अध्यायः 285

भीष्मेण युधिष्ठिरम् प्रति वृत्रगीतानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
धन्याधन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत । 001a
न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह ॥ 001c
लोकसम्भावितैर्दुःखं यत्प्राप्तं कुरुसत्तम । 002a
प्राप्य जातिं मनुष्येषु देवैरपि पितामह ॥ 002c
कदा वयं करिष्यामः सन्न्यासं दुःखभेषजम् । 003a
दुःखमेतच्छरीराणां धारणं कुरुसत्तम ॥ 003c
विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः । 004a
इन्द्रियार्थैर्गुणैश्चैव अष्टाभिश्च पितामह ॥ 004c
न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः । 005a
कदा वयं गमिष्यामो राज्यं हित्वा परन्तप ॥ 005c
भीष्म उवाच 006
नास्त्यनन्तं महाराज सर्वं सङ्ख्यानगोचरम् । 006a
पुनर्भावोपि सङ्ख्यातो नास्ति किञ्चिदिहाचलम् ॥ 006c
न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः । 007a
उद्योगादेव धर्मज्ञाः कालेनैव गमिष्यथ ॥ 007c
नेशेऽयं सततं देही नृपते पुण्यपापयोः । 008a
तत एव समुत्थेन तमसा रुध्यतेऽपि च ॥ 008c
यथाञ्जनमयो वायुः पुनर्मानःशिलं रजः । 009a
अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः ॥ 009c
तथा कर्मफलैर्देही रञ्जितस्तमसा वृतः । 010a
विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते ॥ 010c
ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः । 011a
व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम् ॥ 011c
अयत्नसाध्यं मुनयो वदन्ति ये चापि मुक्तास्तदुपासितव्याः । 012a
त्वया च लोकेन च सामरेण तस्मान्न शाम्यन्ति महर्षिसङ्घाः ॥ 012c
अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप । 013a
यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम् ॥ 013c
निर्जितेनासहायेन हृतराज्येन भारत । 014a
अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम् ॥ 014c
भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत् । 015a
कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव ॥ 015c
वृत्र उवाच 016
सत्येन तपसा चैव विदित्वा सङ्क्षयं ह्यहम् । 016a
न शोचामि न हृष्यामि भूतानामागतिं गतिम् ॥ 016c
कालसञ्चोदिता जीवा मज्जन्ति नरकेऽवशाः । 017a
परिहृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः ॥ 017c
क्षपयित्वा तु तं कालं गणितं कालचोदिताः । 018a
सावशेषेण कालेन सन्धावन्ति पुनःपुनः ॥ 018c
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च । 019a
निर्गच्छन्त्यवशा जीवाः कालबन्धनबन्धनाः ॥ 019c
एवं संसरमाणानि ह्यहं भूतानि दृष्टवान् । 020a
यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम् ॥ 020c
तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च । 021a
सुखदुःखे प्रिये द्वेष्ये चरित्वा पूर्वमेव च ॥ 021c
कृतान्तविधिसंयुक्तः सर्वो लोकः प्रपद्यते । 022a
गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा ॥ 022c
कालसङ्ख्यानसङ्ख्येयं सृष्टिस्थितिपरायणम् । 023a
तं भाषमाणं भगवानुशना प्रत्यभाषत । 023c
इमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषसे ॥ 023e
वृत्र उवाच 024
प्रत्यक्षमेतद्भवतस्तथाऽन्येषां मनीषिणाम् । 024a
मया यज्जयलुब्धेन पुरा तप्तं महत्तपः ॥ 024c
गन्धानादाय भूतानां रसांश्च विविधानपि । 025a
अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा ॥ 025c
ज्वालामालापरिक्षिप्तो वैहायसगतिस्तथा । 026a
अजेयः सर्वभूतानामासं नित्यमपेतभीः ॥ 026c
ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः । 027a
धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम् ॥ 027c
युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना । 028a
ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः ॥ 028c
वैकुण्ठः पुरुषोऽनन्तः शुक्लो विष्णुः सनातनः । 029a
मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः ॥ 029c
नूनं तु तस्य तपसः सावशेषं ममास्ति वै । 030a
यदहं प्रष्टुमिच्छामि भवन्तं कर्मणः फलम् ॥ 030c
ऐश्वर्यं वै महद्ब्रह्मन्वर्णे कस्मिन्प्रतिष्ठितम् । 031a
निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम् ॥ 031c
भवन्ति कस्माद्भूतानि प्रवर्तन्ते यथा पुनः । 032a
किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः ॥ 032c
केन वा कर्मणा शक्यमथ ज्ञानेन केन वा । 033a
ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि ॥ 033c
इतीदमुक्तः स मुनिस्तदानीं प्रत्याह यत्तच्छृणु राजसिंह । 034a
मयोच्यमानं पुरुषर्षभ त्वमनन्यचित्तः सह सोदरीयैः ॥ 034c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चाशीत्यधिकद्विशततमोऽध्यायः ॥ 285 ॥

12-285-2 देवैर्धर्मादिभिः । जातिं जन्म ॥ 12-285-3 सुखसञ्ज्ञिकमिति ध. पाठः ॥ 12-285-5 व्रजन्ति येषु न भवमिति ध. पाठः ॥ 12-285-7 न चापि मन्यते राजन्नेष धर्मोऽत्रसन्तत इति ध. पाठः ॥ 12-285-8 नेशे नेष्टे । ईदृशो यतते देहीति ट. ड. पाठः ॥ 12-285-9 यथाञ्जनचयं वायुरिति ड. ध. पाठः ॥ 12-285-18 सम्भवन्ति पुनःपुनरिति झ. पाठः ॥ 12-285-23 धीमन्दुष्टप्रलापांस्त्वमिति झ. पाठः । दुष्टप्रलापान् असुरभावविनाशकान् असुरे भूत्वा कथं भाषस इत्यर्थः ॥ 12-285-25 गन्धाद्यादानं तदाश्रयोपमर्देन । अवर्धं हिंसितवान् ॥ 12-285-26 वैहायसगतिश्चरन्निति झ. ध. पाठः ॥