अध्यायः 284

भीष्मेण युधिष्ठिरम् प्रति मोक्षसाधनप्रतिपादकहारीतगीतानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
किंशीलः किंसमाचारः किंविद्यः किम्परायणः । 001a
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ 001c
भीष्म उवाच 002
मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः । 002a
प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥ 002c
'अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
हारीतेन पुरा गीतं तं निबोध युधिष्ठिर ॥ 003c
स्वगृहादभिनिःसृत्य लाभेऽलाभे समो मुनिः । 004a
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥ 004c
न चक्षुषा न मनसा न वाचा दूषयेत्परम् । 005a
न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत्क्वचित् ॥ 005c
न हिंस्यात्सर्वभूतानि मैत्रायणगतिश्चरेत् । 006a
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् ॥ 006c
अतिवादांस्तितिक्षेत नाभिमन्येत कञ्चन । 007a
क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत् ॥ 007c
प्रदक्षिणं च सव्यं च ग्राममध्ये च नाचरेत् । 008a
भैक्षचर्यामनापन्नो न गच्छेत्पूर्वकेतनम् ॥ 008c
अवकीर्णः सुगुप्तश्च न वाचाऽप्यप्रियं चरेत् । 009a
मृदुः स्यादप्रतीकारो विस्रब्धः स्यादरोषणः ॥ 009c
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने । 010a
अतीते पात्रसञ्चारे भिक्षां लिप्सेत वै मुनिः ॥ 010c
प्राणयात्रिकमात्रः स्यान्मात्रालाभेष्वनादृतः । 011a
अलाभे न विहन्येत लाभश्चैनं न हर्षयेत् ॥ 011c
लाभं साधारणां नेच्छेन्न भुञ्जीताभिपूजितः । 012a
अभिपूजितलाभं हि जुगुप्सेतैव तादृशः ॥ 012c
न चान्नदोषान्निन्देत न गुणानभिपूजयेत् । 013a
शय्यासने विविक्ते च नित्यमेवाभिपूजयेत् ॥ 013c
शून्यागारं वृक्षमूलमरण्यमथवा गुहाम् । 014a
अज्ञातचर्यां गत्वाऽन्यां ततोऽन्यत्रैव संविशेत् ॥ 014c
अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः । 015a
सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि ॥ 015c
नित्यतृप्तः सुसन्तुष्टः प्रसन्नवदनेन्द्रियः । 016a
विभीर्जप्यपरो मौनी वैराग्यं समुपाश्रितः ॥ 016c
अभ्यस्तं भौतिकं पश्यन्भूतानामागतिं गतिम् । 017a
विस्मितः सर्वदर्शी च पक्वापक्वेन वर्तयन् । 017c
आत्मारामः प्रशान्तात्मा लघ्वाहारो जितेन्द्रियः ॥ 017e
वाचो वेगं मनसः क्रोधवेगं हिंसावेगमुदरोपस्थवेगम् । 018a
एतान्वेगान्विनयेद्वै तपस्वी निन्दा चास्य हृदयं नोपहन्यात् ॥ 018c
मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः । 019a
एतत्पवित्रं परमं परिव्राजक आश्रयेत् ॥ 019c
महात्मा सर्वतो दान्तः सर्वत्रैवानपाश्रितः । 020a
अपूर्वचारकः सौम्यो ह्यनिकेतः समाहितः ॥ 020c
वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् । 021a
अज्ञातलिप्सं लिप्सेत न चैनं हर्ष आविशेत् ॥ 021c
विजानतां मोक्ष एष श्रमः स्यादविजानताम् । 022a
मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत् ॥ 022c
अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात् । 023a
लोकास्तेजोमयास्तस्य तथाऽनन्त्याय कल्पते ॥ 023c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुरशीत्यधिकद्विशततमोऽध्यायः ॥ 284 ॥

12-284-2 प्राप्नोति ब्रह्मणः स्थानमिति झ. थ. पाठः ॥ 12-284-4 समुपोढेषूपस्थितेष्वपि । सम्मुखेषु च कामेषु इति ट. ध. पाठः । समो दुःखेषु कामेषु इति थ. पाठः ॥ 12-284-6 मैत्रायणगतो मित्रः सूर्यस्तस्येदं मैत्रं तदयनं गमनं तच्च मैत्रायणं तत्र गतः । सूर्यवत्प्रत्यहं विभिन्नमार्गः । ग्रामैकरात्रविधिना चरेदित्यर्थः मैत्रायणगतिं चरेदिति ट. ड. पाठः ॥ 12-284-7 नातिमन्येत्कथञ्चनेति ट. ड. पाठः ॥ 12-284-8 ग्राममध्ये जनसमाजे प्रदक्षिणमनुकूलं सव्यं प्रतिकूलं वा नाचरेत् ॥ 12-284-9 अवतीर्णः सुगुप्तश्चेति ट. ध. पाठः । अप्रियं वदेदिति झ. पाठः । अवकीर्णो मूढैः पांसुभिश्छन्नः । धिक्कृत इत्यर्थः । तथापि सुगुप्तोऽचपलः स्वधर्मे निष्ठावान् ॥ 12-284-11 अनुयात्रिकमर्थी स्यादिति ड. पाठः ॥ 12-284-12 साधारणं सर्वयोग्यं स्रक्चन्दनादिलाभम् ॥ 12-284-16 ध्यानजल्पपरो मौनीति ट. ड. पाठः ॥ 12-284-17 सव्यक्तं भौतिकं स्वर्ग्यम् इति ड. ध. पाठः । निःस्पृहः समदर्शी चेति झ. पाठः । सुव्रतो दान्त इति ट. ड. पाठः ॥ 12-284-20 अज्ञातनिष्ठां लिप्सेतेति ध. पाठः ॥