अध्यायः 289

दक्षयज्ञे भागालाभेन रुष्टस्य रुद्रस्य ललाटतटोद्गतस्वेदादग्निरूपज्वरोत्पत्तिः ॥ 1 ॥ ब्रह्मवचनाद्रुद्रेण ज्वरस्य पृथिव्यादिषु विभजनम् ॥ 2 ॥ युधिष्ठिर उवाच 001
पितामह महाप्राज्ञ सर्वशास्त्रविशारद । 001a
अस्मिन्वृत्रवधे तात विवक्षा मम जायते ॥ 001c
ज्वरेण मोहितो वृत्रः कथितस्ते जनाधिप । 002a
निहतो वासवेनेह वज्रेणेति ममानघ ॥ 002c
कथमेष महाप्राज्ञ ज्वरः प्रादुर्बभूव ह । 003a
ज्वरोत्पत्तिं निपुणतः श्रोतुमिच्छाम्यहं प्रभो ॥ 003c
भीष्म उवाच 004
शृणु राजञ्ज्वरस्येमं सम्भवं लोकविश्रुतम् । 004a
विस्तरं चास्य वक्ष्यामि यादृशश्चैव भारत ॥ 004c
पुरा मेरोर्महाराज शृङ्गं त्रैलोक्यविश्रुतम् । 005a
ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम् ॥ 005c
अप्रमेयमनाधृष्यं सर्वलोकेषु भारत । 006a
तत्र देवो गिरितटे हेमधातुविभूषिते ॥ 006c
पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह । 007a
शैलराजसुता चास्य नित्यं पार्श्वे स्थिता बभौ । 007c
तथा देवा महात्मानो वसवश्चामितौजसः ॥ 007e
तथैव च महात्मानावश्विनौ भिषजां वरौ । 008a
तथा वैश्रवणो राजा गुह्यकैरभिसंवृतः ॥ 008c
यक्षाणामीश्वरः श्रीमान्कैलासनिलयः प्रभुः । 009a
'शङ्खपद्मनिधिभ्यां च लक्ष्म्या परमया सह ।' 009c
उपासन्त महात्मानमुशना च महाकविः ॥ 009e
सनत्कुमारप्रमुखास्तथैव च महर्षयः । 010a
अङ्गिरः प्रमुखाश्चैव तथा देवर्षयोऽपरे ॥ 010c
विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ । 011a
अप्सरोगणसङ्घाश्च समाजग्मुरनेकशः ॥ 011c
ववौ सुखः शिवो वायुर्नानागन्धवहः शुचिः । 012a
सर्वर्तुकुसुमोपेताः पुष्पवन्तो द्रुमास्तथा ॥ 012c
तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः । 013a
महादेवं पशुपतिं पर्युपासन्त भारत ॥ 013c
भूतानि च महाराज नानारूपधराण्यथ । 014a
राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः ॥ 014c
बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः । 015a
देवस्यानुचरास्तत्र तस्थिरे चानलोपमाः ॥ 015c
नन्दी च भगवांस्तत्र देवस्यानुमते स्थितः । 016a
प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा ॥ 016c
गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा । 017a
पर्युपासत तं देवं रूपिणी कुरुनन्दन ॥ 017c
स एवं भगवांस्तत्र पूज्यमानः सुरर्षिभिः । 018a
देवैश्च सुमहातेजा महादेवो व्यतिष्ठत ॥ 018c
कस्यचित्त्वथ कालस्य दक्षो नाम प्रजापतिः । 019a
पूर्वोक्तेन विधानेन यक्ष्यमाणोऽन्वपद्यत ॥ 019c
ततस्तस्य मखं देवाः सर्वे शक्रपुरोगमाः । 020a
गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ 020c
ते विमानैर्महात्मानो ज्वलनार्कसमप्रभैः । 021a
देवस्यानुमतेऽगच्छन्गङ्गाद्वारमिति श्रुतिः ॥ 021c
प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा । 022a
उवाच वचनं साध्वी देवं पशुपतिं पतिम् ॥ 022c
