अध्यायः 300

भीष्मेण युधिष्ठिरम् प्रति वर्णधर्मादिप्रतिपादकपराशरगीतानुवादः ॥ 1 ॥ पराशर उवाच 001
प्रतिग्रहार्जिता विप्रे क्षत्रिये युधि निर्जिताः । 001a
वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूषयार्जिताः ॥ 001c
स्वल्पाऽप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः । 002a
नित्यं त्रयाणां वर्णानां शुश्रूषुः शूद्र उच्यते ॥ 002c
क्षत्रधर्मा वैश्यधर्मा नावृत्तिः पतते द्विजः । 003a
शूद्रधर्मा यदा तु स्यात्तदा पतति वै द्विजः ॥ 003c
वाणिज्यं पाशुपाल्यं च तथा शिल्पोपजिवनम् । 004a
शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते ॥ 004c
रङ्गावतरणं चैव तथा रूपोपजीवनम् । 005a
मद्यमांसोपजीव्यं च विक्रयं लोहचर्मणोः ॥ 005c
अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् । 006a
कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः ॥ 006c
संसिद्धः पुरुषो लोके यदाचरति पापकम् । 007a
मदेनाभिप्लुतमनास्तच्च न ग्राह्यमुच्यते ॥ 007c
श्रूयन्ते हि पुराणेषु प्रजा धिग्दण्डशासनाः । 008a
दान्ता धर्मप्रधानाश्च न्यायधर्मानुवृत्तिकाः ॥ 008c
धर्म एव सदा नॄणामिह राजन्प्रशस्यते । 009a
धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि ॥ 009c
तं धर्ममसुरास्तात नामृष्यन्त नराधिप । 010a
विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः ॥ 010c
तासां दर्पः समभवत्प्रजानां धर्मनाशनः । 011a
दर्पात्मनां ततः पश्चात्क्रोधस्तासामजायत ॥ 011c
ततः क्रोधाभिभूतानां वृत्तं लज्जासमन्वितम् । 012a
ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत ॥ 012c
ततो मोहपरीतास्ता नापश्यन्त यथा पुरा । 013a
परस्परावमर्देन वर्धयन्त्यो यथासुखम् ॥ 013c
ताः प्राप्य तु स धिग्दण्डो न कारणमतो भवत् । 014a
ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह ॥ 014c
एतस्मिन्नेव काले तु देवा देववरं शिवम् । 015a
अगच्छञ्शरणं धीरं बहुरूपं गुणाधिकम् ॥ 015c
तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ । 016a
त्रिधाऽप्येकेन बाणेन देवाप्यायिततेजसा ॥ 016c
तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः । 017a
देवतानां भयकरः स हतः शूलपाणिना ॥ 017c
तस्मिन्हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः । 018a
प्रावर्तन्त च वै वेदाः शास्त्राणि च यथा पुरा ॥ 018c
ततोऽभिषिच्य राज्येन देवानां दिवि वासवम् । 019a
सप्तर्षयश्चान्वयुञ्जन्नराणां दण्डधारणे ॥ 019c
सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः । 020a
राजानः क्षत्रियाश्चैव मण्डलेषु पृथक्पृथक् ॥ 020c
महाकुलेषु ये जाता वृद्धाः पूर्वतराश्च ये । 021a
तेषामप्यासुरो भावो हृदयान्नापसर्पति ॥ 021c
तस्मात्तेनैव भावेन सानुषङ्गेण पार्थिवाः । 022a
आसुराण्येव कर्माणि न्यसेवन्भीमविक्रमाः ॥ 022c
प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्त्यपि । 023a
भजन्ते तानि चाद्यापि ये बालिशतरा नराः ॥ 023c
तस्मादहं ब्रवीमि त्वां राजन्सञ्चिन्त्य शास्त्रतः । 024a
संसिद्धावागमं कुर्यात्कर्म हिंसात्मकं त्यजेत् ॥ 024c
न सङ्करेण द्रविणं प्रचिन्वीयाद्विचक्षणः । 025a
धर्मार्थं न्यायमुत्सृज्य न तत्कल्याणमुच्यते ॥ 025c
स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः । 026a
प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय ॥ 026c
इष्टानिष्टसमायोगे वैरं सौहार्दमेव च । 027a
अथ जातिसहस्राणि बहूनि परिवर्तते ॥ 027c
तस्माद्गुणेषु रज्येथा मा दोषेषु कथञ्चन । 028a
निर्गुणोऽपि हि दुर्बुद्धिरात्मनः सोतिरिच्यते ॥ 028c
मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः । 029a
न तथाऽन्येषु भूतेषु मनुष्यरहितेष्विह ॥ 029c
धर्मशीलो नरो विद्वानीहकोऽनीहकोपि वा । 030a
आत्मभूतः सदा लोके चरेद्भूतान्यहिंसया ॥ 030c
यदा व्यपेतहृल्लेखं मनो भवति तस्य वै । 031a
नानृतं चैव भवति तदा कल्याणमृच्छति ॥ 031c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिशततमोऽध्यायः ॥ 300 ॥

12-300-1 प्रतिग्रहागता विप्रे इति झ. थ. पाठः ॥ 12-300-3 न पतत इति सम्बन्धः । क्षत्रधर्माद्वैश्यधर्मान्नापन्नः पतते द्विज इति ध. पाठः ॥ 12-300-4 शिल्पं चित्रलेखनादि । वृत्तिः सेवारूपा ॥ 12-300-5 रङ्गे स्त्र्यादिवेषेण अवतरणम् ॥ 12-300-6 अपूर्विणा येन पूर्वं मद्याद्युपजीवनं न कृतं सोऽपूर्वी तेन तन्न कर्तव्यम् ॥ 12-300-7 संसिद्धो लब्धान्नवस्त्रादिः ॥ 12-300-9 धर्मवृद्ध्या गुणानेवेति थ. पाठः ॥ 12-300-12 अनशत् अनश्यत ॥ 12-300-16 त्रिदैवत्येन बाणेनेति ध. पाठः । बाणेन देवस्यामिततेजस इति थ. पाठः ॥