अध्यायः 294
भीष्मेण युधिष्ठिरम् प्रति मुक्तिसाधनप्रतिपादकसगरारिष्टनेमिसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
कथं नु युक्तः पृथिवीं चरेदस्मद्विधो नृपः । 001a
नित्यं कैश्च गुणैर्युक्तः सङ्गपाशाद्विमुच्यते ॥ 001c
भीष्म उवाच 002
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् । 002a
अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते ॥ 002c
सगर उवाच 003
किं श्रेयः परमं ब्रह्मन्कृत्वेह सुखमश्नुते । 003a
कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम् ॥ 003c
भीष्म उवाच 004
एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविदां वरः । 004a
विबुध्य सम्पदं चाग्र्यां सद्वाक्यमिदमब्रवीत् ॥ 004c
सुखं मोक्षसुखं लोके न च मूढोऽवगच्छति । 005a
प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः ॥ 005c
सक्तबुद्धिरशान्तात्मा स न शक्यश्चिकित्सितुम् । 006a
स्नेहपाशसितो मूढो न स मोक्षाय कल्पते ॥ 006c
स्नेहजानिह ते पाशान्वक्ष्यामि शृणु तान्मम । 007a
सकर्णकेन शिरसा शक्याश्छेत्तुं विजानता ॥ 007c
सम्भाव्य पुत्रान्कालेन यौवनस्थान्निवेश्य च । 008a
समर्थाञ्जीवने ज्ञात्वा मुक्तश्चर यथासुखम् ॥ 008c
भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम् । 009a
ज्ञात्वा प्रजहि कालेन परार्थमनुदृश्य च ॥ 009c
सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम् । 010a
इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि ॥ 010c
कृतकौतूहलस्तेषु मुक्तश्चर यथासुखम् । 011a
उपपत्त्योपलब्धेषु लोकेषु च समो भव ॥ 011c
एष तावत्समासेन तव सङ्कीर्तितो मया । 012a
मोक्षार्थो विस्तरेणाथ भूयो वक्ष्यामि तच्छृणु ॥ 012c
मुक्ता वीतभया लोके चरन्ति सुखिनो नराः । 013a
सक्तभावा विनश्यन्ति नरास्तत्र न संशयः ॥ 013c
आहारसञ्चये सक्ता यथा कीटपिपीलिकाः । 014a
असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः ॥ 014c
स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना । 015a
इमे मया विनाभूता भविष्यन्ति कथं त्विति ॥ 015c
स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते । 016a
सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति ॥ 016c
भोजनाच्छादने चैव मात्रा पित्रा च सङ्ग्रहम् । 017a
स्वकृते नाधिगच्छन्ति लोके नास्त्यकृतं पुरा ॥ 017c
धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम् । 018a
लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः ॥ 018c
स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा । 019a
को हेतुः स्वजनं द्वेष्टुं रक्षितं वाऽदृढात्मनः ॥ 019c
स्वजनं हि यदा मृत्युर्हन्त्येव भुवि पश्यतः । 020a
कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना ॥ 020c
जीवन्तमपि चैवैनं भरणे रक्षणे तथा । 021a
असमाप्ते परित्यज्य पश्चादपि मरिष्यसि ॥ 021c
यदा मृतं च स्वजनं न ज्ञास्यसि कथञ्चन । 022a
सुखितं दुःखितं वाऽपि ननु बोद्धव्यमात्मना ॥ 022c
मृते वा त्वयि जीवे वा यदा भोक्ष्यति वै जनः । 023a
स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः ॥ 023c
एवं विजानल्ँलोकेऽस्मिन्कः कस्येत्यभिनिश्चितः । 024a
मोक्षे निवेशय मनो भूयश्चाप्युपधारय ॥ 024c
क्षुत्पिपासादयो भावा जिता यस्येह देहिनः । 025a
क्रोधो लोभस्तथा मोहः सत्ववान्मुक्त एव सः ॥ 025c
द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः । 026a
न प्रमाद्यति सम्मोहात्सततं मुक्त एव सः ॥ 026c
दिवसेदिवसे नाम रात्रौरात्रौ पुमान्सदा । 027a
भोक्तव्यमिति यः खिन्नो दोषबुद्धिः स उच्यते ॥ 027c
आत्मभावं तथा स्त्रीषु सक्तमेव पुनः पुनः । 028a
