अध्यायः 303

भीष्मेण युधिष्ठिरम् प्रति धर्मादिसाधनतया मानुष्यप्रशंसापूर्वकं नानाधर्मप्रतिपादकपराशरगीतानुवादः ॥ 1 ॥ पराशर उवाच 001
पिता सखायो गुरवः स्त्रियश्च न निर्गुणानां प्रभवन्ति लोके । 001a
अनन्यभक्ताः प्रियवादिनश्च हिताश्च वश्याश्च तथैव राजन् ॥ 001c
पिता परं दैवतं मानवानां मातुर्विशिष्टं पितरं वदन्ति । 002a
ज्ञानस्य लाभं परमं वदन्ति जितेन्द्रियार्थाः परमाप्नुवन्ति ॥ 002c
रणाजिरे यत्र शराग्निसंस्तरे नृपात्मजो घातमवाप्य दह्यते । 003a
प्रयाति लोकानमरैः सुदुर्लभान्निषेवते स्वर्गफलं यथासुखम् ॥ 003c
श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं पराङ्मुखं पारिबर्हैश्च हीनम् । 004a
अनुद्यन्तं रोगिणं याचमानं न वै हिंस्याद्बालवृद्धौ च राजन् ॥ 004c
पारिबर्हैः सुसंयुक्तमुद्यतं तुल्यतां गतम् । 005a
अतिक्रमेत्तं नृपतिः सङ्ग्रामे क्षत्रियात्मजम् ॥ 005c
तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः । 006a
निहीनात्कातराच्चैव कृपणाद्गर्हितो वधः ॥ 006c
पापात्पापसमाचारान्निहीनाच्च नराधिप । 007a
पाप एष वधः प्रोक्तो नरकायेति निश्चयः ॥ 007c
न कश्चित्त्राति वै राजन्दिष्टान्तवशमागतम् । 008a
सावशेषायुषं चापि कश्चिन्नैवापकर्षति ॥ 008c
स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत् । 009a
हिंसात्मकानि सर्वाणि नायुरिच्छेत्परायुषा ॥ 009c
गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम् । 010a
निधनं शोभनं तात पुलिनेषु क्रियावताम् ॥ 010c
आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति । 011a
तथा ह्यकारणाद्भवति कारणैरुपपादितम् ॥ 011c
तथा शरीरं भवति देहाद्येनोपपादितम् । 012a
अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम् ॥ 012c
द्वितीयं कारणं तत्र नान्यत्किञ्चन विद्यते । 013a
तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते ॥ 013c
शिरास्नाय्वस्थिसङ्घातं बीभत्सामेध्यसङ्कुलम् । 014a
भूतानामिन्द्रियाणां च गुणानां च समागमम् ॥ 014c
त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः । 015a
गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम् ॥ 015c
शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् । 016a
भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति ॥ 016c
भावितं कर्मयोगेन जायते तत्रतत्र ह । 017a
इदं शरीरं वैदेह म्रियते यत्रयत्र ह । 017c
तत्प्रपाते परो दृष्टो विसर्गः कर्मणस्तथा ॥ 017e
न जायते तु नृपते कञ्चित्कालमयं पुनः । 018a
परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् ॥ 018c
स पुनर्जायते राजन्प्राप्येहायतनं नृपः । 019a
मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः ॥ 019c
विविधानां च भूतानां जङ्गमाः परमा नृप । 020a
जङ्गमानामपि तथा द्विपदाः परमा मताः । 020c
द्विपदानामपि तथा द्विजा वै परमाः स्मृताः ॥ 020e
द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः । 021a
प्राज्ञानामात्मसम्बुद्धाः सम्बुद्धानाममानिनः ॥ 021c
जातमन्वेति मरणं नृणामिति विनिश्चयः । 022a
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः ॥ 022c
आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् । 023a
नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् ॥ 023c
अयोजयित्वा क्लेशेन जनं प्लाप्य च दुष्कृतम् । 024a
मृत्युनाऽऽत्मकृतेनेह कर्म कृत्वाऽऽत्मशक्तितः ॥ 024c
