अध्यायः 278
भीष्मेण युधिष्ठिरम् प्रति हिंसाहेतुतया यज्ञस्याप्यप्राशस्त्यप्रतिपादकनारदवचनानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
बहूनां यज्ञतपसामेकार्थानां पितामह । 001a
धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः ॥ 001c
भीष्म उवाच 002
अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम् । 002a
उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे ब्राह्मणस्य च ॥ 002c
नारद उवाच 003
राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्वभवद्द्विजः । 003a
उञ्छवृत्तिर्ऋषिः कश्चिद्यज्ञं यष्टुं समादधे ॥ 003c
श्यामाकमशनं तत्र सूर्यपर्णी सुवर्चला । 004a
तिक्तं च विरसं शाकं तपसा स्वादुतां गतम् ॥ 004c
उपगम्य वने पृथ्वीं सर्वभूताविहिंसया । 005a
अपि मूलफलैरिष्टो यज्ञः स्वर्ग्यः परन्तप ॥ 005c
तस्य भार्या व्रतकृशा शुचिः पुष्करमालिनी । 006a
यज्ञपत्नी समानीता सत्येनानुविधीयते ॥ 006c
सा तु शापपरित्रस्ता तत्स्वभावानुवर्तिनी । 007a
मायूरजीर्णपर्णानां वस्त्रं तस्याश्च वर्णितम् ॥ 007c
अकामया कृतस्तत्र यज्ञो होत्रनुमार्गतः । 008a
शुकस्य पुनराजातिरवध्यानादधर्मवत् ॥ 008c
तस्मिन्वने समीपस्थो मृगोऽभूत्सहचारिकः । 009a
वचोभिरब्रवीत्सत्यं त्वयेदं दुष्कृतं कृतम् ॥ 009c
यदि मन्त्राङ्गहीनोऽयं यज्ञो भवति वैकृतः । 010a
मा भोःप्रक्षिप होत्रे त्वं गच्छ स्वर्गमतन्द्रितः ॥ 010c
ततस्तु यज्ञे सावित्री साक्षात्तं सन्न्यमन्त्रयत् । 011a
निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम् ॥ 011c
एवमुक्त्वा निवृत्ता सा प्रवृत्ता यज्ञपावकात् । 012a
किन्नु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम् ॥ 012c
स तु बद्धाञ्जलिं सत्यमयाचद्धरिणः पुनः । 013a
सत्येन स परिष्वज्य सन्दिष्टो गम्यतामिति ॥ 013c
ततः स हरिणो गत्वा पदान्यष्टौ न्यवर्तत । 014a
साधु हिंसय मां सत्य हतो यास्यामि सद्गतिम् ॥ 014c
पश्य ह्यप्सरसो दिव्या मया दत्तेन चक्षुषा । 015a
विमानानि विचित्राणि गन्धर्वाणां महात्मनाम् ॥ 015c
ततः स सुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा । 016a
मृगमालोक्य हिंसायां स्वर्गवासं समर्थयत् ॥ 016c
स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने । 017a
तस्य निष्कृतिमाधत्त न त्वसौ यज्ञसंविधिः ॥ 017c
तस्य तेनानुभावेन मृगहिंसात्मनस्तदा । 018a
तपो महत्समुच्छिन्नं तस्माद्धिंसा न यज्ञिया ॥ 018c
ततस्तं भगवान्धर्मो यज्ञं याजयत स्वयम् । 019a
समाधानं च भार्याया लेभे स तपसा परम् ॥ 019c
अहिंसा परमो धर्मो हिंसाधर्मस्तथा हितः । 020a
सत्यं तेऽहं प्रवक्ष्यामि नो धर्मः सत्यवादिनाम् ॥ 020c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टसप्तत्यधिकद्विशततमोऽध्यायः ॥ 278 ॥
12-278-3 कश्चित्स च यज्ञं समादध इति ट. थ. पाठः ॥ 12-278-4 श्यामाकमशनमदनीयम् । सूर्यपर्णी सुवर्चलेति शाकविशेषौ । त्रयमेतद्वन्यं यज्ञियद्रव्यम् । सूर्यपत्री सुवर्चलेति ट. थ. ध. पाठः ॥ 12-278-6 पुष्करमालिनी नामतः । सत्ये सत्यसञ्ज्ञे भर्तरि नानुविधीयते हिंसा यज्ञमश्रेयस्त्वेन मन्यमाना अनुविधानमानुकूल्यं न करोति ॥ 12-278-7 तथापि शापाद्भीता सती भर्तुः स्वभावमनुरुध्यास्ते इत्यर्थः । मयूरपिञ्छैः सन्निवेशविशेषेण गुम्फितैस्तस्या वस्त्रं वर्णितं विस्तारितम् ॥ 12-278-8 शुक्रस्य पुनराज्ञाभिः पर्णादो नाम धर्मविदिति झ. पाठः ॥ 12-278-9 सहचारिको यजमानस्य सत्यसञ्ज्ञस्य प्रतिवेशी स मृगोऽभून्मृगो भूत्वा च सत्यं मुनिमब्रवीत् । दुष्कृतमिति । सतिसामर्थ्ये मन्त्राङ्गहीनं यज्ञं कुर्वतां दुष्कृतं भवतीत्यर्थः ॥ 12-278-10 ननु दरिद्रेण मयानुकल्पेनैव श्यामाकचरुणा पशुकार्यं क्रियत इत्याशङ्क्याह यदीति । होत्रे हूयतेऽस्मिन्निति व्युत्पत्त्या अग्नौ । मां पर्णादं मृगभूतम् ॥ 12-278-11 सावित्री सवितृमण्डलाधिष्ठात्री देवता प्रत्यक्षमेत्य सन्न्यमन्त्रयत् मदर्थेऽयं पशुरग्नौ होतव्य इत्युक्तवती । प्रत्युक्ता प्रत्याख्याता । तत्र हेतुः न हन्यामिति ॥ 12-278-12 रसातलं दिदृक्षुः प्रवृत्ता तिरोभूदित्यर्थः ॥ 12-278-13 सत्यं सत्यसञ्ज्ञम् । अयाचत मामग्नौ प्रक्षिपेति प्रार्थितवान् । ततो हिंसायां दोषं पश्यता सन्दिष्ट आज्ञप्तः ॥ 12-278-16 हिंसायां कृतायामेव स्वर्गवासं प्राप्नोतीति समर्थयत् समर्थितवानिति सम्बन्धः ॥ 12-278-17 केनचिन्निमित्तेन मृगतां प्राप्तो धर्मस्तस्य निमित्तस्य निष्कृतिं प्रतीकारमाधत्त स्वात्मानं मोचितवान्नत्वसौ यज्ञस्य समीचीनो विधिहिंसामयत्वात् ॥ । 12-278-18 अनुभावेन पशुं हत्वा स्वर्गं प्राप्स्यामीत्यभिप्रायेण । यज्ञिया यज्ञाय हिता ॥ 12-278-19 याजयत अडभाव आर्षः । याजितवान् । भार्यायाः पुष्करमालिन्याः हिंसामययज्ञमनिच्छन्त्याः ॥ 12-278-20 तथा तेन स्वर्गप्रदत्वेन रूपेण हितः । सत्यवादिनां ब्रह्मवादिनां त्वसौ नो धर्मः अहिंसा सकलो धर्म इति झ. पाठः ॥