अध्यायः 282

भीष्मेण युधिष्ठिरम् प्रति तृष्णात्यागस्य सुखसाधनताप्रतिपादकजनकमाण्डव्यसंवादानुवादः ॥ 1 ॥ युधिष्ठिर उवाच 001
भ्रातरः पितरः पौत्रा ज्ञातयः सुहृदः सुताः । 001a
अर्थहेतोर्हताः क्रूरैरस्माभिः पापबुद्धिभिः ॥ 001c
येयमर्थोद्भवा तृष्णा कथमेतां पितामह । 002a
निवर्तयेयं पापानि तृष्णया कारिता वयम् ॥ 002c
भीष्म उवाच 003
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
गीतं विदेहराजेन माण्डव्यायानुपृच्छते ॥ 003c
सुसुखं बत जीवामि यस्य मे नास्ति किञ्चन । 004a
मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन ॥ 004c
अर्थाः खलु समृद्धा हि गाढं दुःखं विजानताम् । 005a
असमृद्धास्त्वपि सदा मोहयन्त्यविचक्षणान् ॥ 005c
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । 006a
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ 006c
यथैव शृङ्गं गोः काले वर्धमानस्य वर्धते । 007a
तथैव तृष्णा वित्तेन वर्धमानेन वर्धते ॥ 007c
किञ्चिदेव ममत्वेन यदा भवति कल्पितम् । 008a
तदेव परितापाय नाशे सम्पद्यते पुनः ॥ 008c
न कामाननुरुध्येत दुःखं कामेषु वै रतिः । 009a
प्राप्यार्थमुपयुञ्जीत धर्मं कामान्विवर्जयेत् ॥ 009c
विद्वान्सर्वेषु भूतेषु व्याघ्रमांसोपमो भवेत् । 010a
कृतकृत्यो विशुद्धात्मा सर्वं ज्यजति वै स्वयम् ॥ 010c
उभे सत्यानृते त्यक्त्वा शोकानन्दौ प्रियाप्रिये । 011a
भयाभये च सन्त्यज्य भव शान्तो निरामयः ॥ 011c
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । 012a
योसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ 012c
चारित्रमात्मनः पश्यंश्चन्द्रशुद्धमनामयम् । 013a
धर्मात्मा लभते कीर्तिं प्रेत्य चेह यथासुखम् ॥ 013c
राज्ञस्तद्वचनं श्रुत्वा प्रीतिमानभवद्द्विजः । 014a
पूजयित्वा च तद्वाक्यं माण्डव्यो मोक्षमाश्रितः ॥ 014c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्व्यशीत्यधिकद्विशततमोऽध्यायः ॥ 282 ॥