अध्यायः 288
भीष्मेण युधिष्ठिरम् प्रति शक्रकृतवृत्रसंहारकथनम् ॥ 1 ॥ तथा शक्रमाक्रान्तवत्या ब्रह्महत्याया अग्न्यादिषु ब्रह्मकृतविभजनकथनम् ॥ 2 ॥
भीष्म उवाच 001
वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः । 001a
अभवन्यानि लिङ्गानि शरीरे तानि मे शृणु ॥ 001c
ज्वलितास्योऽभवद्घोरो वैवर्ण्यं चागमत्परम् । 002a
गात्रकम्पश्च सुमहाञ्श्वासश्चाप्यभवन्महान् ॥ 002c
रोमहर्षश्च तीव्रोऽभून्निःश्वासश्च महान्नृप । 003a
शिवा चाशिवसङ्काशा तस्य वक्त्रात्सुदारुणा ॥ 003c
निष्पपात महाघोरा स्मृतिर्नष्टास्य भारत । 004a
उल्काश्च ज्वलितास्तस्य दीप्ताः पार्श्वे प्रपेदिरे ॥ 004c
गृध्राः कङ्का बलाकाश्च वाचोऽमुञ्चन्सुदारुणाः । 005a
वृत्रस्योपरि संहृष्टाश्चक्रवत्परिबभ्रमुः ॥ 005c
ततस्तं रथमास्थाय देवाप्यायित आहवे । 006a
वज्रोद्यतकरः शक्रस्तं दैत्यं प्रत्यवैक्षत ॥ 006c
अमानुषमथो नादं स मुमोच महासुरः । 007a
व्यजृम्भच्चैव राजेन्द्र तीव्रज्वरसमन्वितः ॥ 007c
अथास्य जृम्भतः शक्रस्ततो वज्रमवासृजत् । 008a
स वज्रः सुमहातेजा कालान्तकयमोपमः ॥ 008c
क्षिप्रमेव महाकायं वृत्रं दैत्यमपातयत् । 009a
ततो नादः समभवत्पुनरेव समन्ततः ॥ 009c
वृत्रं विनिहितं दृष्ट्वा देवानां भरतर्षभ । 010a
वृत्रं तु हत्वा मघवा दानवारिर्महायशाः ॥ 010c
वज्रेण विष्णुयुक्तेन दिवमेव समाविशत् । 011a
अथ वृत्रस्य कौरव्य शरीरादभिनिःसृता ॥ 011c
ब्रह्महत्या महाघोरा रौद्रा लोकभयावहा । 012a
करालदशना भीमा विकृता कृष्णपिङ्गला ॥ 012c
प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारत । 013a
कपालमालिनी चैव कृत्येव भरतर्षभ ॥ 013c
रुधिरार्द्रा च धर्मज्ञ चीरवल्कलवासिनी । 014a
साऽभिनिष्क्रम्य राजेन्द्र तादृग्रूपा भयावहा ॥ 014c
वज्रिणं मृगयामास तदा भरतसत्तम । 015a
कस्यचित्त्वथ कालस्य वृत्रहा कुरुनन्दन ॥ 015c
स्वर्गायाभिमुखः प्रायाल्लोकानां हितकाम्यया । 016a
सा विनिःसरमाणं तु दृष्ट्वा शक्रं महौजसम् ॥ 016c
कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत्तदा । 017a
स हि तस्मिन्समुत्पन्ने ब्रह्मवध्याकृते भये ॥ 017c
नलिन्या बिसमध्यस्थ उवासाब्दगणान्बहून् । 018a
अनुसृत्य तु यत्नात्स तया वै ब्रह्महत्यया ॥ 018c
तदा गृहीतः कौरव्य निस्तेजाः समपद्यत । 019a
तस्या व्यपोहने शक्रः परं यत्नं चकार ह ॥ 019c
न चाशकत्तां देवेन्द्रो ब्रह्मवध्यां व्यपोहितुम् । 020a
गृहीत एव तु तया देवेन्द्रो भरतर्षभ ॥ 020c
पितामहमुपागम्य शिरसा प्रत्यपूजयत् । 021a
ज्ञात्वा गृहीतं शक्रं स द्विजप्रवरवध्यया ॥ 021c
ब्रह्मा स चिन्तयामास तदा भरतसत्तम । 022a
तामुवाच महाबाहो ब्रह्मवध्यां पितामहः ॥ 022c
स्वरेण मधुरेणाथ सान्त्वयन्निव भारत । 023a
मुच्यतां त्रिदशेन्द्रोयं मत्प्रियं कुरु भामिनि ॥ 023c
ब्रूहि किं ते करोम्यद्य कामं किं त्वमिहेच्छसि ॥ 024ac
ब्रह्महत्योवाच 025
त्रिलोकपूजिते देवे प्रीते त्रैलोक्यकर्तरि । 025a
