अध्यायः 290
वीरभद्रेण दक्षयज्ञभङ्गः ॥ 1 ॥ दक्षकृतस्तुतिप्रसन्नेन रुद्रेण दक्षाय वरदानम् ॥ 2 ॥
जनमेजय उवाच 001
प्राचेतसस्य दक्षस्य कथं वैवस्वतेन्तरे । 001a
विनाशमगमद्ब्रह्मन्हयमेधः प्रजापतेः । 001c
'कथं स चाभवद्ब्रह्मन्हयमेधः प्रजापतेः ॥' 001e
देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः । 002a
प्रसादात्तस्य दक्षेण स यज्ञः सन्धितः कथम् । 002c
एतद्वेदितुमिच्छेयं तन्मे ब्रूहि यथातथम् ॥ 002e
वैशम्पायन उवाच 003
पुरा हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् । 003a
गङ्गाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥ 003c
गन्धर्वाप्सरसाकीर्णे नानाद्रुमलतावृते । 004a
ऋषिसङ्घैः परिवृतं दक्षं धर्मभृतां वरम् ॥ 004c
पृथिव्यामन्तरिक्षे च ये च स्वर्लोकवासिनः । 005a
सर्वे प्राञ्जलयो भूत्वा उपतस्थुः प्रजापतिम् ॥ 005c
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः । 006a
हाहा हूहूश्च गन्धर्वौ तुम्बुरुर्नारदस्तथा ॥ 006c
विश्वावसुर्विश्वसेनो गन्धर्वाप्सरसस्तथा । 007a
आदित्या वसवो रद्राः साध्याः सह मरुद्गणैः ॥ 007c
इन्द्रेण सहिताः सर्वे आगता यज्ञभागिनः । 008a
ऊष्मपाः सोमपाश्चैव धूमपा आज्यपास्तथा ॥ 008c
ऋषयः पितरश्चैव आगता ब्रह्मणा सह । 009a
एते चान्ये च बहवो भूतग्रामाश्चतुर्विधाः ॥ 009c
जरायुजाण्डजाश्चैव सहसा स्वेदजोद्भिजैः । 010a
आहूता मन्त्रिताः सर्वे देवाश्च सह पत्निभिः ॥ 010c
विराजन्ते विमानस्था दीप्यमाना इवाग्नयः । 011a
तान्दृष्ट्वा मन्युनाऽऽविष्टो दधीचिर्वाक्यमब्रवीत् ॥ 011c
नायं यज्ञो न वा धर्मो यत्र रुद्रो न इज्यते । 012a
वधबन्धं प्रपन्ना वै किन्नु कालस्य पर्ययः ॥ 012c
किन्नु मोहान्न पश्यन्ति विनाशं पर्युपस्थितम् । 013a
उपस्थितं भयं घोरं न बुध्यन्ति महाध्वरे ॥ 013c
इत्युक्त्वा स महायोगी पश्यति ध्यानचक्षुषा । 014a
स पश्यति महादेवं देवीं च वरदां शुभाम् ॥ 014c
नारदं च महात्मानं तस्या देव्याः समीपतः । 015a
सन्तोषं परमं लेभे इति निश्चित्य योगवित् ॥ 015c
एकमन्त्रास्तु ते सर्वे येनेशो न निमन्त्रितः । 016a
तस्माद्देशादपक्रम्य दधीचिर्वाक्यमब्रवीत् ॥ 016c
अपूज्यपूजनाच्चैव पूज्यानां चाप्यपूजनात् । 017a
नृघातकसमं पापं शश्वत्प्राप्नोति मानवः ॥ 017c
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन । 018a
देवतानामृषीणां च मध्ये सत्यं ब्रवीम्यहम् ॥ 018c
आगतं पशुभर्तारं स्रष्टारं जगतः पतिम् । 019a
अध्वरे ह्यग्रभोक्तारं ह्यर्वेषां पश्यत प्रभुम् ॥ 019c
दक्ष उवाच 020
सन्ति नो बहवो रुद्राः शूलहस्ताः कपर्दिनः । 020a
एकादशस्थानगता नाहं वेद्मि महेश्वरम् ॥ 020c
दधीचिरुवाच 021
सर्वेषामेव मन्त्रोऽयं येनासौ न निमन्त्रितः । 021a
यथाऽहं शङ्करादूर्ध्वं नान्यं पश्यामि दैवतम् । 021c
तथा दक्षस्य विपुलो यज्ञोऽयं नभविष्यति ॥ 021e
दक्ष उवाच 022
एतन्मखेशाय सुवर्णपात्रे हविः समस्तं विधिमन्त्रपूतम् । 022a
विष्णोर्नयाम्यप्रतिमस्य भागं प्रभुर्विभुश्चाहवनीय एषः ॥ 022c
देव्युवाच 023
किं नाम दानं नियमं तपो वा कुर्यामहं येन पतिर्ममाद्य । 023a
'लभेत भागं च तथैव सर्वं प्रभुर्विभुश्चाहवनीय एषः ।' 023c
लभेत भागं भगवानचिन्त्यो ह्यर्धं तथा भागमथो तृतीयम् ॥ 023e
