अध्यायः 305
भीष्मेण युधिष्ठिरम् प्रति मोक्षसाधनप्रतिपादकहंससाध्यसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
सत्यं दमं क्षमां प्रज्ञां प्रशंसन्ति पितामह । 001a
विद्वांसो मनुजा लोके कथमेतन्मतं तव ॥ 001c
भीष्म उवाच 002
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् । 002a
साध्यानामिह संवादं हंसस्य च युधिष्ठिर ॥ 002c
हंसो भूत्वाऽथ सौवर्णस्त्वजो नित्यः प्रजापतिः । 003a
स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् ॥ 003c
साध्या ऊचुः 004
शकुने वयं स्म देवा वै साध्यास्त्वामनुयुङ्क्ष्महे । 004a
पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित् ॥ 004c
श्रुतोसि नः पण्डितो धीरवादी साधुः शब्दश्चरते ते पतत्रिन् । 005a
किं मन्यसे श्रेष्ठतमं द्विज त्वं कस्मिन्मनस्ते रमते महात्मन् ॥ 005c
तन्नः कार्यं पक्षिवर प्रशाधि यत्कार्याणां मन्यसे श्रेष्ठमेकम् । 006a
यत्कृत्वा वै पुरुषः सर्वबन्धैर्विमुच्यते विहगेन्द्रेह शीघ्रम् ॥ 006c
हंस उवाच 007
इदं कार्यममृताशाः शृणुध्वं तपो दमः सत्यमात्माभिगुप्तिः । 007a
ग्रन्थीन्विमुच्य हृदयस्य सर्वान्प्रियाप्रिये स्वं वशमानयीत ॥ 007c
नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत । 008a
ययाऽस्य वाचा पर उद्विजेत न तां वदेदुशतिं पापलोक्याम् ॥ 008c
वाक्सायका वदनान्निष्यतन्ति यैराहतः शोचति रात्र्यहानि । 009a
परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥ 009c
परश्चेदेनमतिवादबाणैर्भृशं विध्येच्छम एवेह कार्यः । 010a
संरोष्यमाणः प्रतिहृष्यते यः स आदत्ते सुकृतं वै परस्य ॥ 010c
क्षेपायमाणमभिषङ्गव्यलीकं निगृह्णाति ज्वलितं यश्च मन्युम् । 011a
अदुष्टचेता मुदितोऽनसूयुः स आदत्ते सुकृतं वै परेषाम् ॥ 011c
आक्रुश्यमानो न वदामि किञ्चित्क्षमाम्यहं ताड्यमानश्च नित्यम् । 012a
श्रेष्ठं ह्येतद्यत्क्षमामाहुरार्याः सत्यं तथैवार्जवमानृशंस्यम् ॥ 012c
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः । 013a
दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम् ॥ 013c
वाचो वेगं मनसः क्रोधवेगं विधित्सावेगमुदरोपस्थवेगम् । 014a
एतान्वेगान्यो विषहेदुदीर्णांस्तं मन्येऽहं ब्राह्मणं वै मुनिं च ॥ 014c
अक्रोधनः क्रुध्यतां वै विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः । 015a
अमानुषान्मानुषो वै विशिष्टस्तथाऽज्ञानाज्ज्ञानवान्वै विशिष्टः ॥ 015c
आक्रुश्यमानो नाक्रोशेन्मन्युरेवं तितिक्षतः । 016a
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ 016c
यो नायुक्तः प्राह रूक्षं प्रियं वा यो वा हतो न प्रतिहन्ति धैर्यात् । 017a
पापं च यो नेच्छति तस्य हन्तुस्तस्येह देवाः स्पृहयन्ति नित्यम् ॥ 017c
पापीयसः क्षमेतैव श्रेयसः सदृशस्य च । 018a
विमानितो हतोक्रुष्ट एवं सिद्धिं गमिष्यति ॥ 018c
सदाऽहमार्यान्निभृतोप्युपासे न मे विधित्सोत्सहते न रोषः । 019a
न चाप्यहं लिप्समानः परैमि न चैव किञ्चिद्विषमेण यामि ॥ 019c
नाहं शप्तः प्रतिशपामि कञ्चिद्दमं द्वारं ह्यमृतस्येह वेद्मि । 020a
गुह्यं ब्रह्म तदिदं ब्रवीमि न मानुषाच्छ्रेष्ठतरं हि किञ्चित् ॥ 020c
निर्मुच्यमानः पापेभ्यो घनेभ्य इव चन्द्रमाः । 021a
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति ॥ 021c
यः सर्वेषां भवति ह्यर्चनीय उत्सेचने स्तम्भ इवाभिजातः । 022a
यस्मै वाचं सुप्रसन्नां वदन्ति स वै देवान्गच्छति संयतात्मा ॥ 022c
न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान् । 023a
यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः ॥ 023c
यस्य वाङ्मनसी गुप्ते सम्यक्प्रणिहिते सदा । 024a
वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात् ॥ 024c
आक्रोशनविमानाभ्यां नाबुधान्बोधयेद्बुधः । 025a
तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत् ॥ 025c
अमृतस्येव सन्तृप्येदवमानस्य पण्डितः । 026a
सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ॥ 026c
यत्क्रोधनो यजति यद्ददाति यद्वा तपस्तप्यति यज्जुहोति । 027a
वैवस्वतस्तद्धरतेऽस्य सर्वं मोघः श्रमो भवति हि क्रोधनस्य ॥ 027c
चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः । 028a
उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् ॥ 028c