कृतमेव हि मन्यामि निवासं तु विधत्स्व मे ॥ 025c
त्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना । 026a
स्थापना वै सुमहती त्वया देव प्रवर्तिता ॥ 026c
प्रीते तु त्वयि धर्मज्ञ सर्वलोकेश्वर प्रभो । 027a
शक्रादपगमिष्यामि निवासं संविधत्स्व मे ॥ 027c
भीष्म उवाच 028
तथेति तां प्राह तदा ब्रह्मवध्यां पितामहः । 028a
उपायतः स शक्रस्य ब्रह्मवध्यां व्यपोहितुम् ॥ 028c
ततः स्वयम्भुवा ध्यातस्तत्र वह्निर्महात्मना । 029a
ब्रह्माणमुपसङ्गम्य ततो वचनमब्रवीत् ॥ 029c
प्राप्तोऽस्मि भगवन्देव त्वत्सकाशमनिन्दित । 030a
यत्कर्तव्यं मया देव तद्भवान्वक्तुमर्हति ॥ 030c
ब्रह्मोवाच 031
बहुधा विभजिष्यामि ब्रह्मवध्यामिमामहम् । 031a
शक्रस्याद्य विमोक्षार्थं चतुर्भागं प्रतीच्छ वै ॥ 031c
अग्निरुवाच 032
मम मोक्षस्य कोऽन्तो वै ब्रह्मन्ध्यायस्व वै प्रभो । 032a
एतदिच्छामि विज्ञातुं तत्वतो लोकपूजित ॥ 032c
ब्रह्मोवाच 033
यस्त्वां ज्वलन्तमासाद्य स्वयं वै मानवः क्वचित् । 033a
बीजौषधिरसैर्वह्ने न यक्ष्यति तमोवृतः ॥ 033c
तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति । 034a
ब्रह्मवध्या हव्यवाह व्येतु ते मानसो ज्वरः ॥ 034c
इत्युक्तः प्रतिजग्राह तद्वचो हव्यकव्यभुक् । 035a
पितामहस्य भगवांस्तथा च तदभूत्प्रभो ॥ 035c
ततो वृक्षौषधितृणं समाहूय पितामहः । 036a
इममर्थं महाराज वक्तुं समुपचक्रमे ॥ 036c
'इयं पुत्रादनुप्राप्ता ब्रह्महत्या महाभया । 037a
पुरुहूतं चतुर्थांशमस्या यूयं प्रतीच्छत ॥' 037c
ततो वृक्षौषधितृणं तथैवोक्तं यथातथम् । 038a
व्यथितं वह्निवद्राजन्ब्रह्माणमिदमब्रवीत् ॥ 038c
अस्माकं ब्रह्मवध्यायाः कोऽन्तो लोकपितामह । 039a
स्वभावनिहतानस्मान्न पुनर्हन्तुमर्हसि ॥ 039c
वयमग्निं तथा शीतं वर्षं च पवनेरितम् । 040a
सहामः सततं देव तथा च्छेदनभेदने ॥ 040c
ब्रह्मवध्यामिमामद्य भवतः शासनाद्वयम् । 041a
ग्रहीष्यामस्त्रिलोकेश मोक्षं चिन्तयतां भवान् || 041c
ब्रह्मोवाच 042
पर्वकाले तु सम्प्राप्ते यो वै छेदनभेदनम् । 042a
करिष्यति नरो मोहात्तमेषाऽनुगमिष्यति ॥ 042c
भीष्म उवाच 043
ततो वृक्षौषधितृणमेवमुक्तं महात्मना । 043a
ब्रह्माणमभिसम्पूज्य जगामाशु यथागतम् ॥ 043c
आहूयाप्सरसो देवस्ततो लोकपितामहः । 044a
वाचा मधुरया प्राह सान्त्वयन्निव भारत ॥ 044c
इयमिन्द्रादनुप्राप्ता ब्रह्मवध्या वराङ्गनाः । 045a
चतुर्थमस्या भागांशं मयोक्ताः सम्प्रतीच्छत ॥ 045c
अप्सरस ऊचुः 046
ग्रहणे कृतबुद्धीनां देवेश तव शासनात् । 046a
मोक्षं समयतोऽस्माकं चिन्तयस्व पितामह ॥ 046c
ब्रह्मोवाच 047
रजस्वलासु नारीषु यो वै मैथुनमाचरेत् । 047a
तमेषा यास्यति क्षिप्रं व्येतु वो मानसो ज्वरः ॥ 047c
भीष्म उवाच 048
तथेति हृष्टमनस इत्युक्त्वाऽऽप्सरसां गणाः । 048a
स्वानि स्थानानि सम्प्राप्य रेमिरे भरतर्षभ ॥ 048c
ततस्त्रिलोककृद्देवः पुनरेव महातपाः । 049a
