अध्यायः 291
भीष्मेण युधिष्ठिरम् प्रत्यध्यात्मकथनम् ॥ 1 ॥
- युधिष्ठिर उवाच 001
अध्यात्मं नाम यदिदं पुरुषस्येह विद्यते । 001a
यदध्यात्मं यतश्चैव तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
सर्वज्ञानं परं बुद्ध्या यन्मां त्वमनुपृच्छसि । 002a
तद्व्याख्यास्यामि ते तात तस्य व्याख्यामिमां शृणु ॥ 002c
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । 003a
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ॥ 003c
स तेषां गुणसङ्घातः शरीरं भरतर्षभ । 004a
सततं हि प्रलीयन्ते गुणास्ते प्रभवन्ति च ॥ 004c
ततः सृष्टानि भूतानि तानि यान्ति पुनः पुनः । 005a
महाभूतानि भूतेभ्य ऊर्मयः सागरे यथा ॥ 005c
प्रसारयित्वेहाङ्गानि कूर्मः संहरते यथा । 006a
तद्वद्भूतानि भूतानामल्पीयांसि स्थवीयसाम् ॥ 006c
आकाशात्खलु यो घोषः सङ्घातस्तु महीगुणः । 007a
वायोः प्राणो रसस्त्वद्भ्यो रूपं तेजस उच्यते ॥ 007c
इत्येतन्मयमेवैतत्सर्वं स्थावरजङ्गमम् । 008a
प्रलये च तमभ्येति तस्मादुद्दिश्यते पुनः ॥ 008c
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् । 009a
विषयान्कल्पयामास यस्मिन्यदनुपश्यति ॥ 009c
शब्दश्रोत्रे तथा खानि त्रयमाकाशयोनिजम् । 010a
रसः स्नेहश्च जिह्वा च अपामेते गुणाः स्मृताः ॥ 010c
रूपं चक्षुर्विपाकश्च त्रिविधं ज्योतिरुच्यते । 011a
घ्रेयं घ्राणं शरीरं च एते भूमिगुणाः स्मृताः ॥ 011c
प्राणः स्पर्शश्च चेष्टा च वायोरेते गुणाः स्मृताः । 012a
इति सर्वगुणा राजन्व्याख्याताः पाञ्चभौतिकाः ॥ 012c
सत्त्वं रजस्तमः कालः कर्म बुद्धिश्च भारत । 013a
मनः षष्ठानि चैतेषु ईश्वरः समकल्पयत् ॥ 013c
यदूर्ध्वपादतलयोरवाङ्मूर्ध्नश्च पश्यसि । 014a
एतस्मिन्नेव कृत्स्नेयं वर्तते बुद्धिरन्तरे ॥ 014c
इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते । 015a
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञः पुनरष्टमः ॥ 015c
इन्द्रियाणि च कर्ता च विचेतव्यानि भागशः । 016a
तमः सत्वं रजश्चैव तेऽपि भावास्तदाश्रयाः ॥ 016c
चक्षुरालोचनायैव संशयं कुरुते मनः । 017a
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥ 017c
तमः सत्वं रजश्चेति कालः कर्म च भारत । 018a
गुणैर्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाणि च । 018c
मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः ॥ 018e
येन पश्यति तच्चक्षुः शृण्वती श्रोत्रमुच्यते । 019a
जिघ्रती भवति घ्राणं रसती रसना रसान् ॥ 019c
स्पर्शनं स्पर्शती स्पर्शान्बुद्धिर्विक्रियतेऽसकृत् । 020a
यदा प्रार्थयते किञ्चित्तदा भवति सा मनः ॥ 020c
अधिष्ठानानि बुद्ध्या हि पृथगेतानि पञ्चधा । 021a
इन्द्रियाणीति तान्याहुस्तेषु दुष्टेषु दुष्यति ॥ 021c
पुरुषे तिष्ठती बुद्धिस्त्रिषु भावेषु वर्तते । 022a
कदाचिल्लभते प्रीतिं कदाचिदपि शोचति ॥ 022c
न सुखेन न दुःखेन कदाचिदपि वर्तते । 023a
सेयं भावात्मिका भावांस्त्रीनेतान्परिवर्तते ॥ 023c
सरितां सागरो भर्ता यथा वेलामिवोर्मिमान् । 024a
इति भावगता बुद्धिर्भावे मनसि वर्तते ॥ 024c