भगवन्क्वनु यान्त्येते देवाः शक्रपुरोगमाः । 023a
ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम् ॥ 023c
महेश्वर उवाच 024
दक्षो नाम महाभागे प्रजानां पतिरुत्तमः । 024a
हयमेधेन यजते तत्र यान्ति दिवौकसः ॥ 024c
उमोवाच 025
यज्ञमेतं महादेव किमर्थं नाधिगच्छति । 025a
केन वा प्रतिषेधेन गमनं ते न विद्यते ॥ 025c
महेश्वर उवाच 026
सुरैरेव महाभागे पूर्वमेतदनुष्ठितम् । 026a
यज्ञेषु सर्वेषु मम न भाग उपकल्पितः ॥ 026c
पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि । 027a
न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः ॥ 027c
उमोवाच 028
भगवन्सर्वभूतेषु प्रभावाभ्यधिको गुणैः । 028a
अजय्यश्चाप्यधृष्यश्च तेजसा यशसा श्रिया ॥ 028c
अनेन ते महाभाग प्रतिषेधेन भागतः । 029a
अतीव दुःखमुत्पन्नं वेपथुश्च ममानघ ॥ 029c
भीष्म उवाच 030
एवमुक्त्वा तु सा देवी देवं पशुपतिं पतिम् । 030a
तूष्णीम्भूताऽभवद्राजन्दह्यमानेन चेतसा ॥ 030c
अथ देव्या मतं ज्ञात्वा हृद्गतं यच्चिकीर्षितम् । 031a
स समाज्ञापयामास तिष्ठ त्वमिति नन्दिनम् ॥ 031c
ततो योगबलं कृत्वा सर्वयोगेश्वरेश्वरः । 032a
तं यज्ञं स महातेजा भीमैरनुचरैस्तदा ॥ 032c
सहसा घातयामास देवदेवः पिनाकधृत् । 033a
केचिन्नादानमुञ्चन्त केचिद्धासांश्च चक्रिरे ॥ 033c
रुधिरेणापरे राजंस्तत्राग्निं समवाकिरन् । 034a
केचिद्यूपान्समुत्पाट्य व्याक्षिपन्विकृताननाः ॥ 034c
आस्यैरन्ये चाग्रसन्त तथैव परिचारकान् । 035a
ततः स यज्ञो नृपतेर्वध्यमानः समन्ततः ॥ 035c
आस्थाय मृगरूपं वै स्वमेवाभ्यगमत्तदा । 036a
तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः ॥ 036c
धनुरादाय बाणेन तदान्वसरत प्रभुः । 037a
ततस्तस्य सुरेशस्य क्रोधादमिततेजसः ॥ 037c
ललाटात्प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह । 038a
तस्मिन्पतितमात्रे च स्वेदबिन्दौ तदा भुवि ॥ 038c
प्रादुर्बभूव सुमहानग्निः कालानलोपमः । 039a
तत्र चाजायत तदा पुरुषः पुरुषर्षभ ॥ 039c
ह्रस्वोऽतिमात्रं रक्ताक्षो हरिश्मश्रुर्विभीषणः । 040a
ऊर्ध्वकेशोऽतिरोमाङ्गः श्येनोलूकस्तथैव च ॥ 040c
करालकृष्णवर्णश्च रक्तवासास्तथैव च । 041a
तं यज्ञं सुमहासत्वोऽदहत्कक्षमिवानलः ॥ 041c
व्यचरत्सर्वतो देवान्प्राद्रवत्स ऋषींस्तथा । 042a
देवाश्चाप्याद्रवन्सर्वे ततो भीता दिशो दश ॥ 042c
तेन तस्मिन्विचरता पुरुषेण विशाम्पते । 043a
पृथिवी ह्यचलद्राजन्नतीव भरतर्षभ ॥ 043c
हाहाभूतं जगत्सर्वमुपलक्ष्य तदा प्रभुः । 044a
पितामहो महादेवं दर्शयन्प्रत्यभाषत ॥ 044c
ब्रह्मोवाच 045
भवतोपि सुराः सर्वे भागं दास्यन्ति वै प्रभो । 045a
क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया ॥ 045c
इमा हि देवताः सर्वा ऋषयश्च परन्तप । 046a
तव क्रोधान्महादेव न शान्तिमुपलेभिरे ॥ 046c
यश्चैष पुरुषो जातः स्वेदात्ते विबुधोत्तम । 047a
ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति ॥ 047c