अथः सञ्चिन्तयामास ध्यातास्ताश्चाप्यथागमन् ॥ 049c
तास्तु सर्वाः समागम्य ब्रह्माणममितौजसम् । 050a
इदमूचुर्वचो राजन्प्रणिपत्य पितामहम् ॥ 050c
इमाः स्म देव सम्प्राप्तास्त्वत्सकाशमरिन्दम । 051a
शासनात्तव लोकेश समाज्ञापय नः प्रभो ॥ 051c
ब्रह्मोवाच 052
इयं वृत्रादनुप्राप्ता पुरुहूतं महाभया । 052a
ब्रह्मवध्या चतुर्थांशमस्या यूयं प्रतीच्छत ॥ 052c
आप ऊचुः 053
एवं भवतु लोकेश यथा वदसि नः प्रभो । 053a
मोक्षं समयतोऽस्माकं सञ्चिन्तयितुमर्हसि ॥ 053c
त्वं हि देवेश सर्वस्य जगतः परमा गतिः । 054a
कोऽन्यः प्रसाद्यो हि भवेद्यः कृच्छ्रान्नः समुद्धरेत् ॥ 054c
ब्रह्मोवाच 055
अल्पा इति मतिं कृत्वा यो नरो बुद्धिमोहितः । 055a
श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति ॥ 055c
तमियं यास्यति क्षिप्रं तत्रैव च निवत्स्यति । 056a
तथा वो भविता मोक्ष इति सत्यं ब्रवीमि वः ॥ 056c
ततो विमुच्य देवेन्द्रं ब्रह्मवध्या युधिष्ठिर । 057a
यथा निसृष्टं तं वासमगमद्देवशासनात् ॥ 057c
एवं शक्रेण सम्प्राप्ता ब्रह्मवध्या जनाधिप । 058a
पितामहमनुज्ञाप्य सोऽश्वमेधमकल्पयत् ॥ 058c
श्रूयते च महाराज सम्प्राप्ता वासवेन वै । 059a
ब्रह्मवध्या ततः शुद्धिं हयमेधेन लब्धवान् ॥ 059c
समवाप्य श्रियं देवो हत्वाऽरींश्च सहस्रशः । 060a
प्रहर्षमतुलं लेभे वासवः पृथिवीपते ॥ 060c
वृत्रस्य रुधिराच्चैव बुद्बुदाः पार्थ जज्ञिरे । 061a
द्विजातिभिरभक्ष्यास्ते दीक्षितैश्च तपोधनैः ॥ 061c
सर्वावस्थं त्वमप्येषां द्विजातीनां प्रियं कुरु । 062a
इमे हि भूतले देवाः प्रथिताः कुरुनन्दन ॥ 062c
एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान्महासुरः । 063a
उपायपूर्वं निहतो वृत्रो ह्यमिततेजसा ॥ 063c
एवं त्वमपि कौन्तेय पृथिव्यामपराजितः । 064a
भविष्यसि यथा देवः शतक्रतुरमित्रहा ॥ 064c
ये तु शक्रकथां दिव्यामिमां पर्वसुपर्वसु । 065a
विप्रमध्ये वदिष्यन्ति न ते प्राप्स्यन्ति किल्बिषम् ॥ 065c
इत्येतद्वृत्रमाश्रित्य शक्रस्यात्यद्भुतं महत् । 066a
कथितं कर्म ते तात किं भूयः श्रोतुमिच्छसि ॥ 066c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टाशीत्यधिकद्विशततमोऽध्यायः ॥ 288 ॥
12-288-4 स्मृतिः सा तस्य भारतेति झ. ध. पाठः ॥ 12-288-11 बिसमेव समाविशदिति ध. पाठः ॥ 12-288-13 कृशा च भरतर्षभेति थ. ध. पाठः ॥ 12-288-14 चीरवस्त्रा विभीषणेति थ. पाठः ॥ 12-288-16 वसान्निस्सरमाणं त्विति ध. पाठः । जग्राह वध्या देवेन्द्रमिति झ. पाठः ॥ 12-288-18 बिसमध्यस्थो बभूवाब्दगणानिति थ. ध. पाठः ॥ 12-288-19 निश्चेष्ठः समपद्यतेति, तस्याश्चापनये शक्र इति थ. पाठः ॥ 12-288-31 शक्रास्याधविमोक्षार्थमिति झ. पाठः ॥ 12-288-33 यः आहिताग्निरधिकारी बीजैः पुरोडाशादिना ओषधिरसैः सोमेन पयआदिभिर्वा ॥ 12-288-39 दैवेनाभिहतानस्मानिति झ. पाठः ॥ 12-288-49 ततस्तु लोककृद्देव इति थ. पाठः ॥ 12-288-31 शिखण्डाः पार्थ जज्ञिरे इति झ. पाठः ॥