषयान्बहून् ॥ 023c
विशन्ति चावशाः पार्थ योगाद्योगबलान्विताः । 024a
प्रजापतीनृषीन्देवान्महाभूतानि चेश्वराः ॥ 024c
न यमो नान्तकः क्रुद्धो न नृत्युर्भीमविक्रमः । 025a
ईशते नृपते सर्वे योगस्यामिततेजसः ॥ 025c
आत्मनां च सहस्राणि बहूनि भरतर्षभ । 026a
योगः कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥ 026c
प्राप्नुयाद्विषयान्कश्चित्पुनश्चोग्रं तपश्चरेत् । 027a
सङ्क्षिपेच्च पुनस्तात सूर्यस्तेजोगुणानिव ॥ 027c
बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव । 028a
विमोक्षे प्रभविष्णुत्वमुपपन्नमसंशयम् ॥ 028c
बलानि योगप्राप्तानि मयैतानि विशाम्पते । 029a
निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस्तव ॥ 029c
आत्मनश्च समाधाने धारणां प्रति वा विभो । 030a
निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ ॥ 030c
अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः । 031a
युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशयम् ॥ 031c
स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम् । 032a
पुरुषो युक्त आरोहेत्सोपानं युक्तमानसः ॥ 032c
युक्तस्तथाऽयमात्मानं योगः पार्थिव निश्चलम् । 033a
करोत्यमलमात्मानं भास्करोपमदर्शनम् ॥ 033c
यथा च नावं कौन्तेय कर्णधारः समाहितः । 034a
महार्णवगतां शीघ्रं नयेत्पार्थिव पत्तनम् ॥ 034c
तद्वदात्मसमाधानं युक्त्वा योगेन तत्ववित् । 035a
दुर्गमं स्थानमाप्नोति हित्वा देहमिमं नृप ॥ 035c
सारथिश्च यथा युक्त्वा सदश्वान्सुसमाहितः । 036a
देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभ ॥ 036c
तथैव नृपते योगी धारणासु समाहितः । 037a
प्राप्नोत्याशु परं स्थानं लक्षं मुक्त इवाशुगः ॥ 037c
आवेश्यात्मनि चात्मानं योगी तिष्ठति योचलः । 038a
पापं हन्ति पुनीतानां पदमाप्नोति सोऽजरम् ॥ 038c
नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः । 039a
दर्शने श्रवणे चापि घ्राणे चामितविक्रम ॥ 039c
स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः । 040a
आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्विशाम्पते ॥ 040c
स शीघ्रमचलप्रख्यं कर्म दग्ध्वा शुभाशुभम् । 041a
उत्तमं योगमास्थाय यदीच्छति विमुच्यते ॥ 041c
युधिष्ठिर उवाच 042
आहारान्कीदृशान्कृत्वा कानि जित्वा च भारत । 042a
योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति ॥ 042c
भीष्म उवाच 043
कणानां भक्षणे युक्तः पिण्याकस्य च भारत । 043a
स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ॥ 043c
भुञ्जानो यावकं रूक्षं दीर्घकालमरिन्दम । 044a
एकाहारो विशुद्धात्मा योगी बलमवाप्नुयात् ॥ 044c
पक्षान्मासानृतूंश्चैतान्संवत्सरानहस्तथा । 045a
अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात् ॥ 045c
अखण्डमपि वा मांसं सततं मनुजेश्वर । 046a
उपोष्य सम्यक्शुद्धात्मा योगी बलमवाप्नुयात् ॥ 046c
कामं जित्वा तथा क्रोधं शीतोष्णे वर्षमेव च । 047a
भयं शोकं तथा श्वासं पौरुषान्विषयांस्तथा ॥ 047c
अरतिं दुर्जयां चैव घोरां तृष्णां च पार्थिव । 048a
स्पर्शं निद्रां तथा तन्द्रीं दुर्जयां नृपसत्तम ॥ 048c