एकीभूतस्य न त्वस्य धारणे तेजसः प्रभो । 048a
समर्था सकला पृथ्वी बहुधा सृज्यतामयम् ॥ 048c
इत्युक्तो ब्रह्मणा देवो भागे चापि प्रकल्पिते । 049a
भगवन्तं तथेत्याह ब्रह्माणममितौजसम् ॥ 049c
परां च प्रीतिमगमदुत्स्मयंश्च पिनाकधृत् । 050a
अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः ॥ 050c
ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत्तदा । 051a
शान्त्यर्थं सर्वभूतानां शृणु तच्चापि पुत्रक ॥ 051c
शीर्षाभितापो नागानां पर्वतानां शिलाजतु । 052a
अपां तु नीलिकां विद्धि निर्मोकं भुजगेषु च ॥ 052c
खोरकः सौरभेयाणामूषरं पृथिवीतले । 053a
पशूनामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् ॥ 053c
रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम् । 054a
नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मना ॥ 054c
अवीनां पित्तभेदश्च सर्वेषामिति नः श्रुतम् । 055a
शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः ॥ 055c
शार्दूलष्वथ धर्मज्ञ श्रमो ज्वर इहोच्यते । 056a
मानुषेषु तु धर्मज्ञ ज्वरो नामैष विश्रुतः ॥ 056c
मरणे जन्मनि तथा मध्ये चाविशते नरम् । 057a
एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः ॥ 057c
नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः । 058a
अनेन हि समाविष्टो वृत्रो धर्मभूतां वरः ॥ 058c
व्यजृम्भत ततः शक्रस्तस्मै वज्रमवासृजत् । 059a
प्रविश्य वज्रं वृत्रं च दारयामास भारत ॥ 059c
दारितश्च स वज्रेण महायोगी महासुरः । 060a
जगाम परमं स्थानं विष्णोरमिततेजसः ॥ 060c
विष्णुभक्त्या हि तेनेदं जगद्व्याप्तमभूत्पुरा । 061a
तस्माच्च निहतो युद्धे विष्णोः स्थानमवाप्तवान् ॥ 061c
इत्येष वृत्रमाश्रित्य ज्वरस्य महतो मया । 062a
विस्तरः कथितः पुत्र किमन्यत्प्रब्रवीमि ते ॥ 062c
इमां ज्वरोत्पत्तिमदीनमानसः पठेत्सदा यः सुसमाहितो नरः । 063a
विमुक्तरोगः स सुखी मुदा युतो लभेत कामान्स यथा मनीषितान् ॥ 063c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोननवत्यधिकद्विशततमोऽध्यायः ॥ 289 ॥

12-289-6 सिद्धं लोकेषु भारतेति ट. थ. पाठः ॥ 12-289-15 तस्थिरे चाचलोपमा इति ध. पाठः ॥ 12-289-21 ज्वलितैर्ज्वलनप्रभैरिति ट. थ. ध. पाठः ॥ 12-289-26 सर्वमेतदनुष्ठितमिति ट. ध. पाठः ॥ 12-289-28 प्रभवस्यधिको गुणैरिति ध. पाठः ॥ 12-289-32 सर्वलोकमहेश्वर इति ध. पाठः ॥ 12-289-36 आधाय मृगरूपम् इति ध. पाठः ॥ 12-289-40 ऊर्ध्वकेशोतिरिक्ताङ्ग इति थ. पाठः ॥ 12-289-44 हाहाभूते प्रवृत्ते तु नादे लोकभयङ्करे इति ट. ध. पाठः ॥ 12-289-52 शिलाजतु धातुविशेषः । नीलिका शैवालम् ॥ 12-289-53 खोरकः पशूनां पादरोगः ॥ 12-289-54 रन्ध्रागतम् अश्वगलरन्ध्रगतं मांसखण्डम् । रन्ध्रोद्रमनमश्वानामिति ट. थ. पाठः । रन्ध्रोद्भवश्च मत्स्यानामिति ध. पाठः ॥ 12-289-55 पित्तभेदश्च सर्वेषां प्राणिनामिति नः श्रुतमिति ट. ध. पाठः ॥