अध्यायः 277

भीष्मेण युधिष्ठिरम् प्रति धर्मार्थकामेषु धर्मस्यैव ज्यायस्त्वप्रतिपादककुण्डधारचरित्रप्रतिपादनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
धर्ममर्थं च कामं च वेदाः शंसन्ति भारत । 001a
कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् । 002a
कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा ॥ 002c
अधनो ब्राह्मणः कश्चित्कामाद्धनमवैक्षत । 003a
यज्ञार्थं सततोऽर्थार्थी तपोऽतप्यत दारुणम् ॥ 003c
स निश्चयमथो कृत्वा पूजयामास देवताः । 004a
भक्त्या न चैवाध्यगच्छद्धनं सम्पूज्य देवताः ॥ 004c
ततश्चिन्तामनुप्राप्तः कतमद्दैवतं तु तत् । 005a
यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम् ॥ 005c
सोऽथ सौम्येन मनसा देवानुचरमन्तिके । 006a
प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम् ॥ 006c
दृष्ट्वैव तं महाबाहुं तस्य भक्तिरजायत । 007a
अयं मे धास्यति श्रेयो वपुरेतद्धि तादृशम् ॥ 007c
सन्निकृष्टश्च देवस्य न चान्यैर्मानुषैर्वृतः । 008a
एष मे दास्यति धनं प्रभूतं शीघ्रमेव च ॥ 008c
ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि । 009a
बलिभिर्विविधाभिश्च पूजयामास तं द्विजः ॥ 009c
ततस्त्वल्पेन कालेन तुष्टो जलधरस्तदा । 010a
तस्योपकारनियतामिमां वाचमुवाच ह ॥ 010c
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा । 011a
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ 011c
आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतः स्मृतः । 012a
लोभः पुत्रो निकृत्यास्तु कृतघ्नो नार्हति प्रजाम् ॥ 012c
ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा । 013a
अपश्यत्सर्वभूतानि कुशेषु शयितस्तदा ॥ 013c
शमेन तपसा चैव भक्त्या च निरुपस्कृतः । 014a
शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत ॥ 014c
माणिभद्रं स तत्रस्थं देवतानां महाद्युतिम् । 015a
अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर ॥ 015c
तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च । 016a
शुभैः कर्मभिरारब्धाः प्रच्छिदन्त्यशुभेषु च ॥ 016c
पश्यतामथ यक्षाणां कुण्डधारो महाद्युतिः । 017a
निष्पत्य पतितो भूमौ देवानां भरतर्षभ ॥ 017c
ततस्तु देववचनान्मणिभद्रो महामनाः । 018a
उवाच पतितं भूमौ कुण्डधार किमिच्छसि ॥ 018c
कुण्डधार उवाच 019
यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम । 019a
अस्यानुग्रहमिच्छामि कृतं किञ्चित्सुखोदयम् ॥ 019c
ततस्तं माणिभद्रस्तु पुनर्वचनमब्रवीत् 020a
देवानामेव वचनात्कुण्डधारं महाद्युतिम् ॥ 020c
उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकृत्यः सुखी भव । 021a
धनार्थी यदि विप्रोऽयं धनमस्मै प्रदीयताम् ॥ 021c
यावद्धनं प्रार्थयते ब्राह्मणोऽयं सखा तव । 022a
देवानां शासनात्तावदसङ्ख्येयं ददाम्यहम् ॥ 022c
विचार्य कुण्डधारस्तु मानुष्यं चलमध्रुवम् । 023a
तपसे मतिमाधत्त ब्राह्मणस्य यशस्विनः ॥ 023c
कुण्डधार उवाच 024
नाहं धनानि याचामि ब्राह्मणाय धनप्रद । 024a
अन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम् ॥ 024c
पृथिवीं रत्नपूर्णां वा महद्वा रत्नसञ्चयम् । 025a
भक्ताय नाहमिच्छामि भवेदेष तु धार्मिकः ॥ 025c
धर्मेऽस्य रमतां बुद्धिर्धर्मं चैवोपजीवतु । 026a
धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः ॥ 026c
माणिभद्र उवाच 027
सदा धर्मफलं राज्यं सुखानि विविधानि च । 027a
फलान्येवायमश्नातु कायक्लेशविवर्जितः ॥ 027c
भीष्म उवाच 028
ततस्तदेव बहुशः कुण्डधारो महायशाः । 028a
अभ्यासमकरोद्धर्मे ततस्तुष्टास्तु देवताः ॥ 028c
माणिभद्र उवाच 029
प्रीतास्ते देवताः सर्वा द्विजस्यास्य तथैव च । 029a
भविष्यत्येष धर्मात्मा धर्मे चाधास्यते मतिः ॥ 029c
भीष्म उवाच 030
ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर । 030a
ईप्सितं मनसो लब्ध्वा वरमन्यैः सुदुर्लभम् ॥ 030c
ततोऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः । 031a
पार्श्वतोऽभ्याशतो न्यस्तान्यथ निर्वेदमागतः ॥ 031c
ब्राह्मण उवाच 032
अयं न सुकृतं वेत्ति को न्वन्यो वेत्स्यते कृतम् । 032a
गच्छामि वनमेवाहं परं धर्मेण जीवितुम् ॥ 032c
भीष्म उवाच 033
निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमः । 033a
वनं प्रविश्य सुमहत्तप आरब्धवांस्तदा ॥ 033c
देवतातिथिशेषेण फलमूलाशनो द्विजः । 034a
धर्मे चास्य महाराज दृढा बुद्धिरजायत ॥ 034c
त्यक्त्वा मूलफलं सर्वं पर्णाहारोऽभवद्द्विजः । 035a
पर्णं त्यक्त्वा जलाहारः पुनरासीद्द्विजस्तदा ॥ 035c
वायुभक्षस्ततः पश्चाद्बहून्वर्षगणानभूत् । 036a
न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत् ॥ 036c
धर्मे च श्रद्दधानस्य तपस्युग्रे च वर्ततः । 037a
कालेन महता तस्य दिव्या दृष्टिरजायत ॥ 037c
तस्य बुद्धिः प्रादुरासीद्यदि दद्यामहं धनम् । 038a
तुष्टः कस्यचिदेवेह मिथ्या वाङ्न भवेन्मम ॥ 038c
ततः प्रहृष्टवदनो भूय आरब्धवांस्तपः । 039a
भूयश्चाचिन्तयत्सिद्धो यत्परं सोऽभिमन्यते ॥ 039c
यदि दद्यामहं राज्यं तुष्टो वै यस्य कस्यचित् । 040a
स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम ॥ 040c
तस्य साक्षात्कुण्डधारो दर्शयामास भारत । 041a
ब्राह्मणस्य तपोयोगात्सौहृदेनाभिचोदितः ॥ 041c
समागम्य स तेनाथ पूजां चक्रे यथाविधि । 042a
ब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप ॥ 042c
ततोऽब्रवीत्कुण्डधारो दिव्यं ते चक्षुरुत्तमम् । 043a
पश्य राज्ञां गतिं विप्र लोकांश्चैव तु चक्षुषा ॥ 043c
ततो राजसहस्राणि मग्नानि निरये तदा । 044a
दूरादपश्यद्विप्रः स दिव्ययुक्तेन चक्षुषा ॥ 044c
कुण्डधार उवाच 045
मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाः । 045a
कृतं मया भवेत्किं ते कश्च तेऽनुग्रहो भवेत् ॥ 045c
पश्यपश्य च भूयस्त्वं कामानिच्छेत्कथं नरः । 046a
स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः ॥ 046c
भीष्म उवाच 047
ततोऽपश्यत्स कामं च क्रोधं लोभं भयं मदम् । 047a
निद्रां तन्द्रीं तथाऽऽलस्यमावृत्त्य पुरुषान्स्थितान् ॥' 047c
कुण्डधार उवाच 048
एतैर्लोकाः सुसंरुद्धा देवानां मानुषाद्भयम् । 048a
तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः ॥ 048c
न देवैरननुज्ञातः कश्चिद्भवति धार्मिकः । 049a
एष शक्तोस्मि तपसा दातुं राज्यं धनानि च ॥ 049c
भीष्म उवाच 050
ततः पपात शिरसा ब्राह्मणस्तोयधारिणे । 050a
उवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः ॥ 050c
कामलोभानुबन्धेन पुरा ते यदसूयितम् । 051a
मया स्नेहमविज्ञाय तत्र मे क्षन्तुमर्हसि ॥ 051c
क्षान्तमेव मयेत्युक्त्वा कुण्डधारो द्विजर्षभम् । 052a
सम्परिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत ॥ 052c
ततः सर्वांस्तदा लोकान्ब्राह्मणोऽनुचचार ह । 053a
कुण्डधारप्रसादेन तपसा सिद्धिमागतः ॥ 053c
विहायसा च गमनं तथा सङ्कल्पितार्थता । 054a
धर्माच्छक्त्या तथा योगाद्या चैव परमा गतिः ॥ 054c
देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाः । 055a
धार्मिकान्पूजयन्तीह न धनाढ्यान्न कामिनः ॥ 055c
सुप्रसन्ना हि ते देवा यत्ते धर्मे रता मतिः । 056a
धने सुखकला काचिद्धर्मे तु परमं सुखम् ॥ 056c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तसप्तत्यधिकद्विशततमोऽध्यायः ॥ 277 ॥

12-277-6 जलधरं मेघम् । कुण्डधारं नामतः ॥ 12-277-7 धास्यति विधास्यति । तस्य बुद्धिरजायतेति ट. थ. पाठः । दास्यति श्रेय इति ट. थ. ध. पाठः ॥ 12-277-10 इमां गाधामगायतेति ध. पाठः ॥ 12-277-14 निरुपस्कृतो भोगवर्जितः ॥ 12-277-15 व्यादिशन्तं देवाज्ञया याचकेभ्यः फलानि समर्पयन्तम् ॥ 12-277-16 अशुभेषु कर्मसूपस्थितेषु प्राग्दत्तमपि राज्यादिकं प्रच्छिन्दन्ति हरन्ति ॥ 12-277-17 भूमौ पतितो ब्राह्मणहितार्थी । अग्रतः पतितो भूमाविति ध. पाठः ॥ 12-277-18 कुण्डधार किमिष्यत इति झ. ध. पाठः ॥