अध्यायः 304

भीष्मेण युधिष्ठिरम् प्रति श्रेयःसाधनकलापप्रतिपादकपराशरगीतानुवादसमापनम् ॥ 1 ॥ भीष्म उवाच 001
पुनरेव तु पप्रच्छ जनको मिथिलाधिपः । 001a
पराशरं महात्मानं धर्मे परमनिश्चयम् ॥ 001c
जनक उवाच 002
किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति । 002a
क्व गतो न निवर्तेत तन्मे ब्रूहि महामते ॥ 002c
पराशर उवाच 003
असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा । 003a
चीर्णं तपो न प्रणश्येद्वापः क्षेत्रे न नश्यति ॥ 003c
छित्त्वाऽधर्ममयं पाशं यदा धर्मेऽभिरज्यते । 004a
दत्त्वाऽभयकृतं दानं तदा सिद्धिमवाप्नुते ॥ 004c
यो ददाति सहस्राणि गवामश्वशतानि च । 005a
अभयं सर्वभूतेभ्यः सदा तमभिवर्तते ॥ 005c
वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान् । 006a
संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि ॥ 006c
नाधर्मः श्लिष्यते प्राज्ञं पयः पुष्करपर्णवत् । 007a
अप्राज्ञमधिकं पापं श्लिष्यते जतुकाष्ठवत् ॥ 007c
नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति । 008a
कर्ता खलु यथाकालं ततः समभिपद्यते ॥ 008c
न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः । 009a
बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते । 009c
शुभाशुभे प्रसक्तात्मा प्राप्नोति सुमहद्भयम् ॥ 009e
वीतरागो जितक्रोधः सम्यग्भवति यः सदा । 010a
विषये वर्तमानोऽपि न स पापेन युज्यते ॥ 010c
मर्यादायां धर्मसेतुर्निबद्धो नावसीदति । 011a
पुष्टस्रोत इवासक्तः स्फीतो भवति सञ्चयः ॥ 011c
यथा भानुगतं तेजो मणिः शुद्धः समाधिना । 012a
आदत्ते राजशार्दूल तथा योगः प्रवर्तते ॥ 012c
यथा तिलानामिह पुण्यसंश्रयात्पृथक्पृथग्याति गुणोऽतिसाम्यताम् । 013a
तथा नराणां भुवि भावितात्मनां यथाश्रयं सत्वगुणः प्रवर्तते ॥ 013c
जहाति दारान्विविधाश्च सम्पदः पदं च यानं विविधाश्च सत्क्रियाः । 014a
त्रिविष्टपे जातमतिर्यदा नरस्तदाऽस्य बुद्धिर्विषयेषु भिद्यते ॥ 014c
प्रसक्तबुद्धिर्विषयेषु यो नरो न बुध्यते ह्यात्महितं कथञ्चन । 015a
स सर्वभावानुगतेन चेतसा नृपाऽऽमिषेणेव झषो विकृष्यते ॥ 015c
सङ्घातवन्मर्त्यलोकः परस्परमपाश्रितः । 016a
कदलीगर्भनिःसारो नौरिवाप्सु निमज्जति ॥ 016c
न धर्मकालः पुरुषस्य निश्चितो न चापि मृत्युः पुरुषं प्रतीक्षते । 017a
सदा हि धर्मस्य क्रियैव शोभना तदा नरो मृत्युमुखान्निवर्तते ॥ 017c
यथाऽन्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति । 018a
तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम् ॥ 018c
मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम् । 019a
अविद्वान्मोक्षधर्मेषु बद्धो भ्रमति चक्रवत् ॥ 019c
बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च । 020a