एवं ब्रुवाणां भगवान्स्वपत्नीं प्रहृष्टरूपः क्षुभितामुवाच । 024a
न वेत्सि मां देवि कृशोदराङ्गि किं नाम युक्तं वचनं मखेशे ॥ 024c
अहं विजानामि विशालनेत्रे ध्यानेन हीना न विदन्त्यसन्तः । 025a
तवाद्य मोहेन च सेन्द्रदेवा लोकास्त्रयः सर्वत एव मूढाः ॥ 025c
मामध्वरे शंसितारः स्तुवन्ति रथन्तरं सामगाश्चोपगान्ति । 026a
मां ब्राह्मणा ब्रह्मविदो यजन्ते ममाध्वर्यवः कल्पयन्ते च भागम् ॥ 026c
देव्युवाच 027
सुप्राकृतोऽपि पुरुषः सर्वः स्त्रीजनसंसदि । 027a
स्तौति गर्वायते चापि स्वमात्मानं न संशयः ॥ 027c
श्रीभगवानुवाच 028
नात्मानं स्तौमि देवेशि पश्य मे तनुमध्यमे । 028a
यं स्रक्ष्यामि वरारोहे यागार्थे वरवर्णिनि ॥ 028c
इत्युक्त्वा भगवान्पत्नीमुमां प्राणैरपि प्रियाम् । 029a
सोऽसृजद्भगवान्वक्त्राद्भूतं घोरं प्रहर्षणम् ॥ 029c
तमुवाचाक्षिप मखं दक्षस्येति महेश्वरः । 030a
ततो वक्त्राद्विमुक्तेन सिंहेनैकेन लीलया ॥ 030c
देव्या मन्युव्यपोहार्थं हतो दक्षस्य वै क्रतुः । 031a
मन्युना च महाभीमा महाकाली महेश्वरी ॥ 031c
आत्मनः कर्मसाक्षित्वे तेन सार्धं सहानुगा । 032a
देवस्यानुमतं मत्वा प्रणम्य शिरसा ततः ॥ 032c
आत्मनः सदृशः शौर्याद्बलरूपसमन्वितः । 033a
स एव भगवान्क्रोधः प्रतिरूपसमन्वितः ॥ 033c
अनन्तबलवीर्यश्च अनन्तबलपौरुषः । 034a
वीरभद्र इति ख्यातो देव्या मन्युप्रमार्जकः ॥ 034c
सोऽसृजद्रोमकूपेभ्यो रौम्यान्नाम गणेश्वरान् । 035a
रुद्रतुल्या गणा रौद्रा रुद्रवीर्यपराक्रमाः ॥ 035c
ते निपेतुस्ततस्तूर्णं दक्षयज्ञविहिंसया । 036a
भीमरूपा महाकायाः शतशोऽथ सहस्रशः ॥ 036c
ततः किलकिलाशब्दैराकाशं पूरयन्ति च । 037a
तेन शब्देन महता त्रस्तास्तत्र दिवौकसः ॥ 037c
पर्वताश्च व्यशीर्यन्त चकम्पे च वसुन्धरा । 038a
मारुताश्चैव घूर्णन्ते चुक्षुभे वरुणालयः ॥ 038c
अग्नयो नैव दीप्यन्ते नैव दीप्यति भास्करः । 039a
ग्रहा नैव प्रकाशन्ते नक्षत्राणि न चन्द्रमाः ॥ 039c
ऋषयो न प्रकाशन्ते न देवा न च मानुषाः । 040a
एवं तु तिमिरीभूते निर्दहन्त्यपमानिताः ॥ 040c
प्रहरन्त्यपरे घोरा यूपानुत्पाटयन्ति च । 041a
प्रमर्दन्ति तथा चान्ये विमर्दन्ति तथाऽपरे ॥ 041c
आधावन्ति प्रधावन्ति वायुवेगा मनोजवाः । 042a
चूर्ण्यन्ते यज्ञपात्राणि दिव्यान्याभरणानि च ॥ 042c
विशीर्यमाणा दृश्यन्ते तारा इव नभस्तले । 043a
दिव्यान्नपानभक्ष्याणां राशयः पर्वतोपमाः ॥ 043c
क्षीरनद्योऽथ दृश्यन्ते घृतपायसकर्दमाः । 044a
दधिमण्डेदका दिव्याः खण्डशर्करवालुकाः ॥ 044c
षड्रसा निवहन्त्येता गुडकुल्या मनोरमाः । 045a
उच्चावचानि मांसानि भक्ष्याणि विविधानि च ॥ 045c
पानकानि च दिव्यानि लेह्यचोष्याणि यानि च । 046a
भुञ्जते विविधैर्वक्त्रैर्विलुम्पन्त्याक्षिपन्ति च ॥ 046c
रुद्रकोपान्महाकायाः कालाग्निसदृशोपमाः । 047a
क्षोभयन्सुरसैन्यानि भीषयन्तः समन्ततः ॥ 047c
क्रीडन्ति विविधाकाराश्चिक्षिपुः सुरयोषितः । 048a
रुद्रक्रोधात्प्रयत्नेन सर्वदेवैः सुरक्षितम् ॥ 048c
तं यज्ञमदहच्छीघ्रं रुद्रकर्मा समन्ततः । 049a
चकार भैरवं नादं सर्वभूतभयङ्करम् ॥ 049c
छित्त्वा शिरो वै यज्ञस्य ननाद च मुमोद च । 050a
ततो ब्रह्मादयो देवा दक्षश्चैव प्रजापतिः ॥ 050c
ऊचुः प्राञ्जलयः सर्वे कथ्यतां को भवानिति । 051a
वीरभद्र उवाच 051
नाहं रुद्रो न वा देवी नैव भोक्तुमिहागतः ॥ 051c