प्रवर्तमानं तु रजस्तद्भावेनानुर्तते । 025a
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ॥ 025c
कथञ्चिदुपपद्यन्ते पुरुषे सात्विका गुणाः । 026a
परिदाहस्तथा शोकः सन्तापोऽपूर्तिरक्षमा ॥ 026c
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः । 027a
अविद्या रागमोहौ च प्रमादः स्तब्धता भयम् ॥ 027c
असमृद्धिस्तथा दैन्यं प्रमोहः स्वप्नतन्द्रिता । 028a
कथञ्चिदुपवर्तन्ते विविधास्तामसा गुणाः ॥ 028c
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् । 029a
वर्तते सात्विको भाव इत्युपेक्षेत तत्तथा ॥ 029c
अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः । 030a
प्रवृत्तं रज इत्येव तदसंरभ्य चिन्तयेत् ॥ 030c
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत् । 031a
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ 031c
इति बुद्धिगतीः सर्वा व्याख्याता यावतीरिह । 032a
एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् ॥ 032c
सत्वक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः । 033a
सृजतेऽत्र गुणानेक एको न सृजते गुणान् ॥ 033c
पृथग्भूतौ प्रकृत्या तु सम्प्रयुक्तौ च सर्वदा । 034a
यथा मत्स्योऽद्भिरन्यः स्यात्सम्प्रयुक्तो भवेत्तथा ॥ 034c
न गुणा विदुरात्मानं स गुणान्वेद सर्वतः । 035a
परिद्रष्टा गुणानां तु संस्रष्टा मन्यते यथा ॥ 035c
आश्रयो नास्ति सत्वस्य गुणसर्गेण चेतना । 036a
सत्वमस्य सृजन्त्यन्ये गुणान्वेद कदाचन ॥ 036c
सृजते हि गुणान्सत्वं क्षेत्रज्ञः परिपश्यति । 037a
सम्प्रयोगस्तयोरेष सत्वक्षेत्रज्ञयोर्ध्रुवः ॥ 037c
इन्द्रियैस्तु प्रदीपार्थं क्रियते बुद्धिरन्तरा । 038a
निश्चक्षुर्भिरजानद्भिरिन्द्रियाणि प्रदीपवत् ॥ 038c
एवं स्वभावमेवैतत्तद्बुद्ध्वा विहरन्नरः । 039a
अशोचन्नप्रहृष्यंश्च स वै विगतमत्सरः ॥ 039c
स्वभावसिद्धमेवैतद्यदिमान्सृजते गुणान् । 040a
ऊर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद्गुणाः ॥ 040c
प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते । 041a
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे ॥ 041c
इतीदं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम् । 042a
विमुच्य सुखमासीत विशोकश्छिन्नसंशयः ॥ 042c
ताम्येयुः प्रच्युताः पृथ्वीं मोहपूर्णां नदीं नराः । 043a
यथा गाधमविद्वांसो बुद्धियोगमयं तथा ॥ 043c
नैव ताम्यन्ति विद्वांसः प्लवन्तः पारमम्भसः । 044a
अध्यात्मविदुषो धीरा ज्ञानं तु परमं प्लवः ॥ 044c
न भवति विदुषां महद्भयं यदविदुषां सुमहद्भयं भवेत् । 045a
न हि गतिरधिकाऽस्ति कस्यचित्सकृदुपदर्शयतीह तुल्यताम् ॥ 045c
यत्करोति बहुदोषमेकतस्तच्च दूषयति यत्पुरा कृतम् । 046a
नाप्रियं तदुभयं करोत्यसौ यच्च दूषयति यत्करोति च ॥ 046c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकनवत्यधिकद्विशततमोऽध्यायः ॥ 291 ॥
- 192 तमाध्यायतया पूर्वं विद्यमान एवायमध्यायः ख. घ. झ. पुस्तकेषु क्वचित्क्वचित्पाठभेदेन पुनरपि दृश्यते न दृश्यते च दाक्षिणात्यबहुकोशेषु ।