अध्यायः 302
भीष्मेण युधिष्ठिरम् प्रति नानाधर्मप्रतिपादकपराशरगीतानुवादः ॥ 1 ॥
जनक उवाच 001
वर्णो विशेषवर्णानां महर्षे केन जायते । 001a
एतदिच्छाम्यहं ज्ञातुं तद्ब्रूहि वदतां वर ॥ 001c
यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः । 002a
कथं ब्राह्मणतो जातो विशेषग्रहणं गतः ॥ 002c
पराशर उवाच 003
एवमेतन्महाराज येन जातः स एव सः । 003a
तपसस्त्वपकर्षेण जातिग्रहणतां गतः ॥ 003c
सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति सम्भवः । 004a
अतोऽन्यतरतो हीनादवरो नाम जायते ॥ 004c
वक्त्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे । 005a
सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः ॥ 005c
मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रियाः स्मृताः । 006a
ऊरुजा धनिनो राजन्पादजाः परिचारकाः ॥ 006c
चतुर्णामेव वर्णानामागमः पुरुषर्षभ । 007a
अतोन्ये त्वतिरिक्ता ये ते वै सङ्करजाः स्मृताः ॥ 007c
क्षत्रियातिरथाम्बष्ठा उग्रा वैदेहकास्तथा । 008a
श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः ॥ 008c
अयोगाः कारणा व्रात्याश्चाण्डालाश्च नराधिप । 009a
एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परात् ॥ 009c
जनक उवाच 010
ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् । 010a
बहूनीह हि लोके वै गोत्राणि मुनिसत्तम ॥ 010c
यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः । 011a
शूद्रयोनौ समुत्पन्ना वियोनौ च तथा परे ॥ 011c
पराशर उवाच 012
राजन्नैतद्भवेद्ब्राह्ममपकृष्टेन जन्मना । 012a
महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम् ॥ 012c
उत्पाद्य पुत्रान्मुनयो नृपते यत्र तत्र ह । 013a
स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः ॥ 013c
पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः । 014a
वेदस्ताण्ड्यः कृपश्चैव काक्षीवत्कमठादयः ॥ 014c
यवक्रीतश्च नृपते द्रोणश्च वदतांवरः । 015a
आयुर्मतङ्गो दत्तश्च द्रुमदो मात्स्य एव च ॥ 015c
एते स्वां प्रकृतिं प्राप्ता वैदेह तपसो बलात् । 016a
प्रतिष्ठिता वेदविदो दमेन तपसैव हि ॥ 016c
मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव । 017a
अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च ॥ 017c
कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव । 018a
नामधेयानि तपसा तानि च ग्रहणं सताम् ॥ 018c
जनक उवाच 019
विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम । 019a
ततः सामान्यधर्मांश्च सर्वत्र कुशलो ह्यसि ॥ 019c
पराशर उवाच 020
प्रतिग्रहो याजनं च तथैवाध्यापनं नृप । 020a
विशेषधर्मा विप्राणां रक्षा क्षत्रस्य शोभना ॥ 020c
कृषिश्च पाशुपाल्यं च वाणिज्यं च विशामपि । 021a
द्विजानां परिचर्या च शूद्रकर्म नराधिप ॥ 021c
विशेषधर्मा नृपते वर्णानां परिकीर्तिताः । 022a
धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे ॥ 022c
आनृशंस्यमहिंसा चाप्रमादः संविभागिता । 023a
श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च ॥ 023c
स्वेषु दारेषु सन्तोषः शौचं नित्याऽनसूयता । 024a
आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप ॥ 024c
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः । 025a
अत्र तेषामधीकारो धर्मेषु द्विपदां वर ॥ 025c
विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः । 026a
उन्नमन्ति यथा सन्त आश्रित्येह स्वकर्मसु ॥ 026c
न चापि शूद्रः पततीति निश्चयो न चापि संस्कारमिहार्हतीति वा । 027a
श्रुतिप्रयुक्तं न च धर्ममाप्नुते न चास्य धर्मे प्रतिषेधनं कृतम् ॥ 027c
वैदेहकं शूद्रमुदाहरन्ति द्विजा महाराज श्रुतोपपन्नाः । 028a
अहं हि पश्यामि नरेन्द्र देवं विश्वस्य विष्णुं जगतः प्रधानम् ॥ 028c
सतां वृत्तमधिष्ठाय निहीना उद्दिधीर्षवः । 029a
मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः ॥ 029c
यथायथा हि सद्वॄत्तमालम्बन्तीतरे जनाः । 030a
यथातथा सुखं प्राप्य प्रेत्य चेह च मोदते ॥ 030c
जनक उवाच 031
किं कर्म दूषयत्येनमथो जातिर्महामुने । 031a
सन्देहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि ॥ 031c
पराशर उवाच 032
असंशयं महाराज उभयं दोषकारकम् । 032a
कर्म चैव हि जातिश्च विशेषं तु निशामय ॥ 032c
जात्या च कर्मणा चैव दुष्टं कर्म न सेवते । 033a
जात्या दुष्टश्च यः पापं न करोति स पूरुषः ॥ 033c
जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् 034a
कर्म तद्दूषयत्येनं तस्मात्कर्म न शोभनम् ॥ 034c
जनक उवाच 035
कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम । 035a
न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा ॥ 035c
पराशर उवाच 036
शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि । 036a
यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा ॥ 036c
सन्न्यस्याग्नीनुदासीनाः पश्यन्ति विगतज्वराः । 037a
नैःश्रेयसं कर्मपथं समारुह्य यथाक्रमम् ॥ 037c
प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः । 038a
प्रयान्ति स्थानमजरं सर्वकर्मविवर्जिताः ॥ 038c
सर्वे वर्णा धर्मकार्याणि सम्यक्कृत्वा राजन्सत्यवाक्यानि चोक्त्वा । 039a
त्यक्त्वा धर्मं दारुणं जीवलोके यान्ति स्वर्गं नात्र कार्यो विचारः ॥ 039c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्व्यधिकत्रिशततमोऽध्यायः ॥ 302 ॥
12-302-6 ऊरुजा वणिजो राजन्निति ध. पाठः ॥ 12-302-10 नानात्वं ब्रह्मक्षत्रियादिभावेन भिन्नत्वम् । गोत्रतः अन्वयतः । गोत्राणि ब्रह्मक्षत्रियादीनि उग्राम्बष्ठादीनि च । तस्माज्जातितारतम्यमयुक्तमित्यर्थः ॥ 12-302-11 यथा काक्षीवता शूद्रायामुत्पादिताः पुत्रा ब्राह्मणत्वं नीता नतु ते निषादत्वं प्राप्ता इत्यर्थः । तस्मात्कारणद्वारा कार्यद्वारा वा जातिभेदो न युक्त इति भावः ॥ 12-302-14 वसुस्ताण्ड्य इति थ. पाठः । वटस्ताण्ड्य इति ध. पाठः ॥ 12-302-16 तपसो श्रयादिति थ. पाठः ॥ 12-302-26 निरये त्रय इति थ. पाठः ॥