अध्यायः 298
भीष्मेण युधिष्ठिरम् प्रति यथाविभवशक्तिधर्माचरणस्य श्रेयःसाधनताप्रतिपादकपराशरगीतानुवादः ॥ 1 ॥
पराशर उवाच 001
कः कस्य चोपकुरुते कश्च कस्मै प्रयच्छति । 001a
प्राणी करोत्ययं कर्म सर्वमात्मार्थमात्मना ॥ 001c
गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् । 002a
सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम् ॥ 002c
विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ । 003a
तयोः पुण्यतरं दानं तद्द्विजस्य प्रयच्छतः ॥ 003c
न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम् । 004a
संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः ॥ 004c
न धर्मार्थी नृशंसेन कर्मणा धनमार्जयेत् । 005a
शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरन् ॥ 005c
अपो हि प्रयताः शीतास्तापिता ज्वलनेन वा । 006a
शक्तितोऽतिथये दत्त्वा क्षुधार्तायाऽश्नुते फलम् ॥ 006c
रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना । 007a
फलपत्रैरथो मूलैर्मुनीनर्चितवांश्च सः ॥ 007c
तैरेव फलपत्रैश्च स माठरमतोषयत् । 008a
तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः ॥ 008c
देवतातिथिभृत्येभ्यः पितृभ्यश्चात्मनस्तथा । 009a
ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत् ॥ 009c
स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा । 010a
पितृभ्यः श्राद्धदानेन नृणामभ्यर्चनेन च ॥ 010c
पाकशेषावहार्येण पालनेनात्मनोऽपि च । 011a
यथावद्भृत्यवर्गस्य चिकीर्षेत्कर्म आदितः ॥ 011c
प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः । 012a
सम्यग्घुत्वा हुतवहं मुनयः सिद्धिमागताः ॥ 012c
विश्वामित्रस्य पुत्रत्वमृचीकतनयोऽगमत् । 013a
ऋग्भिः स्तुत्वा महाबाहो देवान्वै यज्ञभागिनः ॥ 013c
गतः शुक्रत्वमुशना देवदेवप्रसादनात् । 014a
देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः ॥ 014c
असितो देवलश्चैव तथा नारदपर्वतौ । 015a
कक्षीवाञ्जामदग्न्यश्च रामस्ताण्ड्यस्तथाऽऽत्मवान् ॥ 015c
वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च । 016a
भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः ॥ 016c
एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः । 017a
लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः ॥ 017c
अनर्हाश्चार्हतां प्राप्ताः सन्तः स्तुत्वा तमेव ह । 018a
न तु वृद्धिमिहान्विच्छेत्कर्म कृत्वा जुगुप्सितम् ॥ 018c
येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् । 019a
धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया ॥ 019c
आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः । 020a
वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो ॥ 020c
स चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते । 021a
श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम् ॥ 021c
अग्निरात्मा च माता च पिता जनयिता तथा । 022a
गुरुश्च नरशार्दूल परिचर्या यथातथम् ॥ 022c
मानं त्यक्त्वा यो नरो वृद्धसेवी विद्वान्क्लीबः पश्यति प्रीतियोगात् । 023a
दाक्ष्येण हीनो धर्मयुक्तो न दान्तो लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः ॥ 023c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टनवत्यधिकद्विशततमोऽध्यायः ॥ 298 ॥
12-298-2 सोदर्यं वा सुतमपीति थ. ध. पाठः ॥ 12-298-8 स मातुरमतोषयदिति थ. ध ॥ 12-298-9 देवर्ष्यतिथिभृत्येभ्य इति थ. ध. पाठः ॥ 12-298-11 वाचा शेषावहार्येणेति झ. पाठः । चिकीर्षेद्धर्ममाश्रित इति ध. पाठः ॥ 12-298-14 मोदते यशसा वृत इति झ. पाठः ॥