अध्यायः 283
भीष्मेण युधिष्ठिरम् प्रति कालस्य द्रुततरपातितया सद्यस्साधनस्य सम्पादनीयत्वे प्रमाणतया पितृपुत्रसंवादानुवादः ॥ 1 ॥
- युधिष्ठिर उवाच 001
अतिक्रामति कालेऽस्मिन्सर्वभूतभयावहे । 001a
किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर ॥ 002c
द्विजातेः कस्यजित्पार्थ स्वाध्यायनिरतस्य वै । 003a
पुत्रो बभूव मेधावी मेधावी नाम नामतः ॥ 003c
सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम् । 004a
मोक्षधर्मेष्वकुशलं मोक्षधर्मविचक्षणः ॥ 004c
पुत्र उवाच 005
धीरः किंस्वित्तात कुर्यात्प्रजानन्क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम् । 005a
पितस्तथाऽऽख्याहि यथार्थयोगं ममानुपूर्व्या येन धर्मं चरेयम् ॥ 005c
पितोवाच 006
अधीत्य वेदान्ब्रह्मचर्येषु पुत्र पुत्रानिच्छेत्पावनार्थं पितॄणाम् । 006a
अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत् ॥ 006c
पुत्र उवाच 007
एवमभ्याहते लोके सर्वतः परिवारिते । 007a
अमोघासु पतन्तीषु किं धीर इव भाषसे ॥ 007c
पितोवाच 008
कथमभ्याहतो लोकः केन वा परिवारितः । 008a
अमोघाः काः पतन्तीह किन्नु भीषयसीव माम् ॥ 008c
पुत्र उवाच 009
मृत्युनाऽऽभ्याहतो लोको जरया परिवारितः । 009a
अहोरात्राः पतन्तीमे तच्च कस्मान्न बुध्यसे ॥ 009c
यदाहमेव जानामि न मृत्युस्तिष्ठतीति ह । 010a
सोहं कथं प्रतीक्षिष्ये ज्ञानेनापिहितश्चरन् ॥ 010c
रात्र्यांरात्र्यां व्यतीतायामायुरल्पतरं यदा । 011a
गाधोदके मत्स्य इव सुखं विन्देत कस्तदा ॥ 011c
'यामेकरात्रिं प्रथमां गर्भो विशति मातरम् । 012a
तामेव रात्रिं प्रस्वाप्य मरणाय विवर्तकः ॥' 012c
पुष्पाणीव विचिन्वन्तमन्यत्र गतमानसम् । 013a
अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम् ॥ 013c
श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् । 014a
न हि प्रतीक्षते मृत्युः कृतं वाऽस्य न वा कृतम् ॥ 014c
अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगान्महान् । 015a
को हि जानाति कस्याद्य मृत्युकालो भविष्यति ॥ 015c
अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति । 016a
युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् ॥ 016c
कृते धर्मे भवेत्प्रीतिरिह प्रेत्य च शाश्वती । 017a
मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः ॥ 017c
कृत्वा कार्यमकार्यं वा तुष्टिमेषां प्रयच्छति । 018a
तं पुत्रपशुसम्पन्नं व्यासक्तमनसं नरम् ॥ 018c
सुप्तं व्याघ्रं महौघो वा मृत्युरादाय गच्छति । 019a
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् ॥ 019c
वृकीवोरणमासाद्य मुत्युरादाय गच्छति । 020a
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् ॥ 020c
एवमीहासमायुक्तं मृत्युरादाय गच्छति । 021a
कृतानां फलमप्राप्तं कार्याणां कर्मसङ्गिनाम् ॥ 021c
क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति । 022a
दुर्बलं बलवन्तं च प्राज्ञं शूरं जडं कविम् ॥ 022c
अप्राप्तसर्वकामार्थं मृत्युरादाय गच्छति । 023a
मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम् ॥ 023c
असन्त्याज्यं यदा मर्त्यैः किं स्वस्थ इव तिष्ठति । 024a
जातमेवान्तकोऽन्ताय जरा चाभ्येति देहिनम् ॥ 024c
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः । 025a
न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते ॥ 025c
बलात्सत्यमृते त्वेकं सत्ये ह्यमृतमाश्रितम् । 026a
मृत्योर्वा गृहमेतद्वै या ग्रामे वसतो रतिः ॥ 026c
देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः । 027a
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः ॥ 027c
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः । 028a
यो न हिंसति सत्वानि मनोवाक्कर्महेतुभिः ॥ 028c
जीवितार्थापनयनैः प्राणिभिर्न स बध्यते । 029a
तस्मात्सत्यव्रताचारः सत्यव्रतपरायणः ॥ 029c
सत्यकामः समो दान्तः सत्येनैवान्तकं जयेत् । 030a
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् ॥ 030c
मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम् । 031a
सोहं सत्यमहिंसार्थी कामक्रोधबहिष्कृतः ॥ 031c
समाश्रित्य सुखं क्षेमी मृत्युं हास्याम्यमृत्युवत् । 032a
शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः ॥ 032c
वाङ्मनः कर्मयज्ञश्च भविष्याम्युदगायने । 033a
पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति ॥ 033c
अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत् । 034a
आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजः पितः ॥ 034c
आत्मयज्ञो भविष्यामि न मां तारयति प्रजा । 035a
यस्य वाङ्मनसी स्यातां सम्यक्प्रणिहिते सदा ॥ 035c
तपस्त्यागश्च योगश्च स तैः सर्वमवाप्नुयात् । 036a
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं फलम् ॥ 036c
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥ 037ac
नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । 038a
शीले स्थितिर्दण्डविधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः ॥ 038c
किं ते धनैर्बान्धवैर्वाऽपि किं ते किं ते दारैब्राह्मण यो मरिष्यसि । 039a
आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताः पिता च ॥ 039c
भीष्म उवाच 040
पुत्रस्यैतद्वचः श्रुत्वा तथाकार्षीत्पिता नृप । 040a
तथा त्वमपि राजेन्द्र सत्यधर्मपरो भव ॥ 040c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्र्यशीत्यधिकद्विशततमोऽध्यायः ॥ 283 ॥
- यद्यप्ययमध्यायः पूर्वत्र 174 तमाध्यायतया स्थापितः । तथापि ड. थे. तरपुस्तकेषु द्वितीयवारमत्रापि दृश्यमानतयाऽस्माभिरत्रापि स्थापितः ।