देव्या मन्युकृतं मत्वा क्रुद्धः सर्वात्मकः प्रभुः । 052a
द्रष्टुं वा नैव विप्रेन्द्रान्नैव कौतूहलेन वा ॥ 052c
तव यज्ञविघातार्थं सम्प्राप्तं विद्धि मामिह । 053a
वीरभद्र इति ख्यातो रुद्रकोपाद्विनिःसृतः ॥ 053c
भद्रकालीति विख्याता देव्याः कोपाद्विनिःसृता । 054a
प्रेषितौ देवदेवेन यज्ञान्तिकमिहागतौ ॥ 054c
शरणं गच्छ विप्रेन्द्र देवदेवमुमापतिम् । 055a
वरं क्रोधोऽपि देवस्य वरदानं न चान्यतः ॥ 055c
वीरभद्रवचः श्रुत्वा दक्षो धर्मभृतां वरः । 056a
तोषयामास स्तोत्रेण प्रणिपत्य महेश्वरम् ॥ 056c
प्रपद्ये देवमीशानं शाश्वतं ध्रुवमव्ययम् । 057a
महादेवं महात्मानं विश्वस्य जगतः पतिम् ॥ 057c
दक्षप्रजापतेर्यज्ञे द्रव्यैस्तैः सुसमाहितैः । 058a
आहूता देवताः सर्वा ऋषयश्च तपोधनाः ॥ 058c
देवो नाहूयते तत्र विश्वकर्मा महेश्वरः । 059a
तत्र क्रुद्धा महादेवी गणांस्तत्र व्यसर्जयत् ॥ 059c
प्रदीप्ते यज्ञवाटे तु विद्रुतेषु द्विजातिषु । 060a
तारागणमनुप्राप्ते रौद्रे दीप्ते महात्मनि ॥ 060c
शूलनिर्भिन्नहृदयैः कूजद्भिः परिचारकैः । 061a
निखातोत्पाटितैर्यूपैरपविद्धैरितस्ततः ॥ 061c
उत्पतद्भिः पतद्भिश्च गृध्रैरामिषगृद्धिभिः । 062a
पक्षवातविनिर्धूतैः शिवाशतनिनादितैः ॥ 062c
यक्षगन्धर्वसङ्घैश्च पिशाचोरगराक्षसैः । 063a
प्राणापानौ सन्निरुध्य वक्त्रस्थानेन यत्नतः ॥ 063c
विचार्य सर्वतो दृष्टिं बहुदृष्टिरमित्रजित् । 064a
सहसा देवदेवेशो ह्यग्निकुण्डात्समुत्थितः ॥ 064c
बिभ्रत्सूर्यसहस्रस्य तेजः संवर्तकोपमः । 065a
स्मितं कृत्वाऽब्रवीद्वाक्यं ब्रूहि किं करवाणि ते ॥ 065c
श्राविते च मखाध्याये देवानां गुरुणा ततः । 066a
तमुवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः ॥ 066c
भीतशङ्कितवित्रस्तः सबाष्पवदनेक्षणः । 067a
यदि प्रसन्नो भगवान्यदि चाहं भवत्प्रियः ॥ 067c
यदि वाऽहमनुग्राह्यो यदि वा वरदो मम । 068a
यद्दग्धं भक्षितं पीतमशितं यच्च नाशितम् ॥ 068c
चूर्णीकृतापविद्धं च यज्ञसम्भारमीदृशम् । 069a
दीर्घकालेन महता प्रयत्नेन सुसञ्चितम् । 069c
तन्न मिथ्या भवेन्मह्यं वरमेतमहं वृणे ॥ 069e
तथाऽस्त्वित्याह भगवान्भगनेत्रहरो हरः । 070a
धर्माध्यक्षो विरूपाक्षस्त्र्यक्षो देवः प्रजापतिः ॥ 070c
जानुभ्यामवनीं गत्वा दक्षो लब्ध्वा भवाद्वरम् । 071a
नाम्नामष्टसहस्रेण स्तुतवान्वृषभध्वजम् ॥ 071c
युधिष्ठिर उवाच 072
यैर्नामधेयैः स्तुतवान्दक्षो देवं प्रजापतिः । 072a
वक्तुमर्हसि मे तात श्रोतुं श्रद्धा ममानघ ॥ 072c
भीष्म उवाच 073
श्रूयतां देवदेवस्य नामान्यद्भुतकर्मणः । 073a
गूढव्रतस्य गुह्यानि प्रकाशानि च भारत ॥ 073c
नमस्ते देवदेवेश देवारिबलसूदन । 074a
देवेन्द्रबलविष्टम्भ देवदानवपूजित ॥ 074c
सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय । 075a
सर्वतः पाणिपादान्त सर्वतोक्षिशिरोमुख ॥ 075c
सर्वतः श्रुतिमल्ँलोके सर्वमावृत्य तिष्ठसि । 076a
शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय ॥ 076c
गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोस्तु ते । 077a
शतोदर शतावर्त शतजिह्व नमोस्तु ते ॥ 077c
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । 078a
ब्रह्माणं त्वा शतक्रतुमूर्ध्वं खमिव मेनिरे ॥ 078c
मूर्तौ हि ते महामूर्ते समुद्राम्बरसन्निभ । 079a
