अध्यायः 295
भीष्मेण युधिष्ठिरम् प्रति भार्गवचरित्रकथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
तिष्ठते मे सदा तात कौतूहलमिदं हृदि । 001a
तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह ॥ 001c
कथं देवर्षिरुशना सदा काव्यो महामतिः । 002a
असुराणां प्रियकरः सुराणामप्रिये रतः ॥ 002c
वर्धयामास तेजश्च किमर्थममितौजसाम् । 003a
नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः ॥ 003c
कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः । 004a
ऋद्धिं च स कथं प्राप्तः सर्वमेतद्ब्रवीहि मे ॥ 004c
न याति च स तेजस्वी मध्येन नभसः कथम् । 005a
एतदिच्छामि विज्ञातुं निखिलेन पितामह ॥ 005c
भीष्म उवाच 006
शृणु राजन्नवहितः सर्वमेतद्यथातथम् । 006a
यथामति यथा चैतच्छ्रुतपूर्वं मयाऽनघ ॥ 006c
एष भार्गवदायादो मुनिर्मान्यो दृढव्रतः । 007a
सुराणां विप्रियकरो निमित्ते कारणात्मके ॥ 007c
इन्द्रोऽथ धनदो राजा यक्षरक्षोधिपः सदा । 008a
प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः ॥ 008c
तस्यात्मानमथाविश्य योगसिद्धो महामुनिः । 009a
रुद्ध्वा धनपतिं देवं योगेन हृतवान्वसु ॥ 009c
हृते धने ततः शर्म न लेभे धनदस्तथा । 010a
आपन्नमन्युः संविग्नः सोभ्यगात्सुरसत्तमम् ॥ 010c
निवेदयामास तदा शिवायामिततेजसे । 011a
देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे ॥ 011c
योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु । 012a
योगेनात्मगतं कृत्वा निःसृतश्च महातपाः ॥ 012c
एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः । 013a
संरक्तनयनो राजञ्शूलमादाय तस्थिवान् ॥ 013c
क्वासौ क्वासाविति प्राह गृहीत्वा परमायुधम् । 014a
उशना दूरतस्तस्य ह्यभूज्ज्ञात्वा चिकीर्षितम् ॥ 014c
स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः । 015a
गतिमागमनं वेत्ति स्थानं चैव ततः प्रभुः ॥ 015c
सञ्चिन्त्योग्रेण तपसा महात्मानं महेश्वरम् । 016a
उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत ॥ 016c
विज्ञातरूपः स तदा तपःसिद्धोऽथ धन्विना । 017a
ज्ञात्वा शूलं च देवेशः पाणिना समनामयत् ॥ 017c
आनतेनाथ शूलेन पाणिनामिततेजसा । 018a
पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः ॥ 018c
पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः । 019a
आस्यं विवृत्य भ्रुकुटिं पाणिं सम्प्राक्षिपच्छनैः ॥ 019c
स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः । 020a
व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः ॥ 020c
युधिष्ठिर उवाच 021
किमर्थं व्यचरद्राजन्नुशना तस्य धीमतः । 021a
जठरे देवदेवस्य किञ्चाकार्षीन्महाद्युतिः ॥ 021c
भीष्म उवाच 022
पुरा सोऽन्तर्जलगतः स्थाणुभूतो महाव्रतः । 022a
वर्षाणामभवद्राजन्प्रयुतान्यर्बुदानि च ॥ 022c
उदतिष्ठत्तपस्तप्त्वा दुश्चरं च महाह्रदात् । 023a
ततो देवातिदेवस्तं ब्रह्मा वै समसर्पत ॥ 023c
तपोवृद्धिमपृच्छच्च कुशलं चैवमव्ययः । 024a
तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः ॥ 024c
तत्संयोगेन वृद्धिं चाप्यपश्यत्स तु शङ्करः । 025a
महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा ॥ 025c
स तेनाढ्यो महायोगी तपसा च धनेन च । 026a
व्यराजत महाराज त्रिषु लोकेषु वीर्यवान् ॥ 026c
ततः पिनाकी योगात्मा ध्यानयोगं समाविशत् । 027a
उशना तु समुद्विग्नो निलिल्ये जठरे ततः ॥ 027c
तुष्टाव च महायोगी देवं तत्रस्थ एव च । 028a
निःसारं काङ्क्षमाणः स तेन स्म प्रतिहन्यते ॥ 028c
उशना तु तथोवाच जठरस्थो महामुनिः । 029a
प्रसादं मे कुरुष्वेति पुनः पुनररिन्दम ॥ 029c
तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम् । 030a
इति सर्वाणि स्रोतांसि रुद्ध्वा त्रिदशपुङ्गवः ॥ 030c
अपश्यमानस्तद्द्वारं सर्वतः पिहितो मुनिः । 031a
पर्यक्रामद्दह्यमान इतश्चेतश्च तेजसा ॥ 031c
स वै निष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान् । 032a
कार्येण तेन नभसो नाध्यगच्छत मध्यतः ॥ 032c
'तत एव च देवेषु अप्रविष्टो महामुनिः । 033a
पौरोहित्यं च दैत्यानां शक्रतेजोविवृद्धये ॥' 033c
विनिष्क्रान्तं तु तं दृष्ट्वा ज्वलन्तमिव तेजसा । 034a
भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः ॥ 034c
अवारयत तं देवी क्रुद्धं पशुपतिं पतिम् । 035a
पुत्रत्वमगमद्देव्या वारिते शङ्करे च सः ॥ 035c
देव्युवाच 036
हिंसनीयस्त्वया नैव मम पुत्रत्वमागतः । 036a
न हि देवोदरात्कश्चिन्निःसृतो नाशमर्हति ॥ 036c
ततः प्रीतो भवो देव्याः प्रहसंश्चेदमब्रवीत् । 037a
गच्छत्वेष यथाकाममिति राजन्पुनः पुनः ॥ 037c
ततः प्रणम्य वरदं देवं देवीमुमां तथा । 038a
उशना प्राप तद्धीमान्गतिमिष्टां महामुनिः ॥ 038c
एतत्ते कथितं तात भार्गवस्य महात्मनः । 039a
चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि ॥ 039c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चनवत्यधिकद्विशततमोऽध्यायः ॥ 295 ॥
12-295-3 वर्धयामास चिच्छेद । अमितौजसां देवानाम् ॥ 12-295-4 शुक्रत्वं शुक्रोत्पन्नत्वम् ॥ 12-295-5 तस्याकाशगतिः कुतः कुण्ठितेत्यर्थः ॥ 12-295-7 कारणा क्रिया तदात्मके निमित्ते सति ॥ 12-295-8 इन्द्रो जगतः ॥ 12-295-9 तस्य धनदस्य । आत्मानं शरीरम् ॥ 12-295-10 आपन्नमन्युः प्राप्तदैन्यः ॥ 12-295-17 सः शुक्र । धन्विना रुद्रेण । शूलं शुक्रयुतम् । तपस्सिद्धेन चक्षुषेति थ. पाठः । तपस्सिद्धेन चेतसेति ध. पाठः ॥ 12-295-20 कोष्ठमुदरम् ॥ 12-295-21 व्यचरदेव नत्वन्नवज्जीर्णतां गतः । किञ्च तादृशमकार्षीत्तप इति शेषः ॥ 12-295-26 स शुक्रः ॥ 12-295-27 निलिल्ये नितरां गतिं जगाम बभ्रामेत्यर्थः ॥ 12-295-28 निःसारं निर्गमम् । तेन रुद्रेण ॥ 12-295-32 तेन शिश्रान्निर्गमनेन कार्येण निमित्तेन ॥