अध्यायः 296

भीष्मेण युधिष्ठिरम् प्रति श्रेयःसाधनप्रतिपादकपराशरगीतानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
अतः परं महाबाहो यच्छ्रेयस्तद्ब्रवीहि मे । 001a
न तृप्याम्यमृतस्येव वचसस्ते पितामह ॥ 001c
किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम । 002a
श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद ॥ 002c
भीष्म उवाच 003
अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः । 003a
पराशरं महात्मानं पप्रच्छ जनको नृपः ॥ 003c
किं श्रेयः सर्वभूतानामस्मिल्ँलोके परत्र च । 004a
यद्भवेत्प्रतिपत्तव्यं तद्भवान्प्रब्रवीतु मे ॥ 004c
ततः स तपसा युक्तः सर्वधर्मविधानवित् । 005a
नृपायानुग्रहमना मुनिर्वाक्यमथाब्रवीत् ॥ 005c
पराशर उवाच 006
धर्म एव कृतः श्रेयानिह लोके परत्र च । 006a
तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः ॥ 006c
प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते । 007a
धर्मात्मकः कर्मविधिर्देहिनां नृपसत्तम ॥ 007c
तस्मिन्नाश्रमिणः सन्तः स्वकर्माणीह कुर्वते ॥ 008ac
चतुर्विधा हि लोकेऽस्मिन्यात्रा तात विधीयते । 009a
मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते ॥ 009c
सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः । 010a
दशार्धप्रविभक्तानां भूतानां विविधा गतिः ॥ 010c
सौवर्णं राजतं चापि यथा भाण्डं निषिच्यते । 011a
तथा निषिच्यते जन्तुः पूर्वकर्मवशानुगः ॥ 011c
नाबीजाज्जायते किञ्चिन्नाकृत्वा सुखमेधते । 012a
सुकृतैर्विन्दते सौख्यं प्राप्य देहक्षयं नरः ॥ 012c
दैवं तात न पश्यामि नास्ति दैवस्य साधनम् । 013a
स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः ॥ 013c
प्रेत्य यान्त्यकृतं कर्म न स्मरन्ति सदा जनाः । 014a
ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम् ॥ 014c
लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः । 015a
शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम् ॥ 015c
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् । 016a
कुरुते यादृशं कर्म तादृशं प्रतिपद्यते ॥ 016c
निरन्तरं च मिश्रं च लभते कर्म पार्थिव । 017a
कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते ॥ 017c
कदाचित्सुकृतं तात कूटस्थमिव तिष्ठति । 018a
मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते ॥ 018c
ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते । 019a
सुकृतक्षयाच्च दुष्कृतं तद्विद्धि मनुजाधिप ॥ 019c
दमः क्षमा धृतिस्तेजः सन्तोषः सत्यवादिता । 020a
ह्रीरहिंसाऽव्यसनिता दाक्ष्यं चेति सुखावहाः ॥ 020c
दुष्कृते सुकृते चापि न जन्तुर्नियतो भवेत् । 021a
नित्यं मनःसमाधाने प्रयतेत विचक्षणः ॥ 021c
नायं परस्य सुकृतं दुष्कृतं चापि सेवते । 022a
करोति यादृशं कर्म तादृशं प्रतिपद्यते ॥ 022c
सुखदुःखे समाधाय पुमानन्येन गच्छति । 023a
अन्येनैव जनः सर्वः सङ्गतो यश्च पार्थिवः ॥ 023c
परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः । 024a
यो ह्यसूयुस्तथा युक्तः सोऽवहासं नियच्छति ॥ 024c
भीरू राजन्यो ब्राह्मणः सर्वभक्ष्यो वैश्योऽनीहावान्हीनवर्णोऽलसश्च । 025a
विद्वांश्चाशीलो वृत्तहीनः कुलीनः सत्याद्विभ्रष्टो ब्राह्मणस्त्री च तुष्टा ॥ 025c
रागी युक्तः पचमानोऽऽत्महेतोर्मूर्खो वक्ता नृपहीनं च राष्ट्रम् । 026a
एते सर्वे शोच्यतां यान्ति राजन्यश्चायुक्तः स्नेहहीनः प्रजासु ॥ 026c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षण्णवत्यधिकद्विशततमोऽध्यायः ॥ 296 ॥

12-296-18 करस्थमिव तिष्ठतीति थ. पाठः ॥ 12-296-26 रागी मुक्त इति थ. पाठः ॥