अध्यायः 279

भीष्मेण युधिष्ठिरम् प्रति धर्माचरणस्य श्रेयस्साधनत्वप्रतिपादनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
कथं भवति पापात्मा कथं धर्मं करोति वा । 001a
केन निर्वेदमादत्ते मोक्षं वा केन गच्छति ॥ 001c
भीष्म उवाच 002
विदिताः सर्वधर्मास्ते स्थित्यर्थमनुपृच्छसि । 002a
शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः ॥ 002c
विज्ञानार्थं हि पञ्चानामिच्छापूर्वं प्रवर्तते । 003a
प्राप्यतां वर्तते कामो द्वेषो वा भरतर्षभ ॥ 003c
ततस्तदर्थं यतते कर्म चारभते महत् । 004a
इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति ॥ 004c
ततो रागः प्रभवति द्वेषश्च तदनन्तरम् । 005a
ततो लोभः प्रभवति मोहश्च तदनन्तरम् ॥ 005c
लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च । 006a
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च ॥ 006c
व्याजेन चरते धर्ममर्थं व्याजेन रोचते । 007a
व्याजेन सिद्ध्यमानेषु धर्मेषु कुरुनन्दन ॥ 007c
तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति । 008a
सुहृद्भिर्वार्यमाणोऽपि पण्डितैश्चापि भारत ॥ 008c
उत्तरं न्यायसम्बद्धं ब्रवीति विधिचोदितम् । 009a
अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः ॥ 009c
पापं चिन्तयते कर्म प्रब्रवीति करोति च । 010a
तस्याधर्मप्रवृत्तस्य दोषान्पश्यन्ति साधवः ॥ 010c
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः । 011a
स नेह सुखमाप्नोति कुत एव परत्र वै ॥ 011c
एवं भवति पापात्मा धर्मात्मानं तु मे शृणु । 012a
यथा कुशलधर्मा स कुशलं प्रतिपद्यते ॥ 012c
कुशलेनैव धर्मेण गतिमिष्टां प्रपद्यते । 013a
य एतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति ॥ 013c
कुशलस्तु सुखार्थाय साधूंश्चाप्युपसेवते । 014a
तस्य साधुसमाचारादभ्यासाच्चैव वर्धते ॥ 014c
प्राज्ञो धर्मे च रमते धर्मं चैवोपजीवति । 015a
सोऽथ धर्मादवाप्तेषु धनेषु कुरुनन्दन ॥ 015c
तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै । 016a
धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम् ॥ 016c
स मित्रधनलाभात्तु प्रेत्य चेह च नन्दति । 017a
शब्दे स्पर्शे रसे रूपे तथा गन्धे च भारत ॥ 017c
प्रभुत्वं लभते जन्तुर्धर्मस्यैतत्फलं विदुः । 018a
स तु धर्मफलं लब्ध्वा न तृप्यति युधिष्ठिर ॥ 018c
धर्मे स्थितानां कौन्तेय सर्वभोगक्रियासु च । 019a
अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा । 019c
प्रज्ञाचक्षुर्यदा कामे दोषमेवानुपश्यति ॥ 019e
शब्दे स्पर्शे तथा रूपे न च भावयते मनः । 020a
विमुच्यते तदा कामान्न च धर्मं विमुञ्चति ॥ 020c
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् । 021a
ततो मोक्षाय यतते नानुपायादुपायतः ॥ 021c
शनैर्निर्वेदमादत्ते पापं कर्म जहाति च । 022a
धर्मात्मा चैव भवति मोक्षं च लभते परम् ॥ 022c
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि । 023a
पापं धर्मस्तथा मोक्षो निर्वेदश्चैव भारत ॥ 023c
तस्माद्धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर । 024a
धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती ॥ 024c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनाशीत्यधिकद्विशततमोऽध्यायः ॥ 279 ॥

12-279-7 व्याजेन कपटेन । अर्थमर्थजातम् ॥ 12-279-9 न्यायसम्बद्धमाहारे व्यवहारे च त्यक्तलज्जः सुखी भवेदित्यादि । त्रिविधः कायिको वाचिको मानसश्च ॥ 12-279-10 पापं परानिष्टम् ॥ 12-279-12 कुशलं कल्याणं परहितमित्यर्थः ॥ 12-279-19 निर्वेदं वैराग्यम् ॥ 12-279-20 भावयते चिन्तावशं करोति । विरज्यति तदा कामे इति ड. थ. पाठः ॥