अध्यायः 280

भीष्मेण युधिष्ठिरम् प्रति मोक्षोपायप्रतिपादनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
मोक्षः पितामहेनोक्त उपायान्नानुपायतः । 001a
तमुपायं यथान्यायं श्रोतुमिच्छामि भारत ॥ 001c
भीष्म उवाच 002
त्वय्येवैतन्महाप्राज्ञ युक्तं निपुणदर्शनम् । 002a
यदुपायेन सर्वार्थं नित्यं मृगयसेऽनघ ॥ 002c
करणे घटस्य या बुद्धिर्घटोत्पत्तौ न सा मता । 003a
एवं धर्माभ्युपायेषु नान्यद्धर्मेषु कारणम् ॥ 003c
पूर्वे समुद्रे यः पन्थाः स न गच्छति पश्चिमम् । 004a
एकः पन्था हि मोक्षस्य तन्मे विस्तरतः शृणु ॥ 004c
क्षमया क्रोधमुच्छिन्द्यात्कामं सङ्कल्पवर्जनात् । 005a
सत्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ॥ 005c
अप्रमादाद्भयं रक्षेच्छ्वासं क्षेत्रज्ञशीलनात् । 006a
इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् ॥ 006c
भ्रमं सम्मोहमावर्तमभ्यासाद्विनिवर्तयेत् । 007a
निद्रां चाप्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् ॥ 007c
उपद्रवांस्तथा रोगान्हितजीर्णमिताशनात् । 008a
लोभं मोहं च सन्तोषाद्विषयांस्तत्त्वदर्शनात् ॥ 008c
अनुक्रोशादधर्मं च जयेद्धर्ममवेक्षया । 009a
आयत्या च जयेदाशामर्थं सङ्गविवर्जनात् ॥ 009c
अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः । 010a
कारुण्येनात्मनो मानं तृष्णां च परितोषतः ॥ 010c
उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत् । 011a
मौनेन बहुभाषां च शौर्येण च भयं जयेत् ॥ 011c
यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा । 012a
ज्ञानमात्मा महान्यच्छेत्तं यच्छेज्ज्ञानमात्मनः ॥ 012c
तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा । 013a
योगदोषान्समुच्छिद्यात्पञ्च यान्कवयो विदुः ॥ 013c
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् । 014a
परित्यज्य निषेवेत तथेमान्योगसाधनान् ॥ 014c
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा । 015a
शौचमाहारतः शुद्धिरिन्द्रियाणां च संयमः ॥ 015c
एतैर्विवर्धते तेजः पाप्मानमपहन्ति च । 016a
सिध्यन्ति चास्य सङ्कल्पा विज्ञानं च प्रवर्तते ॥ 016c
धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः । 017a
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥ 017c
अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् । 018a
अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः ॥ 018c
एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः । 019a
तथा वाक्कायमनसां नियमः कामतोऽन्यथा ॥ 019c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अशीत्यधिकद्विशततमोऽध्यायः ॥ 280 ॥

12-280-9 जयेद्धर्ममुपेक्षयेति ट. थ. ध. पाठः ॥ 12-280-12 ज्ञानमात्मावबोधेन यच्छेदात्मानमात्मनेति झ. पाठः ॥