अध्यायः 276
भीष्मेण युधिष्ठिरम् प्रति गोकपिलसंवादानुवादः ॥ 1 ॥
कपिल उवाच 001
वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतः कृताः । 001a
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥ 001c
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति । 002a
शरीरमेतत्कुरुते यद्वेदे कुरुते तनुम् ॥ 002c
कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः । 003a
आनन्त्यमनुचिन्त्येदं कर्मणां तद्ब्रवीमि ते ॥ 003c
निरागममनैतिह्यमत्यक्षं लोकसाक्षिकम् । 004a
धर्म इत्येव ये यज्ञान्वितन्वन्ति निराशिषः ॥ 004c
उत्पन्नत्यागिनो लुब्धाः कृपासूयाविवर्जिताः । 005a
धनिनामेष वै पन्थास्तीर्थेषु प्रतिपादनम् ॥ 005c
अनाश्रिताः पापकृत्याः कदाचित्कर्मयोगिनः । 006a
मनःसङ्कल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः ॥ 006c
अक्रुध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः । 007a
ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः ॥ 007c
आसन्गृहस्था भूयिष्ठा अपक्रान्ताः स्वकर्मसु । 008a
राजानश्च तथा युक्ता ब्राह्मणाश्च यथाविधि ॥ 008c
समा ह्यार्जवसम्पन्नाः सन्तुष्टा ज्ञाननिश्चयाः । 009a
प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे ॥ 009c
पुरस्ताद्भावितात्मानो यथावच्चरितव्रताः । 010a
चरन्ति धर्मं कृच्छ्रेऽपि दुर्गे चैवापि संहताः ॥ 010c
संहत्य धर्मं चरतां पुराऽऽसीत्सुखमेव तत् । 011a
तेषां नासीद्विधातव्यं प्रायश्चित्तं कथञ्चन ॥ 011c
सत्यं हि धर्ममास्थाय दुराधर्षतमा मताः । 012a
न मात्रामनुरुध्यन्ते न धर्मच्छलमन्ततः ॥ 012c
य एव प्रथमः कल्पस्तमेवात्र चरन्महान् ॥ 013ac
अस्यां स्थितौ स्थितानां हि प्रायश्चित्तं न विद्यते । 014a
यदा तु दुर्बलात्मानः प्रायश्चित्तं तदा भवेत् ॥ 014c
एत एवंविधाः प्राहुः पुराणा यज्ञवाहनाः । 015a
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो यशस्विनः ॥ 015c
यजन्तोऽहरहर्यज्ञैर्निराशीर्बन्धना बुधाः । 016a
तेषां यज्ञाश्च वेदाश्च कर्माणि च यथागमम् ॥ 016c
आगमाश्च यथाकामं सङ्कल्पाश्च यथाव्रतम् । 017a
अपेतकामक्रोधानां दुश्चराचारकर्मणाम् ॥ 017c
स्वकर्मभिः शंसितानां प्रकृत्या शंसितात्मनाम् । 018a
ऋजूनां शमनित्यानां स्वेषु कर्मसु वर्तताम् ॥ 018c
सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः । 019a
तेषामदीनसत्वानां दुश्चराचारकर्मणाम् ॥ 019c
स्वकर्मभिः शंसितानां तपो घोरत्वमागतम् । 020a
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् ॥ 020c
अशक्नुवद्भिश्चरितुं किञ्चिद्धर्मेषु सूचितम् । 021a
निरापद्धर्म आचारो ह्यप्रमादोऽपराभवः ॥ 021c
सर्ववर्णेषु यत्तेषु नासीत्कश्चिद्व्यतिक्रमः । 022a
धर्ममेकं चतुष्पादमाश्रितास्ते नरा विभो ॥ 022c
तं सन्तो विधिवत्प्राप्य गच्छन्ति परमां गतिम् । 023a
गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः ॥ 023c
गृहमेवाभिसंश्रित्य ततोऽन्ये ब्रह्मचारिणः । 024a
'व्यस्तमेकं चतुर्धा तु ब्राह्मणा आश्रमं विदुः ॥ 024c
सर्वे सर्वत्र तिष्ठन्तो गच्छन्ति परमां गतिम् । 025a
एत एवंविधाः प्राहुः पुराणा ब्रह्मचारिणः ॥' 025c
त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः । 026a
नक्षत्राणीव धिष्ण्येषु बहवस्तारकागणाः । 026c
आनन्त्यमुपसम्प्राप्ताः सन्तोषादिति वैदिकम् ॥ 026e