सर्वा वै देवता ह्यस्मिन्गावो गोष्ठ इवासते ॥ 079c
भवच्छरीरे पश्यामि सोममग्निं जलेश्वरम् । 080a
आदित्यमथ वै विष्णुं ब्रह्माणं च बृहस्पतिम् ॥ 080c
भगवान्कारणं कार्यं क्रिया करणमेव च । 081a
असतश्च सतश्चैव तथैव प्रभवाप्ययौ ॥ 081c
नमो भवाय शर्वाय रुद्राय वरदाय च । 082a
पशूनां पतये नित्यं नमोस्त्वन्धकघातिने ॥ 082c
त्रिजटाय त्रिशीर्षाय त्रिशूलवरपाणिने । 083a
त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः ॥ 083c
नमश्चण्डाय कुण्डाय अण्डायाण्डधराय च । 084a
दण्डिने समकर्णाय दण्डिमुण्डाय वै नमः ॥ 084c
नमोर्ध्वदंष्ट्रकेशाय शुक्लायावतताय च । 085a
विलोहिताय धूम्राय नीलग्नीवाय वै नमः ॥ 085c
नमोस्त्वप्रतिरूपाय विरूपाय शिवाय च । 086a
सूर्याय सूर्यमालाय सूर्यध्वजपताकिने ॥ 086c
नमः प्रमथनाथाय वृषस्कन्धाय धन्विने । 087a
शत्रुन्दमाय दण्डाय पर्णचीरपटाय च ॥ 087c
नमो हिरण्यगर्भाय हिरण्यकवचाय च । 088a
हिरण्यकृतचूडाय हिरण्यपतये नमः ॥ 088c
नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः । 089a
सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने ॥ 089c
नमो होत्रेऽथ मन्त्राय शुक्लध्वजपताकिने । 090a
नमो नाभाय नाभ्याय नमः कटकटाय च ॥ 090c
नमोस्तु कृशनासाय कृशाङ्गाय कृशाय च । 091a
संहृष्टाय विहृष्टाय नमः किलकिलाय च ॥ 091c
नमोस्तु शयमानाय शयितायोत्थिताय च । 092a
स्थिताय धावमानाय मुण्डाय जटिलाय च ॥ 092c
नमो नर्तनशीलाय मुखवादित्रवादिने । 093a
नाद्योपहारलुब्धाय गीतवादित्रशालिने ॥ 093c
नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च । 094a
कालनाथाय कल्याय क्षयायोपक्षयाय च ॥ 094c
भीमदुन्दुभिहासाय भीमव्रतधराय च । 095a
उग्राय च नमो नित्यं नमोस्तु दशबाहवे ॥ 095c
नमः कपालहस्ताय चितिभस्मप्रियाय च । 096a
विभीषणाय भीष्माय भीमव्रतधराय च ॥ 096c
नमो विकृतवक्त्राय खड्गजिह्वाय दंष्ट्रिणे । 097a
पक्वाममांसलुब्धाय तुम्बीवीणाप्रियाय च ॥ 097c
नमो वृषाय वृष्याय गोवृषाय वृषाय च । 098a
कटङ्कटाय दण्डाय नमः पचपचाय च ॥ 098c
नमः सर्ववरिष्ठाय वराय वरदाय च । 099a
वरमाल्यगन्धवस्त्राय वरातिवरदे नमः ॥ 099c
नमो रक्तविरक्ताय भावनायाक्षमालिने । 100a
सम्भिन्नाय विभिन्नाय च्छायायातपनाय च ॥ 100c
अघोरघोररूपाय घोरघोरतराय च । 101a
नमः शिवाय शान्ताय नमः शान्ततमाय च ॥ 101c
एकपाद्बहुनेत्राय एकशीर्ष्णे नमोस्तु ते । 102a
रुद्राय क्षुद्रलुब्धाय संविभागप्रियाय च ॥ 102c
पञ्चालाय सिताङ्गाय नमः शमशमाय च । 103a
नमश्चण्डिकघण्टाय घण्टायाघण्टघण्टिने ॥ 103c
सहस्राध्मातघण्टाय घण्टामालाप्रियाय च । 104a
प्राणघण्टाय गन्धाय नमः कलकलाय च ॥ 104c
हूंहूंहूङ्कारपाराय हूंहूङ्कारप्रियाय च । 105a
नमः शमशमे नित्यं गिरिवृक्षालयाय च ॥ 105c
गर्भमांससृगालाय तारकाय तराय च । 106a
नमो यज्ञाय यजिने हुताय प्रहुताय च ॥ 106c
यज्ञवाहाय दान्ताय तप्यायातपनाय च । 107a
नमस्तटाय तट्याय तटानां पतये नमः ॥ 107c
अन्नदायान्नपतये नमस्त्वन्नभुजे तथा । 108a
नमः सहस्रशीर्षाय सहस्रचरणाय च ॥ 108c
सहस्रोद्यतशूलाय सहस्रनयनाय च । 109a
नमो बालार्कवर्णाय बालरूपधराय च ॥ 109c
बालानुचरगोप्ताय बालक्रीडनकाय च । 110a
नमोवृद्धाय लुब्धाय क्षुब्धाय क्षोभणाय च ॥ 110c