विषमुद्बन्धनं दाहो दस्युहस्तात्तथा वधः । 025a
दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते ॥ 025c
न चैभिः पुण्यकर्माणो युज्यन्ते चाभिसन्धिजैः । 026a
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि ॥ 026c
ऊर्ध्वं भित्त्वा प्रतिष्ठन्ते प्राणाः पुण्यवतां नृप । 027a
मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम् ॥ 027c
एकः शत्रुर्न द्वितीयोस्ति शत्रुरज्ञानतुल्यः पुरुषस्य राजन् । 028a
येनावृतः कुरुते सम्प्रयुक्तो घोराणि कर्माणि सुदारुणानि ॥ 028c
प्रबोधनार्थं श्रुतिधर्मयुक्तं वृद्धानुपास्य प्रभवेत यस्य । 029a
प्रयत्नसाध्यो हि स राजपुत्र प्रज्ञाशरेणोन्मथितः परैति ॥ 029c
अधीत्य वेदं तपसा ब्रह्मचारी यज्ञाञ्शक्त्या सन्निसृज्येह पञ्च । 030a
वनं गच्छेत्पुरुषो धर्मकामः श्रेयः कृत्वा स्थापयित्वा स्ववंशम् ॥ 030c
उपभोगैरपि त्यक्तं नात्मानं सादयेन्नरः । 031a
चण्डालत्वेऽपि मानुष्यं सर्वथा तात शोभनम् ॥ 031c
इयं हि योनिः प्रथमा यां प्राप्य जगतीपते । 032a
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ॥ 032c
कथं न विप्रणश्येम योनितोस्या इति प्रभो । 033a
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात् ॥ 033c
यो दुर्लभतरं प्राप्य मानुष्यं द्विषते नरः । 034a
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते ॥ 034c
यस्तु प्रीतिपुराणेन चक्षुषा तात पश्यति । 035a
दीपोपमानि भूतानि यावदर्थान्न पश्यति ॥ 035c
सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत । 036a
समदुःखसुखो भूत्वा स परत्र महीयते ॥ 036c
दानं त्यागः शोभना मुर्तिमद्भ्यो भूयः प्लाव्यं तपसा वै शरीरम् । 037a
सरस्वतीनैमिषपुष्करेषु ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् ॥ 037c
गृहेषु येषामसवः पतन्ति तेषामथो निर्हरणं प्रशस्तम् । 038a
यानेन वै प्रापणं च श्मशाने शुचौ देशे विधिना चैव दाहः ॥ 038c
इष्टिः पुष्टिर्यजनं याजनं च दानं पुण्यानां कर्मणां च प्रयोगः । 039a
शक्त्या पित्र्यं यच्च किञ्चित्प्रशस्तं सर्वाण्यात्मार्थे मानवोऽयं करोति ॥ 039c
'गृहस्थानां च सर्वेषां विनाशमभिकाङ्क्षताम् । 040a
निधनं शोभनं तात पुलिनेषु क्रियावताम् ॥' 040c
धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप । 041a
श्रेयसोर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः ॥ 041c
भीष्म उवाच 042
एतद्वै सर्वमाख्यातं मुनिना सुमहात्मना । 042a
विदेहराजाय पुरा श्रेयसोर्थे नराधिप ॥ 042c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्र्यधिकत्रिशततमोऽध्यायः ॥ 303 ॥

12-303-2 लाभं लाभहेतुम् ॥ 12-303-4 पारिबर्है रथाश्वकवचादिभिः ॥ 12-303-5 अतिक्रमेज्जयेत् ॥ 12-303-8 दिष्टान्तो मृत्युः ॥ 12-303-9 सन्नद्धैः क्रियमाणानीति थ. पाठः । हिंसात्मकानि कर्माणीति ध. पाठः ॥ 12-303-10 पुलिनेषु पुलिनवत्सु तीर्थेषु निधनं मरणं श्रेयः ॥ 12-303-15 शरीरं मन्दतां गतमिति ध. पाठः ॥ 12-303-17 तत्स्वभावो परो दृष्ट इति झ. पाठः ॥ 12-303-32 आत्मा वै शक्यते ज्ञातुमिति ध. पाठः ॥ 12-303-36 सान्त्वेनान्नप्रदानेनेति झ. पाठः ॥ 12-303-35 प्रीतिपुराणेन प्रीत्या चिरन्तनेन दीपोपमानि स्नेहेन संवर्धनीयानि । यावदर्थान् सर्वान्विषयान् दयावान् भूतानि पश्यति विरक्तोऽर्थान्न पश्यति यः स महीयते इत्युत्तरेण सम्बन्धः ॥ 12-303-38 शौचेनं नूनं विधिना चेति ध. पाठः ॥