अध्यायः 286
भीष्मेण युधिष्ठिरम् प्रति वृत्राय सनत्कुमारोक्तविष्णुमाहात्म्यानुवादः ॥ 1 ॥
उशनोवाच 001
नमस्तस्मै भगवते देवाय प्रभविष्णवे । 001a
यस्य पृथ्वी तलं तात साकाशं बाहुगोचरः ॥ 001c
मूर्धा यस्य त्वनन्तं च स्थानं दानवसत्तम । 002a
तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् ॥ 002c
भीष्म उवाच 003
तयोः संवदतोरेवमाजगाम महामुनिः । 003a
सनत्कुमारो धर्मात्मा संशयच्छेदनाय वै ॥ 003c
स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा । 004a
निषसादासने राजन्महार्हे मुनिपुङ्गवः ॥ 004c
तमासीनं महाप्रज्ञमुशना वाक्यमब्रवीत् । 005a
ब्रूह्यस्मै दानवेन्दाय विष्णोर्माहात्म्यमुत्तमम् ॥ 005c
सनत्कुमारस्तु वचः श्रुत्वा प्राह वचोऽर्थवत् । 006a
विष्णोर्माहात्म्यसंयुक्तं दानवेन्द्राय धीमते ॥ 006c
शृणु सर्वमिदं दैत्य विष्णोर्माहात्म्यमुत्तमम् । 007a
विष्णौ जगत्स्थितं सर्वमिति विद्धि परन्तप ॥ 007c
अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत । 008a
अवत्येष महाबाहुर्भूतग्रामं चराचरम् । 008c
एष चाक्षिपते काले काले च सृजते पुनः ॥ 008e
नैष दानव ते शक्यस्तपसा नैव चेज्यया । 009a
सम्प्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते ॥ 009c
बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः । 010a
निर्मलीकुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते ॥ 010c
यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत् । 011a
बहुशोऽतिप्रयत्नेन महताऽऽत्मकृतेन ह ॥ 011c
तद्वज्जातिशतैर्जीवः शुद्ध्यतेऽल्पेन कर्मणा । 012a
यत्नेन महता चैयवाप्येकजातौ विशुद्ध्यते ॥ 012c
लीलयाऽल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः । 013a
बहुयत्नेन महता दोषनिर्हरणं तथा ॥ 013c
यथा चाल्पेन माल्येन वासितं तिलसर्षपम् । 014a
न मुञ्चति स्वकं गन्धं तथा सूक्ष्मस्य दर्शनम् ॥ 014c
तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः । 015a
विमुच्य तं स्वकं गन्धं माल्यगन्धेऽवतिष्ठते ॥ 015c
एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु । 016a
बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन ह ॥ 016c
कर्मणा स्वेन रक्तानि विरक्तानि च दानव । 017a
यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु ॥ 017c
यथावत्सम्प्रवर्तन्ते यस्मिंस्तिष्ठति चानिशम् । 018a
तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु ॥ 018c
अनादिनिधनः श्रीमान्हरिर्नारायणः प्रभुः । 019a
देवः सृजति भूतानि स्थावराणि चराणि च ॥ 019c
एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च । 020a
एकादश विकारात्मा जगत्पिबति रश्मिभिः ॥ 020c
पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च । 021a
बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च ॥ 021c
तस्य तेजोमयः सूर्यो मनश्चन्द्रमसि स्थितम् । 022a
बुद्धिर्ज्ञानगता नित्यं रसस्त्वप्सु प्रवर्तते ॥ 022c
भ्रुवोरनन्तरास्तस्य ग्रहा दानवसत्तम । 023a
नक्षत्रचक्रं नेत्रं च आस्यमग्निं च दानव । 023c
