अध्यायः 299

भीष्मेण युधिष्ठिरम् प्रति ब्राह्मणादिवर्णधर्मादिप्रतिपादकपराशरगीतानुवादः ॥ 1 ॥ पराशर उवाच 001
वृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना । 001a
प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा ॥ 001c
वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा । 002a
न वृत्तिं परतो मार्गेच्छुश्रूषां तु प्रयोजयेत् ॥ 002c
सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः । 003a
नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः ॥ 003c
यथोदयगिरौ द्रव्यं सन्निकर्षेण दीप्यते । 004a
तथा सत्सन्निकर्षेण हीनवर्णोऽपि दीप्यते ॥ 004c
यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम् । 005a
तादृशं कुरुते रूपमेतदेवमवेहि मे ॥ 005c
तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन । 006a
अनित्यमिह मर्त्यानां जीवितं हि चलाचलम् ॥ 006c
सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः । 007a
यश्चिनोति शुभान्येव स भद्राणीह पश्यति ॥ 007c
धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम् । 008a
न तत्सेवेत मेधावी न तद्धितमिहोच्यते ॥ 008c
'धर्मेण सहितं यत्तु भवेदल्पफलोदयम् । 009a
तत्कार्यमविशङ्केन कर्मात्यन्तं सुखावहम् ॥' 009c
यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता । 010a
स शब्दमात्रफलभाग्राजा भवति तस्करः ॥ 010c
स्वयम्भूरसृजच्चाग्रे धातारं लोकसत्कृतम् । 011a
धाताऽसृजत्पुत्रमेकं लोकानां धारणे रतम् ॥ 011c
तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत् । 012a
रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः ॥ 012c
अजिह्मैरशठक्रोधैर्हव्यकव्यप्रयोक्तृभिः । 013a
शूर्दैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति ॥ 013c
अप्रनष्टे ततो धर्मे भवन्ति सुखिताः प्रजाः । 014a
सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः ॥ 014c
तस्माद्यो रक्षति नृपः स धर्मेणेति पूज्यते । 015a
अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः ॥ 015c
यश्च शुश्रूषते शूद्रः सततं नियतेन्द्रियः । 016a
अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते ॥ 016c
प्राणसन्तापनिर्दिष्टाः काकिण्योऽपि महाफलाः । 017a
न्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः ॥ 017c
सत्कृत्य हि द्विजातिभ्यो यो ददाति नराधिपः । 018a
यादृशं तादृशं नित्यमश्नाति फलमूर्जितम् ॥ 018c
अभिगम्य तु यद्दत्तं धर्म्यमाहुरभिष्टुतम् । 019a
याचितेन तु यद्दत्तं तदाहुर्मध्यमं फलम् ॥ 019c
अवज्ञया दीयते यत्तथैवाश्रद्धयाऽपि वा । 020a
तदाहुरधमं दानं मुनयः सत्यवादिनः ॥ 020c
अतिक्रामेन्मज्जमानो विविधेन नरः सदा । 021a
तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात् ॥ 021c
दमेन शोभते विप्रः क्षत्रियो विजयेन तु । 022a
धनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोभते ॥ 022c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनत्रिशततमोऽध्यायः ॥ 299 ॥

12-299-1 नित्यं हीनस्य शोभनेति ध. पाठः ॥ 12-299-6 तस्माद्गुणेषु रमतामिति थ. पाठः ॥ 12-299-7 स तन्त्राणीहेति झ. पाठः ॥ 12-299-10 यो धृत्वा गोसहस्राणीति झ. पाठः ॥ 12-299-12 कुर्यादर्थं समृद्धिष्विति ध. पाठः ॥ 12-299-17 काकिण्यो विंशतिवराटिकाः ॥ 12-299-21 तथा मुच्येत किल्वबिषादिति थ. पाठः ॥ 12-299-22 दाक्ष्येण सेवार्थोत्साहेन ॥