यः पश्यति सदा युक्तो यथावन्मुक्त एव सः ॥ 028c
सम्भवं च विनाशं च भूतानां चेष्टितं तथा । 029a
यस्तत्त्वतो विजानाति लोकेऽस्मिन्मुक्त एव सः ॥ 029c
प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु । 030a
प्रासादे मञ्चकं स्थानं यः पश्यति स मुच्यते ॥ 030c
मृत्युनाऽभ्याहतं लोकं व्याधिभिश्चोपपीडितम् । 031a
अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते ॥ 031c
यः पश्यति स सन्तुष्टो नपश्यंश्च विहन्यते । 032a
यश्चाप्यल्पेन सन्तुष्टो लोकेऽस्मिन्मुक्त एव सः ॥ 032c
अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति । 033a
न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः ॥ 033c
पर्यङ्कशय्या भूमिश्च समाने यस्य देहिनः । 034a
शाल्यन्नं च कदन्नं च यस्य स्यान्मुक्त एव सः ॥ 034c
क्षौमं च कुशचीरं च कौशेयं वल्कलानि च । 035a
आविकं चर्म च समं यस्य स्यान्मुक्त एव सः ॥ 035c
पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति । 036a
तथाच वर्तते दृष्ट्वा लोकेऽस्मिन्मुक्त एव सः ॥ 036c
सुखदुःखे समे यस्य लाभालाभौ जयाजयौ । 037a
इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः ॥ 037c
रक्तमूत्रपुरीषाणां दोषाणां सञ्चयांस्तथा । 038a
शरीरं दोषबहुलं दृष्ट्वा चैव विमुच्यते ॥ 038c
वलीपलितसंयोगं कार्श्यं वैवर्ण्यमेव च । 039a
कुब्जभावं च जरया यः पश्यति स मुच्यते ॥ 039c
पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा । 040a
बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते ॥ 040c
गतानृषींस्तथा देवानसुरांश्च तथा गतान् । 041a
लोकादस्मात्परं लोकं यः पश्यति स मुच्यते ॥ 041c
प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः । 042a
ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते ॥ 042c
अर्थांश्च दुर्लभाल्ँलोके क्लेशांश्च सुलभांस्तथा । 043a
दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते ॥ 043c
अपत्यानां च वैगुण्यं जनं विगुणमेव च । 044a
पश्यन्भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत् ॥ 044c
शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः । 045a
असारमिव मानुष्यं सर्वथा मुक्त एव सः ॥ 045c
एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत् । 046a
गार्हस्थ्याद्यदि ते मोक्षे कृता बुद्धिरविक्लवा ॥ 046c
तत्तस्य वचनं श्रुत्वा सम्यक्स पृथिवीपतिः । 047a
मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः ॥ 047c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुर्नवत्यधिकद्विशततमोऽध्यायः ॥ 294 ॥
12-294-1 कथं विमुक्तः पृथिवीमिति थ. पाठः ॥ 12-294-5 नच लोकोऽवगच्छतीति थ. ध. पाठः ॥ 12-294-8 निवेश्य दारैः संयोज्य ॥ 12-294-9 परार्थमन्तिमं पुरुषार्थं मोक्षम् । प्रजहि त्यज ॥ 12-294-11 कृतकौतूहलः छिन्नौत्सुक्यः । लाभेषु च समो भवेति थ. ध. पाठः ॥ 12-294-12 मोक्षार्थो मोक्षप्रयोजनः ॥ 12-294-13 मुक्ताश्छिन्नस्नेहपाशाः । सक्तभावाः विषयासक्तचित्ताः ॥ 12-294-30 वाहः धान्यपूर्णं शकटम् । सहस्रेषु कोटिष्विति समानाधिकरणम् । प्रस्थं पुरुषाहारपरिमितं धान्यम् । यात्रार्थं देहव्यवहारार्थम् । अधिकसङ्ग्रहो व्यर्थम् इति यः पश्यति ॥ 12-294-31 अवृत्तिर्जीविकाया अभावः ॥ 12-294-32 नपश्यन्नित्येकं पदम् । मृत्युनाभ्याहतं लोकमित्यनुकृष्यते ॥ 12-294-33 अग्निर्जाठरो भोक्ता । सोमोऽन्नं भोज्यम् ॥ 12-294-34 शालयश्च कदन्नं चेति झ. ध. पाठः ॥ 12-294-38 श्लेष्ममूत्रपुरीषाणामिति ध. पाठः । छर्दिमूत्रेति थ. पाठः ॥ 12-294-40 बाधिर्यं घ्राणमन्दत्वमिति ध. पाठः ॥ 12-294-42 प्रतापैरन्विता इति थ. पाठः ॥