अध्यायः 281

भीष्मेण युधिष्ठिरम् प्रति भूतोत्पत्तिविनाशादिप्रतिपादकदेवलनारदसंवादानुवादः ॥ 1 ॥ भीष्म उवाच 001
अत्रैवोदाहरन्तीममितिहासं पुरातनम् । 001a
नारदस्य च संवादं देवलस्यासितस्य च ॥ 001c
आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरम् । 002a
नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम् ॥ 002c
नारद उवाच 003
कुतः सृष्टमिदं विश्वं ब्रह्मन्स्थावरजङ्गमम् । 003a
प्रलये च कमभ्येति तद्भवान्प्रब्रवीतु मे ॥ 003c
असित उवाच 004
येभ्यः सृजति भूतानि कालो भावप्रचोदितः । 004a
महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः ॥ 004c
तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः । 005a
एतेभ्यो यः परं ब्रूयादसद्ब्रूयादसंशयम् ॥ 005c
विद्धि नारद पञ्चैताञ्शाश्वतानचलान्ध्रुवान् । 006a
महतस्तेजसो राशीन्कालषष्ठान्स्वभावतः ॥ 006c
आपश्चैवान्तरिक्षं च पृथिवी वायुपावकौ । 007a
असिद्धिः परमेतेभ्यो भूतेभ्यो मुक्तसंशयम् ॥ 007c
नोपपत्त्या न वा युक्त्या त्वसद्ब्रूयादसंशयम् । 008a
वेत्थैतानभिनिर्वृत्तान्षडेते यस्य राशयः ॥ 008c
पञ्चैव तानि कालश्च भावाभावौ च केवलौ । 009a
अष्टौ भूतानि भूतानां शाश्वतानि भवाव्ययौ ॥ 009c
अभावभावितेष्वेव तेभ्यश्च प्रभवन्त्यपि । 010a
विनष्टोऽप्यनुतान्येव जन्तुर्भवति पञ्चधा ॥ 010c
तस्य भूमिमयो देहः श्रोत्रमाकाशसम्भवम् । 011a
सूर्याच्चक्षुरसुर्वायोरद्भ्यस्तु खलु शोणितम् ॥ 011c
चक्षुषी नासिकाकर्णौ त्वक् जिह्वेति च पञ्चमी । 012a
इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः ॥ 012c
दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा । 013a
उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु धातुषु ॥ 013c
रूपं गन्धो रसः स्पर्शः शब्दश्चैवाथ तद्गुणाः । 014a
इन्द्रियैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः ॥ 014c
रूपं गन्धं रसं स्पर्शं शब्दं चैवाथ तद्गुणान् । 015a
इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते ॥ 015c
चित्तमिन्द्रियसङ्घातात्परं तस्मात्परं मनः । 016a
मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः ॥ 016c
पूर्वं चेतयते जन्तुरिन्द्रियैर्विषयान्पृथक् । 017a
विचार्य मनसा पश्चादथ बुद्ध्या व्यवस्यति । 017c
इन्द्रियैरुपसृष्टार्थान्मत्वा यस्त्वध्यवस्यति ॥ 017e
चित्तमिन्द्रियसङ्घातं मनो बुद्धिस्तथाऽष्टमी । 018a
अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः ॥ 018c
पाणिं पादं च पायुं च मेहनं पञ्चमं मुखम् । 019a
इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्यपि ॥ 019c
जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते । 020a
गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ ॥ 020c
पायूपस्थं विसर्गार्थमिन्द्रिये तुल्यकर्मणी । 021a
विसर्गे च पुरीषस्य विसर्गे चापि कामिके ॥ 021c
मनः षष्ठान्यथैतानि वाचा सम्यग्यथागमम् । 022a
ज्ञानचेष्टेन्द्रियगुणाः सर्वेषां शब्दिता मया ॥ 022c
इन्द्रियाणां स्वकर्मभ्यः श्रमादुपरमो यदा । 023a
भवतीन्द्रियसन्न्यासादथ स्वपिति वै नरः ॥ 023c
इन्द्रियाणां व्युपरमे मनोऽव्युपरतं यदि । 024a
सेवते विषयानेव तं विद्यात्स्वप्नदर्शनम् ॥ 024c
सात्विकाश्चैव ये भावास्तथा राजसतामसाः । 025a
कर्मयुक्ताः प्रशंसन्ति सात्विकान्नेतरांस्तथा ॥ 025c
आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः । 026a
सात्विकस्य निमित्तानि भावान्संश्रयते स्मृतिः ॥ 026c
जन्तुष्वेकतमेष्वेवं भावं यो वा समास्थितः । 027a
भावयोरीप्सितं नित्यं प्रत्यक्षं गमनं द्वयोः ॥ 027c
इन्द्रियाणि च भावाश्च गुणाः सप्तदश स्मृताः । 028a
तेषामष्टादशो देही यः शरीरे स शाश्वतः ॥ 028c
अथवा सशरीरास्ते गुणाः सर्वे शरीरिणाम् । 029a
संश्रितास्तद्वियोगे हि सशरीरा न सन्ति ते ॥ 029c
अथवा संविभागेन शरीरं पाञ्चभौतिकम् । 030a
एकश्च दश चाष्टौ च गुणाः सह शरीरिणाम् । 030c
ऊष्मणा सह विंशो वा सङ्घातः पाञ्चभौतिकः ॥ 030e
महान्सन्धारयत्येतच्छरीरं वायुना सह । 031a
सत्यप्रभावयुक्तस्य निमित्तं देहभेदने ॥ 031c
यथैवोत्पद्यते किञ्चित्पञ्चत्वं गच्छते तथा । 032a
पुण्यपापविनाशान्ते पुण्यपापसमीरितः । 032c
देहं विशति कालेन ततोऽयं कर्मसम्भवम् ॥ 032e
हित्वाहित्वा ह्ययं प्रैति देहाद्देहं कृताश्रयः । 033a
कालसञ्चोदितः क्षेत्री विशीर्णाद्वा गृहाद्गृहम् ॥ 033c
तं तु नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः । 034a
कृपणास्त्वनुतप्यन्ते जनाः सम्बन्धिमानिनः ॥ 034c
न ह्ययं कस्यचित्कश्चिन्नास्य कश्चन विद्यते । 035a
भवत्येको ह्ययं नित्यं शरीरे सुखदुःखकृत् ॥ 035c
नैव सञ्जायते जन्तुर्न च जातु विपद्यते । 036a
याति देहमयं मुक्त्वा कदाचित्परमां गतिम् ॥ 036c
पुण्यपापमयं देहं क्षपयन्कर्मसङ्क्षयात् । 037a
क्षीणदेहः पुनर्देही ब्रह्मत्वमुपगच्छति ॥ 037c
पुण्यपापक्षयार्थं हि साङ्ख्यज्ञानं विधीयते । 038a
तत्क्षये हृदि पश्यन्ति ब्रह्मभावे परां गतिम् ॥ 038c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकाशीत्यधिकद्विशततमोऽध्यायः ॥ 281 ॥

12-281-13 पञ्चधेति झ. पाठः ॥ 12-281-37 क्षीणभोगः पुनर्देहीति ध. पाठः ॥