अध्यायः 287
भीष्मेण युधिष्ठिरम् प्रति शक्रवृत्रयुद्धवर्णनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
अहो धर्मिष्ठता तस्य वृत्रस्यामिततेजसः । 001a
यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी ॥ 001c
दुर्विज्ञेयमिदं तस्य विष्णोरमिततेजसः । 002a
कथं वा राजशार्दूल पदं तु ज्ञातवानसौ ॥ 002c
भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत । 003a
भूयश्च मे समुत्पन्ना बुद्धिरव्यक्तदर्शना ॥ 003c
कथं विनिहतो वृत्रः शक्रेण भरतर्षभ । 004a
धार्मिको विष्णुभक्तश्च तत्त्वज्ञश्च तदन्वये ॥ 004c
एतन्मे संशयं ब्रूहि पृच्छते भरतर्षभ । 005a
वृत्रः स राजशार्दूल यथा शक्रेण निर्जितः ॥ 005c
यथा चैवाभवद्युद्धं तच्चाचक्ष्व पितामह । 006a
विस्तरेण महाबाहो परं कौतूहलं हि मे ॥ 006c
भीष्म उवाच 007
रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा । 007a
ददर्शाथाग्रतो वृत्रं धिष्ठितं पर्वतोपमम् ॥ 007c
योजनानां शतान्यूर्ध्वं पञ्चोच्छ्रितमरिन्दम । 008a
शतानि विस्तरेणाथ त्रीणि चाभ्यधिकानि वै ॥ 008c
तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम् । 009a
वृत्रस्य देवाः सन्त्रस्ता न शान्तिमुपलेभिरे ॥ 009c
शक्रस्य तु तदा राजन्नूरुस्तम्भो व्यजायत । 010a
भयाद्वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम् ॥ 010c
ततो नादः समभवद्वादित्राणां च निःस्वनः । 011a
देवासुराणां सर्वेषां तस्मिन्युद्धे ह्युपस्थिते ॥ 011c
अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमवस्थितम् । 012a
न सम्भ्रमो न भीः काचिदास्था वा समजायत ॥ 012c
ततः समभवद्युद्धं त्रैलोक्यस्य भयङ्करम् । 013a
शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः ॥ 013c
असिभिः पट्टसैः शूलैः शक्तितोमरमुद्गरैः । 014a
शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः ॥ 014c
अस्त्रैश्च विविर्धैर्दिव्यैः पावकोल्काभिरेव च । 015a
देवासुरैस्ततः सैन्यैः सर्वमासीत्समाकुलम् ॥ 015c
पितामहपुरोगाश्च सर्वे देवगणास्तदा । 016a
ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन् ॥ 016c
विमानाग्र्यैर्महाराज सिद्धाश्च भरतर्षभ । 017a
गन्धर्वाश्च विमानाग्रैरप्सरोभिः समागमन् ॥ 017c
ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभृतां वरः । 018a
अश्मवर्षेण देवेन्द्रं सर्वतः समवाकिरत् ॥ 018c
ततो देवगणाः क्रुद्धाः सर्वतः शरवृष्टिभिः । 019a
अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे ॥ 019c
वृत्रस्तु कुरुशार्दूल महामायो महाबलः । 020a
मोहयामास देवेन्द्रं मायायुद्धेन सर्वशः ॥ 020c
तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः । 021a
रथन्तरेण तं तत्र वसिष्ठः समबोधयत् ॥ 021c
वसिष्ठ उवाच 022
देवश्रेष्ठोऽसि देवेन्द्र दैत्यासुरनिबर्हण । 022a
त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि ॥ 022c
एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्पतिः । 023a
सोमश्च भगवान्देवः सर्वे च परमर्षयः ॥ 023c
'समुद्विग्नं समीक्ष्य त्वां स्वस्तीत्यूचुर्जयाय ते ।' 024a
मा कार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा । 024c
आर्यां युद्धे मतिं कृत्वा जहि शत्रून्सुराधिप ॥ 024e
एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः । 025a
निरीक्षते त्वां भगवांस्त्यज मोहं सुराधिप ॥ 025c
एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः । 026a
स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै ॥ 026c
भीष्म उवाच 027
एवं सम्बोध्यमानस्य वसिष्ठेन महात्मना । 027a
अतीव वासवस्यासीद्बलमुत्तमतेजसः ॥ 027c
ततो बुद्धिमुपागम्य भगवान्पाकशासनः । 028a
योगेन महता युक्तस्तां मायां व्यपकर्षत ॥ 028c
ततोऽङ्गिरःसुतः श्रीमांस्ते चैव सुमहर्षयः । 029a
दृष्ट्वा वृत्रस्य विक्रान्तुमुपागम्य महेश्वरम् ॥ 029c
ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया । 030a
ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः ॥ 030c
समाविशत्तदा रौद्रं वृत्रं लोकपतिं तदा । 031a
विष्णुश्च भगवान्देवः सर्वलोकाभिपूजितः ॥ 031c
ऐन्द्रं समाविशुद्वज्रं लोकसंरक्षणे रतः । 032a
ततो बृहस्पतिर्धीमानुपागम्य शतक्रतुम् । 032c
वसिष्ठश्च महातेजाः सर्वे च परमर्षयः ॥ 032e
ते समासाद्य वरदं वासवं लोकपूजितम् । 033a
ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो ॥ 033c
महेश्वर उवाच 034
एष वृत्रो महाञ्शक्रे बलेन महता वृतः । 034a
विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः ॥ 034c
तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम् । 035a
जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर ॥ 035c
अनेन हि तपस्तप्तं बलार्थममराधिप । 036a
षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ ॥ 036c
महत्त्वं योगिनां चैव महामायत्वमेव च । 037a
महाबलत्वं च तथा तेजश्चाग्र्यं सुरेश्वर ॥ 037c
एतत्त्वां मामकं तेजः समाविशति वासव । 038a
वृत्रमेवं त्ववध्यं तं वज्रेण जहि दानवम् ॥ 038c
शक्र उवाच 039
भगवंस्त्वत्प्रसादेन दितिजं सुदुरासदम् । 039a
वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ ॥ 039c
भीष्म उवाच 040
आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे । 040a
देवतानामृषीणां च हर्षान्नादो महानभूत् ॥ 040c
ततो दुन्दुभयश्चैव शङ्ख्याश्च सुमहास्वनाः । 041a
मुरजा डिण्डिभाश्चैव प्रावाद्यन्त सहस्रशः ॥ 041c
असुराणां तु सर्वेषां स्मृतिलोपो महानभूत् । 042a
मायानाशश्च बलवान्क्षणेन समपद्यत ॥ 042c
तमाविष्टमथो ज्ञात्वा ऋषयो देवतास्तथा । 043a
स्तुवन्तः शक्रमीशानं तथा प्राचोदयन्नपि ॥ 043c
रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः । 044a
ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्दृशम् ॥ 044c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्ताशीत्यधिकद्विशततमोऽध्यायः ॥ 287 ॥
12-287-21 अथान्तरे च तं तत्रेति ध. पाठः ॥ 12-287-22 सुरारातिनिबर्हणेति थ. पाठः ॥ 12-287-24 कश्चिदेव नरो यथेति ध. पाठः ॥ 12-287-25 एष देवगुरुस्त्वद्येति ध. पाठः ॥ 12-287-26 स्तुवन्त्यात्मजयाय वै इति ध. पाठः ॥ 12-287-34 बहुमायासु विश्रुत इति थ. पाठः ॥ 12-287-42 धृतिलोपो महानभूत् इति थ. पाठः ॥