तं विश्वभूतं विश्वादिं परमं विद्धि चेश्वरम् ॥ 023e
रजस्तमश्च सत्वं च विद्धि नारायणात्मकम् । 024a
सोश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः ॥ 024c
अकर्मणः फलं चैव स एव परमोऽव्ययः । 025a
छन्दांसि यस्य रोमाणि ह्यक्षरं च सरस्वती ॥ 025c
बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः । 026a
स ब्रह्मपरमो धर्मस्तपश्च सदसच्च सः ॥ 026c
श्रोत्रशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश्च सः । 027a
पितामहश्च रुद्रश्च सोऽश्विनौ स पुरन्दरः ॥ 027c
मित्रोऽथ वरुणश्चैव यमोऽथ धनदस्तथा । 028a
ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम् । 028c
एकस्य विद्धि देवस्य सर्वं जगदिदं वशे ॥ 028e
नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदन्त्यपि । 029a
जन्तुः पश्यति विज्ञानात्ततः सत्वं प्रकाशते ॥ 029c
संहारविक्षेपसहस्रकोटीस्तिष्ठन्ति जीवाः प्रचरन्ति चान्ये । 030a
प्रजाविसर्गस्य च पारिमाण्यं वापीसहस्राणि बहूनि दैत्य ॥ 030c
वाप्यः पुनर्योजनविस्तृतास्ताः क्रोशं च गम्भीरतयाऽवगाढाः । 031a
आयामतः पञ्चशताश्च सर्वाः प्रत्येकशो योजनतः प्रवृद्धाः ॥ 031c
वाप्या जलं क्षिप्यति वालकोट्या त्वह्ना सकृच्चाप्यथ न द्वितीयम् । 032a
तासां क्षये विद्धि परं विसर्गं संहारमेकं च तथा प्रजानाम् ॥ 032c
षड्जीववर्णाः परमं प्रमाणं कृष्णो धूम्रो नीलमथास्य मध्यम् । 033a
रक्तं पुनः सह्यतरं सुखं तु हारिद्रवर्णं सुसुखं च शुक्लम् ॥ 033c
परं तु शुक्लं विमलं विशोकं गतक्लमं सिद्ध्यति दानवेन्द्र । 034a
गत्वा तु योनिप्रभवाणि दैत्य सहस्रशः सिद्धिमुपैति जीवः ॥ 034c
गतिं च यां दर्शनमाह देवो गत्वा शुभं दर्शनमेव चापि । 035a
गतिः पुनर्वर्णकृता प्रजानां वर्णस्तथा कालकृतोऽसुरेन्द्र ॥ 035c
शतं सहस्राणि चतुर्दशेह परा गतिर्जीवगणस्य दैत्य । 036a
आरोहणं तत्कृतमेव विद्धि स्थानं तथा निःसरणं च तेषाम् ॥ 036c
'योऽस्मादथ भ्रश्यति कालयोगात्कृष्णे वर्णे तिष्ठति सर्वकृष्टे । 037a
अतिप्रसक्तो निरयाच्च दैत्य ततस्ततः सम्परिवर्तते च ॥' 037c
कृष्णस्य वर्णस्य गतिर्निकृष्टा स मज्जते नरके पच्यमानः । 038a
स्थानं तथा दुर्गतिभिस्तु तस्य प्रजाविसर्गान्सुबहून्वदन्ति ॥ 038c
शतं सहस्राणि ततश्चरित्वा प्राप्नोति वर्णं हरितं तु पश्चात् । 039a
स चैव तस्मिन्निवसत्यनिशो युगक्षयं तमसा संवृतात्मा ॥ 039c
स वै यदा सत्वगुणेन युक्तस्तमो व्यपोहन्घटते स्वबुद्ध्या । 040a
स लोहितं वर्णमुपैति नीलान्मनुष्यलोके परिवर्तते च ॥ 040c
स तत्र संहारविसर्गमेकं स्वकर्मजैर्बन्धनैः क्लिश्यमानः । 041a
ततः स हारिद्रमुपैति वर्णं संहारविक्षेपशते व्यतीते ॥ 041c
हारिद्रवर्णस्तु प्रजाविसर्गात्सहस्रशस्तिष्ठति सञ्चरन्वै । 042a
अविप्रमुक्तो निरये च दैत्य ततः सहस्राणि दशापराणि ॥ 042c
गतीः सहस्राणि च पञ्च तस्य चत्वारि संवर्तकृतानि चैव । 043a
विमुक्तमेनं निरयाच्च विद्धि सर्वेषु चान्येषु च सम्भवेषु ॥ 043c
स देवलोके विहरत्यभीक्ष्णं ततश्च्युतो मानुषतामुपैति | 044a
संहारविक्षेपशतानि चाष्टौ मर्त्येषु तिष्ठन्नमृतत्वमेति ॥ 044c