सत्यं दमं ह्यार्जवमानृशंस्यं धृतिं तितिक्षामभिसेवमानः । 029a
स्वाध्यायनित्योऽस्पृहयन्यरेषामेकान्तशील्यूर्ध्वगतिर्भवेत्सः ॥ 029c
सर्वान्देदाननुचरन्वत्सवच्चतुरः स्तनान् । 030a
न पावनतमं किञ्चित्सत्यादध्यगमं क्वचित् ॥ 030c
आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसञ्चरन् । 031a
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ 031c
यादृशैः संविवदते यादृशांश्चोपसेवते । 032a
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ 032c
यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वा स्तेनमेव । 033a
वासो यथा रागवशं प्रयाति तथा स तेषां वशमभ्युपैति ॥ 033c
सदा देवाः साधुभिः संवदन्ते न मानुषं विषयं यान्ति द्रष्टुम् । 034a
नेन्दुः समः स्यादसमो हि वायुरुच्चावचं विषयं यः स वेद ॥ 034c
अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे । 035a
तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै ॥ 035c
विश्नोदरे ये निरताः सदैव स्तेना नरा वाक्परुषाश्च नित्यम् । 036a
अपेतधर्मानिति तान्विदित्वा दूराद्देवः सम्परिवर्जयन्ति ॥ 036c
न वै देवा हीनसत्वेन तोष्याः सर्वाशिना दुष्कृतकर्मणा वा । 037a
सत्यव्रता ये तु नराः कृतज्ञा धर्मे रतास्तैः सह सम्भजन्ते ॥ 037c
अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् । 038a
धर्म्यं वदेद्व्याहृतं तत्तृतीयं प्रियं वदेद्व्याहृतं तच्चतुर्थम् ॥ 038c
साध्या ऊचुः 039
केनायमावृतो लोकः केन वा न प्रकाशते । 039a
केन त्यजति मित्राणि केन स्वर्गं न गच्छति ॥ 039c
हंस उवाच 040
अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते । 040a
लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ॥ 040c
साध्या ऊचः 041
कः स्विदेको रमते ब्राह्मणानां कः स्विदेको बहुभिर्जोषमास्ते । 041a
कः स्विदेको बलवान्दुर्बलोपि कः स्विदेषां कलहं नान्ववैति ॥ 041c
हंस उवाच 042
प्राज्ञ एको रमते ब्राह्मणानां प्राज्ञश्चैको बहुभिर्जोषमास्ते | 042a
प्राज्ञ एको बलवान्दुर्बलोऽपि प्राज्ञ एषां कलहं नान्ववैति ॥ 042c
साध्या ऊचुः 043
किं ब्राह्मणानां देवत्वं किञ्च साधुत्वमुच्यते । 043a
असाधुत्वे च किं तेषां किमेषां मानुषं मतम् ॥ 043c
हंस उवाच 044
स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते । 044a
असाधुत्वं परीवादो मृत्युर्मानुष्यमुच्यते ॥ 044c
भीष्म उवाच 045
'इत्युक्त्वा परमो देवो भगवान्नित्य अव्ययः । 045a
साध्यैर्देवगणैः सार्धं दिवमेवारुरोह सः ॥ 045c
एतद्यशस्यमायुष्यं पुण्यं स्वर्गाय च ध्रुवम् । 046a
दर्शितं देवदेवेन परमेणाव्ययेन च ॥' 046c
संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः । 047a
क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते ॥ 047c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चाधिकत्रिशततमोऽध्यायः ॥ 305 ॥
12-305-5 हे द्विज पक्षिन् ॥ 12-305-7 भो अमृताशा अमृतभुजो देवाः | तपः स्वधर्माचरणम् । ग्रन्थीन् रागादीन् ॥ 12-305-8 अरुन्तुदो मर्मच्छित् ॥ 12-305-11 क्षेपायमाणमधिक्षेपकारिणम् । अभिषङ्गव्यलीकमभिनिवेशवशादप्रियम् ॥ 12-305-13 उपनिषद्रहस्यं वेदाधिगमस्य फलं सत्यवचनमित्यर्थः । दमस्योपनिषत्त्याग इति ध. पाठः ॥ 12-305-14 विधित्सा विशिष्टा पिपासा । धेट् पानेऽस्य रूपम् । तृष्णावेगमित्यर्थः । ब्राह्मणं ब्रह्मिष्टम् । मुनिं ध्यायिनम् ॥ 12-305-15 अज्ञानाज्ज्ञानहीनान्मूढात् ॥ 12-305-17 अत्युक्तोऽत्यन्तं निन्दितः ॥ 12-305-19 निभृतोऽपि पूर्णोऽपि । विधित्सा तृष्णा । उत्सहते उल्लसति । परैमि धर्मादपगच्छामि ॥ 12-305-20 ब्रह्म महत् ॥ 12-305-23 नैर्गुण्यं दोषम् । अनुयुञ्जकाः स्पर्धावन्तः ॥ 12-305-25 अबुधान् आक्रोष्टॄन् शुनकानिव न बोधयेत् । न वर्धयेत् न हिंसयेत् । मबुध्वा वर्धते बुध इति ड. पाठः ॥ 12-305-29 अस्पृहयन्परेषाम् आशां जितवान् ॥ 12-305-31 आचक्षे कथयामि । पारावारस्य समुद्रस्य ॥ 12-305-34 इन्दुरमृतमयोऽपि न समः किन्तूपचयापचयधर्मा । तथा वायुरप्यसम एव । मन्दमध्यमतीव्रभेदात् । एवं सर्वं विषयमुच्चावयमुपचयापचयवन्तं यो वेद स एव वेद नान्य इत्यर्थः ॥ 12-305-37 हीनसत्वेन नीचबुद्धिना । सम्भजन्ते सुखं विभज्य सेवन्ते ॥ 12-305-38 अव्याहृतं मौनम् ॥