अध्यायः 301

भीष्मेण युधिष्ठिरम् प्रति तपःप्रशंसादिपरपराशरगीतानुवादः ॥ 1 ॥ पराशर उवाच 001
एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः । 001a
तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु ॥ 001c
प्रायेण च गृहस्थस्य ममत्वं नाम जायते । 002a
सङ्गागतं नरश्रेष्ठ भावै राजसतामसैः ॥ 002c
गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च । 003a
दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै ॥ 003c
एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः । 004a
रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः ॥ 004c
रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् । 005a
मोहजातारतिर्नाम समुपैति नराधिप ॥ 005c
कृतार्थं भोगिनं मत्वा सर्वो रतिपरायणः । 006a
लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति ॥ 006c
ततो लोभाभिभूतात्मा सङ्गाद्वधर्यते जनम् । 007a
पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति ॥ 007c
स जानन्नपि चाकार्यमर्थार्थं सेवते नरः । 008a
बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते ॥ 008c
ततो मानेन सम्पन्नो रक्षन्नात्मपराजयम् । 009a
करोति येन भोगी स्यामिति तस्माद्विनश्यति ॥ 009c
तथाहि बुद्धियुक्तानां शाश्वतं ब्रह्मवादिनाम् । 010a
अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम् ॥ 010c
स्नेहायतननाशाच्च धननाशाच्च पार्थिव । 011a
आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति ॥ 011c
निर्वेदादात्मसम्बोधः सम्बोधादात्मदर्शनम् । 012a
शास्त्रार्थदर्शनाद्राजसंस्तप एवानुपश्यति ॥ 012c
दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् । 013a
यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति ॥ 013c
तपः सर्वगतं तात हीनस्यापि विधीयते । 014a
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रवर्तकम् ॥ 014c
प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः । 015a
क्वचित्क्वचिद्व्रतपरो व्रतान्यास्थाय पार्थिव ॥ 015c
आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः । 016a
विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः ॥ 016c
यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः । 017a
संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः ॥ 017c
ये चादौ ब्राह्मणाः सृष्टा ब्रह्मणा तपसा पुरा । 018a
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा ॥ 018c
मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः । 019a
महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् ॥ 019c
कौशेयानि च वस्त्राणि शुभान्याभरणानि च । 020a
वाहनासनपानानि तत्सर्वं तपसः फलम् ॥ 020c
मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः । 021a
वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् ॥ 021c
शयनानि च मुख्यानि भोज्यानि विविधानि च । 022a
अभिप्रेतानि सर्वाणि भवन्ति शुभकर्मिणाम् ॥ 022c
नाप्राप्यं तपसः किञ्चित्त्रैलोक्येऽपि परन्तप । 023a
उपभोगपरित्यागः फलान्यकृतकर्मणाम् ॥ 023c
सुखितो दुःखितो वाऽपि नरो लोभं परित्यजेत् । 024a
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम ॥ 024c
असन्तोषोऽसुखायेति लोभादिन्द्रियविभ्रमः । 025a
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता ॥ 025c
नष्टप्रज्ञो यदा तु स्यात्तदा न्यायं न पश्यति । 026a
तस्मात्सुखक्षये प्राप्ते पुमानुग्रतपश्चरेत् ॥ 026c
यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहेष्यते । 027a
कृताकृतस्य तपसः फलं पश्यस्व यादृशम् ॥ 027c
नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते । 028a
प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः ॥ 028c
अप्रियाण्यवमानाश्च दुःखं बहुविधात्मकम् । 029a
फलार्थी सत्पथं त्यक्त्वा प्राप्नोति विषयात्मकम् ॥ 029c
धर्मे तपसि दाने च विचिकित्साऽस्य जायते । 030a
स कृत्वा पापकान्येव निरयं प्रतिपद्यते ॥ 030c
सुखे तु वर्तमानो वै दुःखे वाऽपि नरोत्तम् । 031a
सुवृत्ताद्यो न चलते शास्त्रचक्षुः स मानवः ॥ 031c
इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता । 032a
रसने दर्शने घ्राणे श्रवणे च विशाम्पते ॥ 032c
ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः । 033a
बुधा ये न प्रशंसन्ति मोक्षं सुखमनुत्तमम् ॥ 033c
ततः फलार्थं सर्वस्य भवन्ति ज्यायसे गुणाः । 034a
धर्मवृद्ध्या च सततं कामार्थाभ्यां न हीयते ॥ 034c
अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा । 035a
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः ॥ 035c
मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् । 036a
क्रियाधर्मविमुक्तानामशक्त्या संवृतात्मनाम् ॥ 036c
क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् । 037a
तेषां नान्यदृते लोके तपसः कर्म विद्यते ॥ 037c
सर्वात्मनाऽनुकुर्वीत गृहस्थः कर्मनिश्चयम् । 038a
दाक्ष्येण हव्यकव्यार्थं स्वधर्मे विचरन्नृप ॥ 038c
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् । 039a
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ 039c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकाधिकत्रिशततमोऽध्यायः ॥ 301 ॥

12-301-2 समागतं नरश्रेष्ठेति ध. पाठः ॥ 12-301-6 भोगिनम् आत्मानमिति शेषः । रत्यर्थं च धनं त्यक्त्वा स वै रतिपरायण इति ध. पाठः ॥ 12-301-7 पुष्ठ्यर्थं चेह देहस्येति ध. पाठः ॥ 12-301-10 तपसा सिद्धियुक्तानां शाश्वतं ब्रह्मदर्शनम् इति थ. ध. पाठः ॥ 12-301-12 सम्बोधाच्छास्त्रदर्शनमिति ध. पाठः ॥ 12-301-14 तपः स्वर्गफलं तातेति थ. पाठः ॥ स्वर्गमार्गप्रदर्शकमिति ट. थ. पाठः ॥ 12-301-15 क्वचिद्ब्रह्मपर इति झ. पाठः ॥