अध्यायः 293
भीष्मेण युधिष्ठिरम् प्रति श्रेयःसाधनानां कथनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
अतत्त्वज्ञस्य शास्त्राणां सन्ततं संशयात्मनः । 001a
अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
गुरुपूजा च सततं वृद्धानां पर्युपासनम् । 002a
श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते ॥ 002c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
गालवस्य च संवादं देवर्षेर्नारदस्य च ॥ 003c
वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियः । 004a
श्रेयस्कामो यतात्मानं नारदं गालवोऽब्रवीत् ॥ 004c
यैः कैश्चित्सम्मतो लोके गुणैश्च पुरुषो नृषु । 005a
भवत्यनपगान्सर्वांस्तान्गुणाल्ँलक्षयामहे ॥ 005c
भवानेवंविधोऽस्माकं संशयं छेत्तुमर्हति । 006a
अमूढश्चिरमूढानां लोकतत्त्वमजानताम् ॥ 006c
ज्ञाने ह्येवं प्रवृत्तिः स्यात्कार्याणामविशेषतः । 007a
यत्कार्यं न व्यवस्यामस्तद्भवान्वक्तुमर्हति ॥ 007c
भगवन्नाश्रमाः सर्वे पृथगाचारदर्शिनः । 008a
इदं श्रेय इदं श्रेय इति सर्वे प्रबोधिताः ॥ 008c
तांस्तु विप्रस्थितान्दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः । 009a
स्वशास्त्रैः परितुष्टाश्च श्रेयो नोपलभामहे ॥ 009c
शास्त्रं यदि भवेदेकं श्रेयो व्यक्तं भवेत्तदा । 010a
शास्त्रैश्च बहुभिर्भूयः श्रेयो गुह्यं प्रवेशितम् ॥ 010c
एतस्मात्कारणाच्छ्रेयो गहनं प्रतिभाति मे । 011a
ब्रवीतु भगवांस्तन्मे उपसन्नोस्म्यधीहि भो ॥ 011c
नारद उवाच 012
आश्रमास्तात चत्वारो यथा सङ्कल्पिताः पृथक् । 012a
तान्सर्वाननुपश्य त्वं समाश्रित्यैव गालव ॥ 012c
तेषान्तेषां तथाहि त्वमाश्रमाणां ततस्ततः । 013a
नानारूपं गुणोद्देशं पश्य विप्रस्थितं पृथक् ॥ 013c
न यान्ति चैव ते सम्यगभिप्रेतमसंशयम् । 014a
अन्येऽपश्यंस्तथा सम्यगाश्रमाणां परां गतिम् ॥ 014c
यत्तु निःश्रेयसं सम्यक्तच्चैवासंशयात्मकम् । 015a
अनुग्रहं च मित्राणाममित्राणां च निग्रहम् ॥ 015c
सङ्ग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः । 016a
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता ॥ 016c
सद्भिश्च समुदाचारः श्रेय एतदसंशयम् । 017a
मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम् ॥ 017c
वाक्चैव मधुरा प्रोक्ता श्रेय एतदसंशयम् । 018a
देवताभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि ॥ 018c
असन्त्यागश्च भृत्यानां श्रेय एतदसंशयम् । 019a
सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् ॥ 019c
यद्भूतहितमत्यन्तमेतत्सत्यं ब्रवीम्यहम् । 020a
अहङ्कारस्य च त्यागः प्रमादस्य च निग्रहः ॥ 020c
सन्तोषश्चैकचर्या च कूटस्थं श्रेय उच्यते । 021a
धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च ॥ 021c
ज्ञानार्थानां च जिज्ञासा श्रेय एतदसंशयम् । 022a