यद्यागच्छन्ति संसारं पुनर्योनिषु तादृशाः । 027a
न लिप्यन्ते पापकृत्यैः कदाचित्कर्मयोनितः ॥ 027c
एवमेव ब्रह्मचारी शुश्रूषुर्घोरनिश्चयः । 028a
एवंयुक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत् ॥ 028c
कर्मैव पुरुषस्याह शुभं वा यदि वाऽशुभम् । 029a
एवं पक्वकषायाणामानन्त्येन श्रुतेन च ॥ 029c
सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः । 030a
तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम् ॥ 030c
चतुर्थ औपनिषदो धर्मः साधारणः स्मृतः । 031a
संसिद्धैः सेव्यते नित्यं ब्राह्मणैर्नियतात्मभिः ॥ 031c
सन्तोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते । 032a
अपवर्गमतिर्नित्यो यतिधर्मः सनातनः ॥ 032c
साधारणः केवलो वा यथाबलमुपास्यते । 033a
गच्छन्ते बलिनः क्षेमं दुर्बलोऽत्रावसीदति । 033c
ब्राह्मणः पदमन्विच्छन्संसारान्मुच्यते शुचिः ॥ 033e
स्यूमरश्मिरुवाच 034
ये भुञ्जते ये ददते यजन्तेऽधीयते च ये । 034a
मात्राभिर्धर्मलुब्धाभिर्ये वा त्यागं समाश्रिताः ॥ 034c
एतेषां प्रेत्यभावे तु कतमः स्वर्गजित्तमः । 035a
एतदाचक्ष्व मे ब्रह्मन्याथातथ्येन पृच्छतः ॥ 035c
कपिल उवाच 036
परिग्रहाः शुभाः सर्वे गुणतोऽभ्युदयाश्च ते । 036a
न तु त्यागसुखं प्राप्ता एतत्त्वमपि पश्यसि ॥ 036c
स्यूमरश्मिरुवाच 037
भवन्तो ज्ञाननिष्ठा वै गृहस्थाः कर्मनिश्चयाः । 037a
आश्रमाणां च सर्वेषां निष्ठायामैक्यमुच्यते ॥ 037c
एकत्वेन पृथक्त्वेन विशेषो नान्य उच्यते । 038a
तद्यथावद्यथान्यायं भगवान्प्रब्रवीतु मे ॥ 038c
कपिल उवाच 039
शरीरपक्तिः कर्माणि ज्ञानं तु परमा गतिः । 039a
पक्वे कषायविज्ञानं यथा ज्ञाने च तिष्ठति ॥ 039c
आनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम् । 040a
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा शमस्तथा ॥ 040c
पन्थानो ब्रह्मणस्त्वेत एतैः प्राप्नोति यत्परम् । 041a
तद्विद्वाननुबुद्ध्येत मनसा कर्मनिश्चयम् ॥ 041c
यां विप्राः सर्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः । 042a
गतिं गच्छन्ति सन्तुष्टास्तामाहुः परमां गतिम् ॥ 042c
वेदांश्च वेदितव्यं च विदित्वा च यथास्थितिम् । 043a
एवं वेदविदित्याहुरतोऽन्यो वातरेचकः ॥ 043c
सर्वं विदुर्वेदविदो वेदे सर्वं प्रतिष्ठितम् । 044a
वेदे हि निष्ठा सर्वस्य यद्यदस्ति च नास्ति च ॥ 044c
एषैव निष्ठा सर्वत्र यत्तदस्ति च नास्ति च । 045a
एतदन्तं च मध्यं च सच्चाऽसच्च विजानतः ॥ 045c
समाप्तं त्याग इत्येव शम इत्येव निश्चितम् । 046a
सन्तोष इत्यनुगतमपवर्गे प्रतिष्ठितम् ॥ 046c
ऋतं सत्यं विदितं वेदितव्यं सर्वस्यात्मा स्थावरं जङ्गमं च । 047a
सर्वं सुखं यच्छिवमुत्तरं च ब्रह्माव्यक्तं प्रभवश्चाव्ययं च ॥ 047c
तेजः क्षमा शान्तिरनामयं शुभं तथाविधं व्योम सनातनं ध्रुवम् । 048a
एतैः शब्दैर्गम्यते बुद्धिनेत्रैस्तस्मै नमो ब्रह्मणे ब्राह्मणाय ॥ 048c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट्सप्तत्यधिकद्विशततमोऽध्यायः ॥ 276 ॥
12-276-5 धनानामेष वै पन्था इति झ. ट. थ. पाठः ॥ 12-276-14 दुर्बलात्मन उत्पन्नं प्रायश्चित्तमिति श्रुतिः इति झ. पाठः ॥ 12-276-39 कषायपङ्क्तिः कर्माणीति ट. थ. पाठः ॥ 12-276-41 मनसा धर्मनिश्चयमिति ध. पाठः ॥ 12-276-43 रतोन्यो वेदवादक इति ट. थ. पाठः । वेदपातक इति ध. पाठः ॥ 12-276-46 इत्येव सर्ववेदेषु निष्ठितमिति झ. पाठः ॥