तरङ्गाङ्कितकेशाय मुञ्जकेशाय वै नमः । 111a
नमः षट्कर्मतुष्टाय त्रिकर्मनिरताय च ॥ 111c
वर्णाश्रमाणां विधिवत्पृथक्कर्मनिवर्तिने । 112a
नमो घुष्याय घोषाय नमः कलकलाय च ॥ 112c
श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च । 113a
प्राणभग्नाय दण्डाय स्फोटनाय कृशाय च ॥ 113c
धर्मकामार्थमोक्षाणां कथनीयकथाय च । 114a
साङ्ख्याय साङ्ख्यमुख्याय साङ्ख्ययोगप्रवर्तिने ॥ 114c
नमो रथ्यविरथ्याय चतुष्पथरथाय च । 115a
कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने ॥ 115c
ईशानवज्रसङ्घातहरिकेश नमोस्तु ते । 116a
त्र्यम्बकाम्बिकनाथाय व्यक्ताव्यक्त नमोस्तु ते ॥ 116c
काम कामद कामघ्न तृप्तातृप्तविचारिणे । 117a
सर्व सर्वद सर्वघ्न सन्ध्याराग नमोस्तु ते ॥ 117c
'महाबल महाबाहो महासत्व महाद्युते । 118a
महामेघचयप्रख्य महाकाल नमोस्तु ते । 118c
स्थूलजीर्णाङ्गजटिले वत्कलाजिनधारिणे ॥ 118e
दीप्तसूर्याग्निजटिने वत्कलाजिनवाससे । 119a
सहस्रसूर्यप्रतिम तपोनित्य नमोस्तु ते ॥ 119c
उन्मादनशतावर्त गङ्गातोयार्द्रमूर्धज । 120a
चन्द्रवर्त युगावर्त मेघावर्त नमोस्तु ते ॥ 120c
त्वमन्नमत्ता भोक्ता च अन्नदोऽन्नभुगेव च । 121a
अन्नस्रष्टा च पक्ता च पक्कभुक्पवनोऽनलः ॥ 121c
जरायुजाण्डजाश्चैव स्वेदजाश्च तथोद्भिजाः । 122a
त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः ॥ 122c
चराचरस्य स्रष्टा त्वं प्रतिहर्ता तथैव च । 123a
त्वामाहुर्ब्रह्मविदुषो ब्रह्म ब्रह्मविदांवर ॥ 123c
मनसः परमा योनिः खं वायुर्ज्योतिषां निधिः । 124a
ऋक्सामानि तथोङ्कारमाहुस्त्वां ब्रह्मवादिनः ॥ 124c
हायिहायि हुवाहायि हावुहायि तथाऽसकृत् । 125a
गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः ॥ 125c
यजुर्मयो ऋङ्मयश्च त्वमाहुतिमयस्तथा । 126a
पठ्यसे स्तुतिभिश्चैव वेदोपनिषदां गणैः ॥ 126c
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये । 127a
त्वमेव मेघसङ्घाश्च विद्युत्स्तनितगर्जितः ॥ 127c
संवत्सरस्त्वामृतवो मासो मासार्धमेव च । 128a
युगं निमेषाः काष्ठास्त्वं नक्षत्राणि ग्रहाः कलाः ॥ 128c
वृक्षाणां ककुदोसि त्वं गिरीणां शिखराणि च । 129a
व्याघ्रो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ॥ 129c
क्षीरादो ह्युदधीनां च यन्त्राणां धनुरेव च । 130a
वज्रः प्रहरणानां च व्रतानां सत्यमेव च ॥ 130c
त्वमेव द्वेष इच्छा च रागो मोहः क्षमाक्षमे । 131a
व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ॥ 131c
त्वं गदी त्वं शरी चापी खट्वाङ्गी झर्झरी तथा । 132a
छेत्ता भेत्ता प्रहर्ता त्वं नेता मन्ता पिता मतः ॥ 132c
दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च । 133a
गङ्गा समुद्राः सरितः पल्वलानि सरांसि च ॥ 133c
लता वल्ल्यस्तृणौषध्यः पशवो मृगपक्षिणः । 134a
द्रव्यकर्मसमारम्भः कालः पुष्पफलप्रदः ॥ 134c
आदिश्चान्तश्च देवानां गायत्र्योङ्कार एव च । 135a
हरितो रोहितो नीलः कृष्णो रक्तस्तथाऽरुणः । 135c
कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा ॥ 135e
अवर्णश्च सुवर्णश्च वर्णकारो घनोपमः । 136a
सुवर्णनामा च तथा सुवर्णप्रिय एव च ॥ 136c
त्वमिन्द्रश्च यमश्चैव वरुणो धनदोऽनलः । 137a
उपप्लवश्चित्रभानुः स्वर्भानुर्भानुरेव च ॥ 137c
होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः । 138a
त्रिसौपर्णं तथा ब्रह्म यजुषां शतरुद्रियम् ॥ 138c
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् । 139a
गिरिको हिण्डुको वृक्षो जीवः पुद्गल एव च ॥ 139c
प्राणः सत्त्वं रजश्चैव तमश्चाप्रमदस्तथा । 140a
प्राणोपानः समानश्च उदानो व्यान एव च ॥ 140c
उन्मेषश्च निमेषश्च क्षुतं जृम्भितमेव च । 141a
लोहितान्तर्गता दृष्टिर्महावक्त्रो महोदरः ॥ 141c
सूचीरोमा हरिश्मश्रुरूर्ध्वकेशश्चलाचलः । 142a
गीतवादित्रतत्त्वज्ञो गीतवादनकप्रियः ॥ 142c
मत्स्यो जलचरो जाल्योऽकलः केलिकलः कलिः । 143a
अकालश्चातिकालश्च दुष्कालः काल एव च ॥ 143c
मृत्युः क्षुरश्च कृत्यश्च पक्षोऽपक्षक्षयङ्करः । 144a
मेघकालो महादंष्ट्रः संवर्तकबलाहकः ॥ 144c
घण्टोऽघण्टो घटी घण्टी चरुचेली मिलीमिली । 145a
ब्रह्मकायिकमग्नीनां दण्डी मुण्डस्त्रिदण्डधृक् ॥ 145c
चतुर्युगश्चतुर्वेदश्चातुर्होत्रप्रवर्तकः । 146a
चातुराश्रम्यनेता च चातुर्वर्ण्यकरश्च यः ॥ 146c
सदा चाक्षप्रियो धूर्तो गणाध्यक्षो गणाधिपः । 147a
रक्तमाल्याम्बरधरो गिरिशो गिरिकप्रियः ॥ 147c
शिल्पिकः शिल्पिनांश्रेष्ठः सर्वशिल्पप्रवर्तकः । 148a
भगनेत्राङ्कुशश्चण्डः पूष्णो दन्तविनाशनः ॥ 148c
स्वाहास्वधावषट्कारो नमस्कारो नमो नमः । 149a
गूढव्रतो गुह्यतपास्तारकस्तारकामयः ॥ 149c
धाता विधाता सन्धाता विधाता धारणो धरः । 150a
ब्रह्मा तपश्च सत्यं च ब्रह्मचर्यमथार्जवम् ॥ 150c
भूतात्मा भूतकृद्भूतो भूतभव्यवोद्भवः । 151a
भूर्भुवःस्वरितश्चैव ध्रुवो दान्तो महेश्वरः ॥ 151c
दीक्षितोऽदीक्षितः क्षान्तो दुर्दान्तोऽदान्तनाशनः । 152a
चन्द्रावर्तयुगावर्तः संवर्तः सम्प्रवर्तकः ॥ 152c
कामो बिन्दुरणुः स्थूलः कर्णिकारस्रजप्रियः । 153a
नन्दीमुखो भीममुखः सुमुखो दुर्मुखोऽमुखः ॥ 153c
चतुर्मुखो बहुमुखो रणेष्वग्निमुखस्तथा । 154a
हिरण्यगर्भः शकुनिर्महोरगपतिर्विराट् ॥ 154c
अधर्महा महापार्श्वश्चण्डधारो गणाधिपः । 155a
गोनर्दो गोप्रतारश्च गोवृषेश्वरवाहनः ॥ 155c
त्रैलोक्यगोप्ता गोविन्दो गोमार्गोऽमार्ग एव च । 156a
श्रेष्ठः स्थिरश्च स्थाणुश्च निष्कम्पः कम्प एव च ॥ 156c
दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः । 157a
दुर्धर्षो दुष्प्रकम्पश्च दुर्विषो दुर्जयो जयः ॥ 157c
शशः शशाङ्कः शमनः शीतोष्णक्षुज्जराधिकृत् । 158a
आधयो व्याधयश्चैव व्याधिहा व्याधिरेव च ॥ 158c
मम यज्ञमृगव्याधो व्याधीनामागमो गमः । 159a
शिखण्डी पुण्डरीकाक्षः पुण्डरीकवनालयः ॥ 159c
दण्डधारस्त्र्यम्बकश्च उग्रदण्डोऽण्डनाशनः । 160a
विषाग्निपाः सुरश्रेष्ठः सोमपास्त्वं मरुत्पतिः ॥ 160c
अमृतपास्त्वं जगन्नाथ देवदेव गणेश्वरः । 161a
विषाग्निपा मृत्युपाश्च क्षीरपाः सोमपास्तथा । 161c
मधुश्च्युतानामग्रपास्त्वं त्वमेव तुषिताद्यपाः ॥ 161e
हिरण्यरेताः पुरुषस्त्वमेव त्वं स्त्री पुमांस्त्वं च नपुंसकं च । 162a
बालो युवा स्थविरो जीर्णदंष्ट्रस्त्वं नागेन्द्र शक्रस्त्वं विश्वकृद्विश्वकर्ता ॥ 162c
विश्वकृद्विश्वकृतां वरेण्यस्त्वं विश्वबाहो विश्वरूपस्तेजस्वी विश्वतोमुखः । 163a
चन्द्रादित्यौ चक्षुषी ते हृदयं च पितामहः । 163c
महोदधिः सरस्वती वाग्बलमनलोऽनिलः अहोरात्रं निमेषोन्मेषकर्मा ॥ 164ac
न ब्रह्मा न च गोविन्दः पौराणा ऋषयो न ते । 165a
माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥ 165c
या मूर्तयः सुसूक्ष्मास्ते न मह्यं यान्ति दर्शनम् । 166a
त्राहि मां सततं रक्ष पिता पुत्रमिवौरसम् ॥ 166c
रक्ष मां रक्षणीयोऽहं तवानघ नमोस्तु ते । 167a
भक्तानुकम्पी भगवान्भक्तश्चाहं सदा त्वयि ॥ 167c
यः सहस्राण्यनेकापि पुंसामावृत्य दुर्दृशः । 168a
तिष्ठत्येकः समुद्रान्ते स मे गोप्ताऽस्तु नित्यशः ॥ 168c
यं विनिद्रा जितश्वासाः सत्वस्थाः संयतेन्द्रियाः । 169a
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ 169c
जटिले दण्डिने नित्यं लम्बोदरशरीरिणे । 170a
कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ॥ 170c
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु । 171a
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥ 171c
सम्भक्ष्य सर्वभूतानि युगान्ते पर्युपस्थिते । 172a
यः शेते जलमध्यस्थस्तं प्रपद्येऽम्बुशायिनम् ॥ 172c
प्रविश्य वदनं राहोर्यः सोमं पिबते निशि । 173a
ग्रसत्यर्कं च स्वर्भानुर्भूत्वा मां सोऽभिरक्षतु ॥ 173c
ये चानुपतिता गर्भा यथा भागानुपासते । 174a
नमस्तेभ्यः स्वधा स्वाहा प्राप्नुवन्तु मुदं तु ते ॥ 174c
येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् । 175a
रक्षन्तु ते हि मां नित्यं नित्यं चाप्याययन्तु माम् ॥ 175c
येन रोदन्ति देहस्था देहिनो रोदयन्ति च । 176a
हर्षयन्ति न हृष्यन्ति नमस्तेभ्योऽस्तु नित्यशः ॥ 176c
ये नदीषु समुद्रेषु पर्वतेषु गुहासु च । 177a
वृक्षमूलेषु गोष्ठेषु कान्तारे गहनेषु च ॥ 177c
चतुष्पथेषु रथ्यासु चत्वरेषु तटेषु च । 178a
हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥ 178c
येषु पञ्चसु भूतेषु दिशासु विदिशासु च । 179a
चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥ 179c
रसातलगता ये च ये च तस्मै परं गताः । 180a
नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्योस्तु नित्यशः ॥ 180c
येषां न विद्यते सङ्ख्या प्रमाणं रूपमेव च । 181a
असङ्ख्येयगुणा रुद्रा नमस्तेभ्योस्तु नित्यशः ॥ 181c
सर्वभूतकरो यस्मात्सर्वभूतपतिर्हरः । 182a
सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥ 182c
त्वमेव हीज्यसे यस्माद्यज्ञैर्विविधदक्षिणैः । 183a
त्वमेव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥ 183c
अथवा मायया देव सूक्ष्मया तव मोहितः । 184a
एतस्मात्कारणाद्वाऽपि तेन त्वं न निमन्त्रितः ॥ 184c
प्रसीद मम भद्रं ते भव भावगतस्य मे । 185a
त्वयि मे हृदयं देव त्वयि बुद्धिर्मनस्त्वयि ॥ 185c
स्तुत्वैवं स महादेवं विरराम प्रजापतिः । 186a
भगवानपि सुप्रीतः पुनर्दक्षमभाषत ॥ 186c
परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत । 187a
बहुनात्र किमुक्तेन मत्समीपे भविष्यसि ॥ 187c
अश्वमेधसहस्रस्य वाजपेयशतस्य च । 188a
प्रजापते मत्प्रसादात्फलभागी भविष्यसि ॥ 188c
अथैनमब्रवीद्वाक्यं लोकस्याधिपतिर्भवः । 189a
आश्वासनकरं वाक्यं वाक्यविद्वाक्यसम्मितम् ॥ 189c
दक्ष दक्ष न कर्तव्यो मन्युर्विघ्नमिमं प्रति । 190a
अहं यज्ञहरस्तुभ्यं दृष्टमेतत्पुरातनम् ॥ 190c
भूयश्च ते वरं दद्मि तं त्वं गृह्णीष्व सुव्रत । 191a
प्रसन्नवदनो भूत्वा तदिहैकमनाः शृणु ॥ 191c