शब्दरूपरसस्पर्शान्सह गन्धेन केवलान् ॥ 022c
नात्यर्थमुपसेवेत श्रेयसोर्थी कथञ्चन ॥ 023ac
नक्तञ्चर्यां दिवास्वप्नमालस्यं पैशुनं मदम् । 024a
अतियोगमयोगं च श्रेयसोर्थी परित्यजेत् ॥ 024c
आत्मोत्कर्षं न मार्गेत परेषां परिनिन्दया । 025a
स्वगुणैरेव मार्गेति विप्रकर्षं पृथग्जनात् ॥ 025c
निर्गुणास्त्वेव भूयिष्ठमात्मसम्भाविता नराः । 026a
दोषैरन्यान्गुणवतः क्षिपन्त्यात्मगुणक्षयात् ॥ 026c
अनूच्यमानास्तु पुनस्ते मन्यन्ते महाजनात् । 027a
गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः ॥ 027c
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् । 028a
विपश्चिद्गुणसम्पन्नः प्राप्नोत्येव महद्यशः ॥ 028c
अब्रुवन्वाऽतिसुरभिर्गन्धः सुमनसां शुचिः । 029a
तथैवाव्याहरन्भाति विमलो भानुरम्बरे ॥ 029c
एवमादीनि चान्यानि परित्यक्तानि मेधया । 030a
ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च ॥ 030c
न लोके दीप्यते मूर्खः केवलात्मप्रशंसया । 031a
अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते ॥ 031c
असदुच्चैरपि प्रोक्तः शब्दः समुपशाम्यति । 032a
दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम् ॥ 032c
मूढानामवलिप्तानामसारं भाषितं बहु । 033a
दर्शयत्यन्तरात्मानमग्निरूपमिवांशुमान् ॥ 033c
एतस्मात्कारणात्प्रज्ञां मृगयन्ते पृथग्विधाम् । 034a
प्रज्ञालाभो हि भूतानामुत्तमः प्रतिभाति मे ॥ 034c
नापृष्टः कस्यचिद्ब्रूयान्नाप्यन्यायेन पृच्छतः । 035a
जानन्नपि च मेधावी जडवत्समुपाविशेत् ॥ 035c
ततो वासं परीक्षेत धर्मनित्येषु साधुषु । 036a
मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च ॥ 036c
चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत् । 037a
न तत्र वासं कुर्वीत श्रेयोर्थी वै कथञ्चन ॥ 037c
निरारम्भोऽप्ययमिह यथालब्धोपजीवनः । 038a
पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात् ॥ 038c
अपामग्नेस्तथेन्दोश्च स्पर्शं वेदयते यथा । 039a
तथा पश्यामहे स्पर्शमुभयोः पुण्यपापयोः ॥ 039c
अपश्यन्तोऽन्यविषयं भुञ्जते विघसाशिनः । 040a
भुञ्जानाश्चान्यविषयान्विषयान्विद्धि कर्मणाम् ॥ 040c
यत्रागमयमानानामसत्कारेण पृच्छताम् । 041a
प्रब्रूयाद्ब्रह्मणो धर्मं त्यजेत्तं देशमात्मवान् ॥ 041c
शिष्योपाध्यायिका वृत्तिर्यत्र स्यात्सुसमाहिता । 042a
यथावच्छास्त्रसम्पन्ना कस्तं देशं परित्यजेत् ॥ 042c
आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर्विपश्चिताम् । 043a
आत्मपूजाभिकामो वै को वसेत्तत्र पण्डितः ॥ 043c
यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः । 044a
प्रदीप्तमिव चेलान्तं कस्तं देशं न सन्त्यजेत् ॥ 044c
यत्र धर्ममनाशङ्काश्चरेयुर्वीतमत्सराः । 045a
भवेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु ॥ 045c