दीपयन्ति महात्मानः सूक्ष्ममात्मानमात्मना । 049a
वीतरागा महाप्रज्ञा ध्यानाध्ययनसम्पदा ॥ 049c
दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम् । 050a
न कश्चिद्व्रजति ह्यस्मिन्क्षेमेण भरतर्षभ ॥ 050c
यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम् । 051a
श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम् ॥ 051c
अभक्षमटवीप्रायं दावदग्धमहीरुहम् । 052a
पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद्युवा ॥ 052c
योगमार्गं तथाऽऽसाद्य यः कश्चिद्व्रजते द्विजः । 053a
क्षेमेणोपरमेन्मार्गाद्बहुदोषो हि स स्मृतः ॥ 053c
सुस्थेयं क्षुरधारासु निशितासु महीपते । 054a
धारणासु तु योगस्य दुःस्थेयमकृतात्मभिः ॥ 054c
विपन्ना धारणास्तात नयन्ति न शुभां गतिम् । 055a
नेतृहीना यथा नावः पुरुषानर्णवे नृप ॥ 055c
यस्तु तिष्ठति कौन्तेय धारणासु यथाविधि । 056a
मरणं जन्म दुःखं च सुखं च स विमुञ्चति ॥ 056c
नानाशास्त्रेषु निष्पन्नं योगेष्विदमुदाहृतम् । 057a
परं योगस्य यत्कृत्यं निश्चितं तद्द्विजातिषु ॥ 057c
परं हि तद्ब्रह्ममयं महात्मन्ब्रह्माणमीशं वरदं च विष्णुम् । 058a
भवं च धर्मं च षडाननं च षड्ब्रह्मपुत्रांश्च महानुभावान् ॥ 058c
तमश्च कष्टं सुमहद्रजश्च सत्वं विशुद्धं प्रकृतिं परां च । 059a
सिद्धिं च देवीं वरुणस्य पत्नीं तेजश्च कृत्स्नं सुमहच्च धैर्यम् ॥ 059c
ताराधिपं खे विमलं सतारं विश्वांश्च देवानुरगान्पितॄंश्च । 060a
शैलांश्च कृत्स्नानुदधींश्च घोरान्नदीश्च सर्वाः सवनान्घनांश्च ॥ 060c
नागान्नगान्यक्षगणान्दिशश्च गन्धर्वसङ्घान्पुरुषान्स्त्रियश्च । 061a
परात्परं प्राप्य महान्महात्मा विशेत योगी नचिराद्विमुक्तः ॥ 061c
कथा च येयं नृपते प्रसक्ता देवे महावीर्यतमौ शुभेयम् । 062a
योगी स सर्वानभिभूय मर्त्यान्नारायणात्मा कुरुते महात्मा ॥ 062c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षडधिकत्रिशततमोऽध्यायः ॥ 306 ॥
12-306-1 तव सर्वज्ञेति थ. ध. पाठः ॥ 12-306-2 कारणं हेतुः युक्तिरिति यावत् । स्वपक्षस्योद्भावनाय उत्कर्णाय कारणं श्रैष्ठ्यमिति थ. पाठः ॥ 12-306-5 साङ्ख्या वै मोक्षदर्शिन इति ध. पाठः ॥ 12-306-7 उभे चैते मते युक्ते इति ध. पाठः ॥ 12-306-9 भूतानां धारणं तुल्यमिति ध. पाठः ॥ 12-306-14 छित्त्वा योगाः परमिति ट. थ. पाठः ॥ 12-306-23 व्यूहते विक्षिपति तुच्छीकरोतीत्यर्थः ॥ 12-306-24 अवशाः स्वतन्त्राः ॥ 12-306-26 आत्मानं च सहस्राणीति ट. थ. पाठः । सौभर्यादिवद्युगपदनेकदेहधारणं योगिनां दृष्टमित्यर्थः ॥ 12-306-28 बन्धनेशस्य बन्धनं छेत्तुं समर्थस्य ॥ 12-306-29 बलानि योगे प्रोक्तानि इति ध. पाठः । मया उक्तानीति शेषः ॥ 12-306-32 पात्रे शिरसि धृते ॥ 12-306-33 योगी पार्थिव निश्चलमिति थ. पाठः ॥ 12-306-38 अवेक्ष्यात्मनीति झ. पाठः । जलं हन्तेव मीनानामिति ट. पाठः ॥ 12-306-44 एकारामो विशुद्धात्मेति ठ. ध. पाठः ॥ 12-306-45 ऋतूंश्चित्रान्सञ्चरश्च गृहांस्तथेति ध. पाठः ॥ 12-306-51 बहुसङ्कटमिति ध. पाठः ॥ 12-306-52 अभक्तमटवीप्रायमिति ट. ध. पाठः ॥ 12-306-62 योगान्सर्वाननुभूयेह मर्त्य इति ध. पाठः ॥