वेदात्षडङ्गादुद्धृत्य साङ्ख्ययोगाच्च युक्तितः । 192a
तपः सुतप्तं विपुलं दुश्चरं देवदानवैः ॥ 192c
अपूर्वं सर्वतोभद्रं सर्वतोमुखमव्ययम् । 193a
अब्दैर्दशाहसंयुक्तं गूढमप्राज्ञनिन्दितम् ॥ 193c
वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् । 194a
गतान्तैरध्यवसितमत्याश्रममिदं व्रतम् ॥ 194c
मया पाशुपतं दक्ष शुभमुत्पादितं पुरा । 195a
तस्य चीर्णस्य तत्सम्यक्फलं भवति पुष्कलम् ॥ 195c
तच्चास्तु ते महाभाग त्यज्यतां मानसो ज्वरः । 196a
एवमुक्त्वा महादेवः सपत्नीकः सहानुगः । 196c
अदर्शनमनुप्राप्तो दक्षस्यामितविक्रमः ॥ 196e
दक्षप्रोक्तं स्तवमिमं कीर्तयेद्यः शृणोति वा । 197a
नाशुभं प्राप्नुयात्किञ्चिद्दीर्घमायुरवाप्नुयात् ॥ 197c
यथा सर्वेषु देवेषु वरिष्ठो भगवाञ्छिवः । 198a
तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मसम्मितः ॥ 198c
यशोराज्यसुखैश्वर्यकामार्थधनकाङ्क्षिभिः । 199a
श्रोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥ 199c
व्याधितो दुःखितो दीनश्चोरग्रस्तो भयार्दितः । 200a
राजकार्याभियुक्तो वा मुच्यते महतो भयात् ॥ 200c
अनेनैव तु देहेन गणानां समतां व्रजेत् । 201a
तेजसा यशसा चैव युक्तो भवति निर्मलः ॥ 201c
न राक्षसाः पिशाचा वा न भूता न विनायकाः । 202a
विघ्नं कुर्युर्गृहे तस्य यत्रायं पठ्यते स्तवः ॥ 202c
शृणुयाच्चैव या नारी तद्भक्ता ब्रह्मचारिणी । 203a
पितृपक्षे मातृपक्षे पूज्या भवति देववत् ॥ 203c
शृणुयाद्यः स्तवं कृत्स्नं कीर्तयेद्वा समाहितः । 204a
तस्य सर्वाणि कर्माणि सिद्धिं गच्छन्त्यभीक्ष्णशः ॥ 204c
मनसा चिन्तितं यच्च यच्च वाचाऽनुकीर्तितम् । 205a
सर्वं सम्पद्यते तस्य स्तवस्यास्यानुकीर्तनाम् ॥ 205c
देवस्य च गुहस्यापि देव्या नन्दीश्वरस्य च । 206a
बलिं सुविहितं कृत्वा दमेन नियमेन च ॥ 206c
ततस्तु युक्तो गृह्णीयान्नामान्याशु यथाक्रमम् । 207a
ईप्सिताल्ँलभते सोर्थान्भोगान्कामांश्च मानवः ॥ 207c
मृतश्च स्वर्गमाप्नोति तिर्यक्षु च न जायते । 208a
इत्याह भगवान्व्यासः पराशरसुतः प्रभुः ॥ 208c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नवत्यधिकद्विशततमोऽध्यायः ॥ 290 ॥
12-290-12 वधं च सम्प्रपन्ना वै किन्तु कालस्येति ध. पाठः ॥ 12-290-24 क्षुभितो ह्युवाचेति ध. पाठः ॥ 12-290-28 यं ददामि वरारोहे योगार्थे इति ध. पाठः ॥ 12-290-41 प्रहरन्त्यध्वरे घोरा इति ध. पाठः ॥ 12-290-47 क्षोभयन्त्यशुभैर्वक्रैरिति ध. पाठः ॥ 12-290-62 यज्ञघातविनिर्घातैः शिवाशतनिनादितैरिति ध. पाठः ॥ 12-290-63 वक्रस्थानेन पद्मासनापरपर्यायेण योगासनेन ॥ 12-290-69 तृणीकृतापविद्धं चेति ध. पाठः ॥ 12-290-78 स्वमिव येमिरे इति ध. पाठः ॥ 12-290-84 नमश्चण्डाय मुण्डायेति ध. पाठः ॥ 12-290-85 शुद्धायात्मकृताय चेति ध. पाठः ॥ 12-290-90 महामात्राय मन्त्रायेति ध. पाठः ॥ 12-290-97 बहुजिह्वाय दंष्ट्रिणे इति ध. पाठः ॥ 12-290-98 क्रिडक्रिडाय चण्डायेति ध. पाठः ॥ 12-290-103 नमश्चण्डिकदण्डाय चण्डायादन्डदण्डिने इति ध. पाठः ॥ 12-290-104 सहस्रधातुचण्डाय रुण्डमालाप्रियाय चेति ध. पाठः ॥ 12-290-109 बालसूर्यधराय चेति ध. पाठः ॥ 12-290-110 बालातुराणां गोपायेति ध. पाठः ॥ 12-290-114 साङ्ख्याय साङ्ख्ययोगायेति ध. पाठः ॥ 12-290-116 ईशानब्रह्मसम्भूतेति ध. पाठः ॥