सोऽस्मादथ भ्रश्यति कालयोगात्कृष्णे तले तिष्ठति सर्वकृष्टे । 045a
यथा त्वयं सिध्यति जीवलोकस्तत्तेऽभिधास्याम्यसुरप्रवीर ॥ 045c
दैवानि स व्यूहशतानि सप्त रक्तो हरिद्रोऽथ तथैव शुक्लः । 046a
संश्रित्य सन्धावति शुक्लमेतमष्टावरानर्च्यतमान्स लोकान् || 046c
अष्टौ च षष्टिं च शतानि चैव मनोविरुद्धानि महाद्युतीनाम् । 047a
शुक्लस्य वर्णस्य परा गतिर्या त्रीण्येव रुद्धानि महानुभाव ॥ 047c
संहारविक्षेपमनिष्टमेकं चत्वारि चान्यानि वसत्यनीशः । 048a
षष्ठस्य वर्णस्य परा गतिर्या सिद्धावसिद्धस्य गतक्लमस्य ॥ 048c
सप्तोत्तरं तत्र वसत्यनीशः संहारविक्षेपशतं सशेषः । 049a
संहारविक्षेपमनिष्टमेकं चत्वारि चान्यानि वसत्यनीशः । 049c
तस्मादुपावृत्य मनुष्यलोके ततो महान्मानुषतामुपैति ॥ 049e
तस्मादुपावृत्य ततः क्रमेण सोग्रेण सन्तिष्ठति भूतसर्गम् । 050a
स सप्तकृत्वश्च परैति लोकान्संहारविक्षेपकृतप्रवासः ॥ 050c
सप्तैव संहारमुपप्लवानि सम्भाव्य सन्तिष्ठति जीवलोके । 051a
ततोऽव्ययं स्थानमनन्तमेति देवस्य विष्णोरथ ब्रह्मणश्च । 051c
शेषस्य चैवाथ नरस्य चैव देवस्य विष्णोः परमस्य चैव ॥ 051e
संहारकाले परदिग्धकाया ब्रह्माणमायान्ति सदा प्रजाहि । 052a
चेष्टात्मनो देवगणाश्च सर्वे ये ब्रह्मलोके ह्यमराः स्म तेऽपि ॥ 052c
प्रजानिसर्गे तु स शेषकाले स्थानानि स्वान्येव सरन्ति जीवाः । 053a
निःशेषतस्तत्पदं वान्ति चान्ते सर्वे देवा ये सदृशा मनुष्याः ॥ 053c
ये तु च्युताः सिद्धलोकात्क्रमेण तेषां गतिं यान्ति यथाऽऽनुपूर्व्या । 054a
जीवाः परे तद्बलवेषरूपाः स्वकं विधिं यान्ति विपर्ययेण ॥ 054c
स यावदेवास्ति सशेषभुक्तिःप्रजाश्च देव्यौ च तथैव शुक्ले । 055a
तावत्तदङ्गेषु विशुद्धभावः संयम्य पञ्चेन्द्रियरूपमेतत् ॥ 055c
शुद्धां गतिं तां परमां प्रयाति शुद्धेन नित्यं मनसा विचिन्वन् । 056a
ततोऽव्ययं स्थानमुपैति ब्रह्म दुष्प्रापमन्येन स शाश्वतं वै । 056c
इत्येतदाख्यातमहीनसत्व नारायणस्येह बलं मया ते ॥ 056e
वृत्र उवाच 057
एवं गते मे न विषादोस्ति कश्चित्सम्यक्च पश्यामि वचस्तथैतत् । 057a
श्रुत्वा तु ते वाचमदीनसत्व विकल्मषोस्म्यद्य तथा विपाप्मा ॥ 057c
प्रवृत्तमेतद्भगवन्महर्षे महाद्युतेश्चक्रमनन्तवीर्यम् । 058a
विष्णोरनन्तस्य सनातनं तत्स्थानं सर्गा यत्र सर्वे प्रवृत्ताः । 058c
स वै महात्मा पुरुषोत्तमो वै तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितम् ॥ 058e
भीष्म उवाच 059
एवमुक्त्वा स कौन्तेय वृत्रः प्राणानवासृजत् । 059a
योजयित्वा तथाऽऽत्मानं परं स्थानमवाप्तवान् ॥ 059c
युधिष्ठिर उवाच 060
अयं स भगवान्देवः पितामह जनार्दनः । 060a
सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा ॥ 060c
भीष्म उवाच 061
मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा । 061a
तत्स्थः सृजति तान्भावानात्मरूपान्महामनाः ॥ 061c
तुरीयांशेन तस्येमं विद्धि केशवमच्युतम् । 062a
'तुरीयांशेन ब्रह्माणं तस्य विद्धि महात्मनः ।' 062c
तुरीयार्धेन लोकांस्त्रीन्भावयत्येव बुद्धिमान् ॥ 062e
अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते । 063a