विस्तराः क्लेशसंयुक्ताः सङ्क्षेपास्तु सुखावहाः । 020c
परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः ॥ 020e
यथा मृणालानुगतमाशु मुञ्चति कर्दमम् । 021a
तथाऽऽत्मा पुरुषस्येह मनसा परिमुच्यते ॥ 021c
मनः प्रणयतेऽऽत्मानं स एनमभियुञ्जति । 022a
युक्तो यदा स भवति तदा तं पश्यते परम् ॥ 022c
परार्थे वर्तमानस्तु स्वं कार्यं योऽभिमन्यते । 023a
इन्द्रियार्थेषु सक्तः स स्वकार्यात्परिहीयते ॥ 023c
अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम् । 024a
प्राप्नोति सुकृतैरात्मा प्राज्ञस्येहेतरस्य च ॥ 024c
मृन्मये भाजने पक्वे यथा वै नश्यति द्रवः । 025a
तथा शरीरं तपसा तप्तं विषयमश्नुते ॥ 025c
विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम् । 026a
यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति ॥ 026c
नीहारेण हि संवीतः शिश्नोदरपरायणः । 027a
जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते ॥ 027c
वणिग्यथा समुद्राद्वै यथार्थं लभते धनम् । 028a
तथा मर्त्यार्णवाज्जन्तोः कर्मविज्ञानतो गतिः ॥ 028c
अहोरात्रमये लोके जरारूपेण सञ्चरन् । 029a
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ॥ 029c
स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते । 030a
नाकृतं लभते कश्चित्किञ्चिदत्र प्रियाप्रियम् ॥ 030c
शयानं यान्तमासीनं प्रवृत्तं विषयेषु च । 031a
शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा ॥ 031c
न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति । 032a
दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे ॥ 032c
यथा भावावसन्ना हि नौर्महाम्भसि तन्तुना । 033a
यथा मनोभियोगाद्वै शरीरं प्रचिकीर्षति ॥ 033c
यथा समुद्रमभितः संश्रिताः सरितोऽपराः । 034a
तथाऽन्याप्रकृतिर्योगादभिसंश्रियते सदा ॥ 034c
स्नेहपाशैर्बहुविधैरासक्तमनसो नराः । 035a
प्रकृतिस्था विषीदन्ति जले सैकतवेश्मवत् ॥ 035c
शरीरगृहसंस्थस्य शौचतीर्थस्य देहिनः । 036a
बुद्धिमार्गप्रयातस्य सुखं त्विह परत्र च ॥ 036c
विस्तराः क्लेशसंयुक्ताः सङ्क्षेपास्तु सुखावहाः । 037a
परार्थं विस्तराः सर्वे त्यागमात्महितं विदुः ॥ 037c
सङ्कल्पजो मित्रवर्गो ज्ञातयः कारणात्मकाः । 038a
भार्या पुत्रश्च दासश्च स्वमर्थमनुयुञ्जते ॥ 038c
न माता न पिता किञ्चित्कस्यचित्प्रतिपद्यते । 039a
दानपथ्यौदनो जन्तु स्वकर्मफलमश्नुते ॥ 039c
माता पुत्रः पिता भ्राता भार्या मित्रजनस्तथा । 040a
अष्टापदपदस्थाने लाक्षामुद्रेव लक्ष्यते ॥ 040c
सर्वाणि कर्माणि पुराकृतानि शुभाशुभान्यात्मनो यान्ति जन्तोः । 041a
उपस्थितं कर्मफलं विदित्वा बुद्धिं तथा चोदयतेऽन्तरात्मा ॥ 041c
व्यवसायं समाश्रित्य सहायान्योऽधिगच्छति । 042a
न तस्य कश्चिदारम्भः कदाचिदवसीदति ॥ 042c