धर्ममर्थनिमित्तं च चरेयुर्यत्र मानवाः । 046a
न ताननुवसेज्जातु ते हि पापकृतो जनाः ॥ 046c
कर्मणां यत्र पापेन वर्तन्ते जीवितेप्सवः । 047a
व्यवधावेत्ततस्तूर्णं ससर्पाच्छरणादिव ॥ 047c
येन खट्वां समारूढः कर्मणाऽनुशयी भवेत् । 048a
आदितस्तन्न कर्तव्यमिच्छता भवमात्मनः ॥ 048c
यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः । 049a
कुटुम्बिनामग्रभुजस्त्यजेत्तद्राष्ट्रमात्मवान् ॥ 049c
श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः । 050a
याजनाध्यापने युक्ता यत्र तद्राष्ट्रमावसेत् ॥ 050c
स्वाहास्वधावषट्कारा यत्र सम्यगनुष्ठिताः । 051a
अजस्रं चैव वर्तन्ते वसेत्तत्राविचारयन् ॥ 051c
अशुचीन्यत्र पश्येत ब्राह्मणान्वृत्तिकर्शितान् । 052a
त्यजेत्तद्राष्ट्रमासन्नमुपसृष्टमिवामिषम् ॥ 052c
प्रीयमाणा नरा यत्र प्रयच्छेयुरयाचिताः । 053a
स्वस्थचित्तो वसेत्तत्र कृतकृत्य इवात्मवान् ॥ 053c
दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु । 054a
चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु ॥ 054c
उपसृष्टेषु दान्तेषु दुराचारेषु साधुषु । 055a
अविनीतेषु लुब्धेषु सुमहद्दण्डधारणम् ॥ 055c
यत्र राजा धर्मनित्यो राज्यं धर्मेण पालयेत् । 056a
अपास्य कामान्कामेशो वसेत्तत्राविचारयन् ॥ 056c
यथाशीला हि राजानः सर्वान्विषयवासिनः । 057a
श्रेयसा योजयत्याशु श्रेयसि प्रत्युपस्थिते ॥ 057c
पृच्छतस्ते मया तात श्रेय एतदुदाहृतम् । 058a
न हि शक्यं प्रधानेन श्रेयः सङ्ख्यातुमात्मनः ॥ 058c
एवं प्रवर्तमानस्य वृत्तिं प्राणिहितात्मनः । 059a
तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति ॥ 059c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिनवत्यधिकद्विशततमोऽध्यायः ॥ 293 ॥
12-293-2 श्रवणं चैव शास्त्राणामिति झ. पाठः ॥ 12-293-4 श्रेयस्कामं जितात्मानमिति थ. पाठः ॥ 12-293-7 प्रवृत्तिः स्यात्कार्याकार्ये विजानत इति ध. पाठः ॥ 12-293-9 नानाविधा गिरस्तास्तु दृष्ट्वा शास्त्राभिनन्दिन इति ध. पाठः ॥ 12-293-11 श्रेयः कलिलं प्रति भाति मे इति झ. पाठः । उपपन्नोस्म्यधीहि भो इति ध. पाठः ॥ 12-293-14 ऋजु पश्यन्ति ये सम्यगिति ध. पाठः ॥ 12-293-19 असन्त्यागश्च भूतानामिति ध. पाठः ॥ 12-293-20 प्रणयस्य च निग्रह इति ध. पाठः ॥ 12-293-22 वेद्यार्थानां च जिज्ञासेति ध. पाठः ॥ 12-293-37 कर्मव्यतिकरो भवेदिति ध. पाठः ॥ 12-293-43 आकारं गूहमानाय दोषान्ब्रूयुर्विपश्चिताम् इति ध. पाठः ॥ 12-293-45 धर्मशीलेषु साधुष्विति ध. पाठः ॥ 12-293-48 इच्छता हितमात्मन इति ध. पाठः ॥ 12-293-55 ये दान्तेषु उपसृष्टाः सक्रोधास्तेषु येच साधुषु दुराचारास्तेषु । उपसृष्टेष्वदान्तेषु दुराचारेष्वसाधुष्विति ध. पाठः ॥ 12-293-59 वृत्तिं प्रणिहितात्मन इति ध. पाठः ॥