स शेते भगवानप्सु योऽसावतिबलः प्रभुः । 063c
तान्विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान् ॥ 063e
सर्वाण्यशून्यानि करोत्यनन्तः सनातनः सञ्चरते च लोकान् । 064a
स चानिरुद्धः सृजते महात्मा तत्स्थं जगत्सर्वमिदं विचित्रम् ॥ 064c
युधिष्ठिर उवाच 065
वृत्रेण परमार्थज्ञ दृष्टा मन्येत्मनो गतिः । 065a
सुखात्तस्मात्स सुखितो न शोचति पितामह ॥ 065c
शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ । 066a
तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह ॥ 066c
हारिद्रवर्णे रक्ते वा वर्तमानस्तु पार्थिव । 067a
तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः ॥ 067c
वयं तु भृशमापन्ना रक्ताः कष्टाः सुखेऽसुखे । 068a
कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमामथ ॥ 068c
भीष्म उवाच 069
शुद्धाभिजनसम्पन्नाः पाण्डवाः संशितव्रताः । 069a
विहत्य देवलोकेषु पुनर्मानुषमेष्यथ ॥ 069c
प्रजाविसर्गं च सुखेन लोके प्रेत्यान्येदेहेषु सुखानि भुक्त्वा । 070a
सुखेन संयास्यथ सिद्धसङ्ख्यां मा वो भयं भवतु न वोऽस्तु पापम् ॥ 070c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षडशीत्यधिकद्विशततमोऽध्यायः ॥ 286 ॥
12-286-1 तलमधोभागः । साकाशमाकाशसहितं सर्वमुपरितनम् । बाहुगोचरो मध्यस्थमित्यर्थः । यस्य पृथ्वीतलं पादमाशा वै बहुगोचरा इति ट. थ. पाठः ॥ 12-286-2 अनन्तं स्थानं मोक्षः ॥ 12-286-9 नैष दानकृता शक्य इति थ. पाठः ॥ 12-286-11 महताल्पकृतेन चेति ध. पाठः ॥ 12-286-12 जातिशतैर्जन्मशतैः एकजातौ एकजन्मन्यपि ॥ 12-286-22 अप्सु प्रतिष्ठित इति झ. पाठः ॥ 12-286-23 नेत्राभ्यां पादयोर्भूश्च दानवेति झ. पाठः ॥ 12-286-24 फलं तातेति झ. पाठः ॥ 12-286-29 ततो ब्रह्म प्रकाशते इति झ. पाठः ॥ 12-286-30 वापीसहस्राणि ततोऽप्यशीतिः इति ध. पाठः ॥ 12-286-31 योजनविस्तृताश्चेति थ. पाठः ॥ 12-286-34 गत्वाशुयोनिप्रभावानतीत्येति ध. पाठः ॥ 12-286-35 दर्शनमापजीव इति थ. ध. पाठः ॥ 12-286-36 जीवगुणस्य दैत्येति झ. थ. पाठः ॥ 12-286-38 प्रजानिसर्गात्सुबहून्वदन्तीति ट. थ. पाठः ॥ 12-286-39 युगक्षये तपसेति झ. पाठः ॥ 12-286-44 तिष्ठन्नमलत्वमेतीति ट.थ. पाठः ॥ 12-286-50 स्वर्गे सुखं तिष्ठति भूतसर्गमिति ट. पाठः । विक्षेपकृतप्रभाव इति झ. पाठः ॥ 12-286-51 सिद्धिलोके इति थ. ध. पाठः । सन्तिष्ठति सर्वलोके इति ट. पाठः ॥ 12-286-53 निश्शेषा वै तत्पदं यान्तति ट. थ. ध. पाठः ॥ 12-286-55 सशेषभाव इति ट. पाठः । दिव्याश्च तथैव शुक्ले इति ध. पाठः । तावत्तरत्येष विशुद्धभाव इति ध. पाठः ॥ 12-286-56 दुष्प्रापमभ्येति स इति झ. ट. थ. पाठः ॥ 12-286-61 महादेवो भगवान्स्वेन तेजसेति झ. पाठः । नानारूपान्महामना इति झ. ट. थ. पाठः ॥ 12-286-64 सनत्कुमारश्चरते चेति ध. पाठः ॥ 12-286-65 मन्ये शुभा गतिरिति थ. पाठः ॥ 12-286-66 नावर्तते पुनरिति ध. पाठः ॥ 12-286-68 रक्ताः काममुखेषु वै इति ध. पाठः । दुःखसुखेऽसुखे इति झ. पाठः ॥ 12-286-70 प्रत्येत्य देवेषु सुखानि भुक्त्वेति झ. पाठः । मा वो भयं भूद्विमलाः स्थ सर्वे इति च. झ. पाठः ॥