अद्वैधमनसं युक्तं शूरं धीरं विपश्चितम् । 043a
न श्रीः सन्त्यजते नित्यमादित्यमिव रश्मयः ॥ 043c
आस्तिक्यव्यवसायाभ्यामुपायान्वितया धिया । 044a
य आरभत्यनिन्द्यात्मा न सोऽर्थात्परिसीदति ॥ 044c
सर्वःस्वानि शुभाशुभानि नियतं कर्माणि जन्तुः स्वयं गर्भात्सम्प्रतिपद्यते तदुभयं यत्तेन पूर्वं कृतम् । 045A
मृत्युश्चापरिहारवान्समगतिः कालेन विच्छेदिना दारोश्चूर्णमिवाश्मसारविहितं कर्मान्तिकं प्रापयेत् || 045B
स्वरूपतामात्मकृतं च विस्तरं कुलान्वयं द्रव्यसमृद्धिसञ्चयम् । 046a
नरो हि सर्वो भलते यथाकृतं शुभाशुभेनात्मकृतेन कर्मणा ॥ 046c
भीष्म उवाच 047
इत्युक्तो जनको राजन्याथातथ्यं मनीषिणा । 047a
श्रुत्वा धर्मविदां श्रेष्ठः परां मुदमवाप ह ॥ 047c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुरधिकत्रिशततमोऽध्यायः ॥ 304 ॥

12-304-2 श्रेयः श्रेयःसाधनम् । क्व गत्वा न निवर्तन्त इति ड. थ. पाठः ॥ 12-304-3 ज्ञानं चैव परा गतिरिति ड. थ. पाठः । न प्रणश्येत्संसिद्धो न निवर्तते इति ड. थ. पाठः ॥ 12-304-5 स दानमतिवर्तते इति ध. पाठः ॥ 12-304-11 यथा नद्यां बद्धः सेतुर्नैव सीदति स्रोतःपुष्टिं करोति एवमसक्तो धर्म एव सेतुर्यस्य सः । मर्यादायां बद्धो नैव सीदति । सञ्चयस्तपोवृद्धिश्च स्फीता भवतीत्यर्थः ॥ 12-304-13 यथानिलानामिह पुष्पसञ्चयादिति ध. पाठः ॥ 12-304-14 जहाति राजन्विहितेन सम्पदा सदश्वयानं विविधाश्च शय्याः इति ध. पाठः ॥ 12-304-15 आमिषेण बडिशगर्भितेन । झषो मत्स्यः । न विन्दते ह्यात्मपदं कदाचनेति ड. थ. पाठः ॥ 12-304-16 सङ्घातवद्देहेन्द्रियादिसमुदायवत् । मर्त्यलोकः स्त्रीपुत्रपश्वादिसमुदायः । अपाश्रित उपकारकः ॥ 12-304-19 जन्मनि जन्मनिमित्तम् ॥ 12-304-20 विस्तराः वैतानिकान्यग्निहोत्रादीनि । सङ्क्षेपास्त्यागादयः ॥ 12-304-23 स्वकार्यं यो निवर्तते इति थ. ध. पाठः ॥ 12-304-25 मृण्मये भाजने वह्नौ यथा वै शुष्यते द्रवमिति ड. थ. पाठः ॥ 12-304-41 यान्ति फलं दातुमिति शेषः ॥ 12-304-42 व्यवसायमुद्योगम् ॥ 12-304-43 अद्वैधमनसम् एकाग्रचित्तम् ॥ 12-304-45 गर्भात् गर्भप्रवेशमारभ्य । यत् यस्मात्तदुभयं शुभाशुभम् । अपरिहारवान्परिहर्तुमशक्यः । कालेन प्राप्तेन विच्छेदिना जीवननाशकेन सहायेन मृत्युः कर्मान्तिकं दिष्टान्तं विनाशाख्यं प्रापयेत् । दारोः काष्ठस्य चूर्णम् अश्मसारविहितं ककचकृतम् । समा शीतोष्णसाम्यवती गतिर्यस्य स समगतिर्वायुः । दारुचूर्णमिव मृत्युर्नरं कालेनान्तं नयतीत्यर्थः । कर्मान्तरं प्रापयेदिति ध. पाठः ॥ 12-304-46 स्वरूपतां स्वस्य रूपं हिरण्यं पशवो विवाहा इति श्रुतं रूपमिव रूपं यस्य स्वकुलानुसारि विवाहादिकं तदेव तत्ता ताम् । आत्मकृतं विस्तरं पुत्रसन्तत्यादिपौष्कल्यम् । कुलान्वयं सत्कुले जन्म । यथाकृतं कृतमनतिक्रम्य सर्वं प्राक्कर्मवशादेव लभ्यते ॥