अध्यायः 292

भीष्मेण युधिष्ठिरम् प्रति ज्ञानस्य दुःखादिनिवर्तकत्वप्रतिपादकनारदसमङ्गसंवादानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
शोकाद्दुःखाच्च मृत्योश्च त्रसन्ते प्राणिनः सदा । 001a
उभयं नो यथा न स्यात्तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
नारदस्य च संवादं समङ्गस्य च भारत ॥ 002c
नारद उवाच 003
उरसेव प्रणमसे बाहुभ्यां तरसीव च । 003a
सम्प्रहृष्टमना नित्यं विशोक इव लक्ष्यसे ॥ 003c
उद्वेगं न हि ते किञ्चित्सुसूक्ष्ममपि लक्षये । 004a
नित्यतृप्त इव स्वस्थो बालवच्च विचेष्टसे ॥ 004c
समङ्ग उवाच 005
भूतं भव्यं भविष्यच्च सर्वभूतेषु नारद । 005a
तेषां तत्त्वानि जानामि ततो न विमना ह्यहम् ॥ 005c
उपक्रमानहं वेद पुनरेव फलोदयान् । 006a
लोके फलानि चित्राणि ततो न विमना ह्यहम् ॥ 006c
अनाथाश्चाप्रतिष्ठाश्च गतिमन्तश्च नारद । 007a
अन्धा जडाश्च जीवन्ति पश्यास्मानपि जीवतः ॥ 007c
विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः । 008a
बलवन्तोऽबलाश्चैव तद्वदस्मान्सभाजय ॥ 008c
सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा । 009a
शाकेन चान्ये जीवन्ति पश्यास्मानपि जीवतः ॥ 009c
यदा न शोचेमहि किं नु नः स्याद्धर्मेण वा नारद कर्मणा वा । 010a
कृतान्तवश्यानि यदा सुखानि दुःखानि वा यन्न विधर्षयन्ति ॥ 010c
यस्मै प्राज्ञाः कथयन्ते मनुष्याः प्रज्ञामूलं हीन्द्रियाणां प्रसादः । 011a
मुह्यन्ति शोचन्ति तथेन्द्रियाणि प्रज्ञालाभो नास्ति मूढेन्द्रियस्य ॥ 011c
मूढस्य दर्पः स पुनर्मोह एव मूढस्य नायं न परोऽस्ति लोकः । 012a
न ह्येव दुःखानि सदा भवन्ति सुखस्य वा नित्यशो लाभ एव ॥ 012c
भावात्मकं सम्परिवर्तमानं न मादृशः सञ्ज्वरं जातु कुर्यात् । 013a
इष्टान्भोगान्नानुरुध्येत्सुखं वा न चिन्तयेद्दुःखमभ्यागतं वा ॥ 013c
समाहितो न स्पृहयेत्परेषां नानागतं चाभिनन्देच्च लाभम् । 014a
न चापि हृष्येद्विपुलेऽर्थलाभे तथाऽर्थनाशे च न वै विषीदेत् ॥ 014c
न बान्धवा न च वित्तं न कौल्यं न च श्रुतं न च मन्त्रा न वीर्यम् । 015a
दुःखान्त्रातुं सर्व एवोत्सहन्ते परत्र शीलेन तु यान्ति शान्तिम् ॥ 015c
नास्ति बुद्धिरयुक्तस्य नायोगाद्विन्दते सुखम् । 016a
धृतिश्च दुःखत्यागश्चेत्युभयं तु सुखं नृप ॥ 016c
प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः । 017a
उत्सेको नरकायैव तस्मात्तान्सन्त्यजाम्यहम् ॥ 017c
एताञ्शोकभयोत्सेकान्मोहनान्सुखदुःखयोः । 018a
पश्यामि साक्षिवल्लोके देहस्यास्य विचेष्टनात् ॥ 018c
अर्थकामौ परित्यज्य विशोको विगतज्वरः । 019a
तृष्णामोहौ तु सन्त्यज्य चरामि पृथिवीमिमाम् ॥ 019c
न च मृत्योर्न चाधर्मान्न लोभान्न कुतश्चन । 020a
पीतामृतस्येवात्यन्तमिह वामुत्र वा भयम् ॥ 020c
एतद्ब्रह्मन्विजानामि महत्कृत्वा तपोऽव्ययम् । 021a
तेन नारद सम्प्राप्तो न मां शोकः प्रबाधते ॥ 021c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विनवत्यधिकद्विशततमोऽध्यायः ॥ 292 ॥

12-292-8 पशवोऽपि हि जीवन्तीति तद्वदस्मान्विभावयेति च ध. पाठः ॥ 12-292-10 दुःखानि चार्थं न विवर्धयन्तीति ध. पाठः ॥ 12-292-11 यत्प्रज्ञानं कथयन्ते इति थ. पाठः ॥ 12-292-16 नायोगे विन्दते सुखमिति । मतिः सुखं च योगः स्यादुभयं न सुखोदयमिति च झ. पाठः ॥