अध्यायः 275
भीष्मेण युधिष्ठिरम् प्रति गोकपिलसंवादानुवादः ॥ 1 ॥
कपिल उवाच 001
एतावदनुपश्यन्तो यतयो यान्ति मार्गगाः । 001a
नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः ॥ 001c
निर्द्वन्द्वा निर्नमस्कारा निराशीर्बन्धना बुधाः । 002a
विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः ॥ 002c
अपवर्गेऽथ सन्त्यागे बुद्धौ च कृतनिश्चयाः । 003a
ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः ॥ 003c
येऽशोका नष्टरजसस्तेषां लोकाः सनातनाः । 004a
तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम् ॥ 004c
स्यूमरश्मिरुवाच 005
यद्येषां परमा निष्ठा यद्येषां परमा गतिः । 005a
गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते ॥ 005c
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः । 006a
एवं गार्हस्थ्यमाश्रित्य वर्तन्त इतराश्रमाः ॥ 006c
गृहस्थ एव यजते गृहस्थस्तप्यते तपः । 007a
गार्हस्थ्यमस्य धर्मस्य मूलं यत्किञ्चिदेव हि ॥ 007c
प्रजनाद्यभिनिर्वृत्ताः सर्वे प्राणभृतो मुनेः । 008a
प्रजनं चाप्युतान्यत्र न कथञ्चन विद्यते ॥ 008c
यास्तु स्युर्बहिरोषध्यो बहिरन्यास्तथाऽद्रिजाः । 009a
ओषधिभ्यो बहिर्यस्मात्प्राणी कश्चिन्न विद्यते ॥ 009c
कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति । 010a
अश्रद्दधानैरप्राज्ञैः सूक्ष्मदर्शनवर्जितैः ॥ 010c
निराशैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः । 011a
शमस्योपरमो दृष्टः प्रव्रज्यायामपण्डितैः ॥ 011c
त्रैलोक्यस्येव हेतुर्हि मर्यादा शाश्वती ध्रुवा । 012a
ब्राह्मणो नाम भगवाञ्जन्मप्रभृति पूज्यते ॥ 012c
प्राग्गर्भाघानमन्त्रा हि प्रवर्तन्ते द्विजातिषु । 013a
अविश्वस्तेषु वर्तन्ते विश्वस्तेष्वपि संश्रिताः ॥ 013c
दाहे पुनः संश्रयणे संश्रिते पात्रभोजने । 014a
दानं गवां पशूनां वा पिण्डानामप्सु मज्जनम् ॥ 014c
अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरस्तथा । 015a
मृतस्याप्यनुमन्यन्ते मन्त्रा मन्त्राश्च कारणम् ॥ 015c
एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित् । 016a
ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु ॥ 016c
श्रिया विहीनैरलसैः पण्डितैश्च पलायितम् । 017a
वेदवादापरिज्ञानं सत्याभासमिवानृतम् ॥ 017c
न वै पापैर्ह्रियते कृष्यते वा यो ब्राह्मणो यजते वेदशास्त्रैः । 018a
ऊर्ध्वं यजन्पशुभिः सार्धमेति ततः पुनस्तर्कयते न कामान् ॥ 018c
न वेदानां परिभवान्न शाठ्येन न मायया । 019a
महत्प्राप्नोति पुरुषो ब्राह्मणो ब्रह्म विन्दति ॥ 019c
कपिल उवाच 020
दर्शश्च पूर्णमासश्च अग्निहोत्रं च धीमताम् । 020a
चातुर्मास्यानि चैवासंस्तेषु यज्ञः सनातनः ॥ 020c
अनारम्भाः सुधृतयः शुचयो ब्रह्मसञ्ज्ञिताः । 021a
ब्राह्मणा एव ते देवांस्तर्पन्त्यमृतैरिव ॥ 021c
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः । 022a
देवाऽपि मार्गे मुह्यन्ति ह्यपदस्य पदैषिणः ॥ 022c
चतुर्द्वारं पुरुषं चर्तुर्मुखं चतुर्मुखो नैनमुपैति निन्दा । 023a
बाहुभ्यां पद्भ्यामुदरादुपस्थात्तेषां द्वारं द्वारपालो बुभूषेत् ॥ 023c
नाक्षैर्दीव्येन्नाददीतान्यवित्तं न वाऽयोनीयस्य शृतं प्रगृह्णात् । 024a
क्रुद्धो न चैव प्रहरेत धीमांस्तथास्य तत्पाणिपादं सुगुप्तम् ॥ 024c
नाक्रोशमृच्छेन्न वृथा वदेच्च न पैशुनं जनवादं च कुर्यात् । 025a
सत्यव्रतो मितभाषोऽप्रमत्तस्तथाऽस्य वाग्द्वारमथो सुगुप्तम् ॥ 025c
नानाशनः स्यान्न महाशनः स्यान्न लोलुपः साधुभिरागतः स्यात् । 026a
यात्रार्थमाहारमिहाददीत तथाऽस्य स्याज्जाठरद्वारगुप्तिः ॥ 026c
न वीरपत्नीं विहरेत नारीं न चापि नारीमनृतावाह्वयीत । 027a
भार्याव्रतं ह्यात्मनि धारयीत तथास्योपस्थद्वारगुप्तिर्भवेत ॥ 027c
द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः । 028a
उपस्थमुदरं पाणी वाक्चतुर्थी स वै द्विजः ॥ 028c
मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत । 029a
किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना ॥ 029c
अनुत्तरीयवसनमनुपस्तीर्णशायिनम् । 030a
बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः ॥ 030c
द्वन्द्वारामेषु सर्वेषु य एको रमते मुनिः । 031a
परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः ॥ 031c
येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या । 032a
गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः ॥ 032c
अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः । 033a
सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः ॥ 033c
नान्तरेणानुजानाति वेदानां यत्क्रियाफलम् । 034a
अविज्ञाय च तत्सर्वमन्यद्रोचयते फलम् ॥ 034c
स्वकर्मभिः संश्रितानां तपो घोरत्वमागमत् । 035a
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् ॥ 035c
अशक्नुवन्तश्चरितुं किञ्चिद्धर्मेषु सूत्रितम् । 036a
निरापद्धर्म आचारो ह्यप्रमादो पराभवः ॥ 036c
फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि च । 037a
विगुणानि च पश्यन्ति तथा नैकानि केन च ॥ 037c
गुणाश्चात्र सुदुर्ज्ञेया ज्ञाताश्चात्र सुदुष्कराः । 038a
अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि ॥ 038c
स्यूमरश्मिरुवाच 039
यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा । 039a
तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्ब्रवीहि मे ॥ 039c
कपिल उवाच 040
प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः । 040a
प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते ॥ 040c
स्यूमरश्मिरुवाच 041
स्यूमरश्मिरहं ब्रह्मञ्जिज्ञासार्थमिहागतः । 041a
श्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षया ॥ 041c
इमं च संशयं घोरं भगवान्प्रब्रवीतु मे । 042a
प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताः । 042c
किमत्र प्रत्यक्षतमं भवन्तो यदुपासते ॥ 042e
अन्यत्र तर्कशास्त्रेभ्य आगमार्थं यथागमम् । 043a
आगमो वेदवादास्तु तर्कशास्त्राणि चागमः ॥ 043c
यथाश्रममुपासीत आगमस्तत्र सिध्यति । 044a
सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्चयात् ॥ 044c
नौर्नावीव निबद्धा हि स्रोतसा सनिबन्धना । 045a
ह्रियमाणा कथं विप्र कुबुद्धींस्तारयिष्यति ॥ 045c
एतद्ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भो । 046a
नैव त्यागी न सन्तुष्टो नाशोको न निरामयः । 046c
नानिर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन ॥ 046e
भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वयम् । 047a
इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु ॥ 047c
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु । 048a
एकमालम्बमानानां निर्णये किं निरामयम् । 048c
'एतद्ब्रवीतु भगवानुपपन्नोस्म्यधीहि भो ॥' 048e
कपिल उवाच 049
यद्यदाचरते शास्त्रमर्थ्यं सर्वप्रवृत्तिषु । 049a
यस्य यत्र ह्यनुष्ठानं तस्य तत्तु निरामयम् ॥ 049c
सर्वं प्रापयति ज्ञानं यो ज्ञानं ह्यनुवर्तते । 050a
ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः ॥ 050c
भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरामयाः । 051a
ऐकात्म्यं नाम कश्चिद्धि कदाचिदभिपद्यते ॥ 051c
शास्त्रं ह्यबुद्ध्वा तत्त्वेन केचिद्वादबलाज्जनाः । 052a
कामद्वेषाभिभूतत्वादहङ्कारवशं गताः ॥ 052c
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः । 053a
ब्रह्मस्तेना निरारम्भा अपक्वमनसोऽशिवाः ॥ 053c
नैर्गुण्यमेव पश्यन्ति न गुणाननुयुञ्जते । 054a
तेषां तमःशरीराणां तम एव परायणम् ॥ 054c
यो यथाप्रकृतिर्जन्तुः प्रकृतेः स्याद्वशानुगः । 055a
तस्य द्वेषश्च कामश्च क्रोधो दम्भोऽनृतं मदः । 055c
नित्यमेवानुवर्तन्ते गुणाः प्रकृतिसम्भवाः ॥ 055a
ये तद्बुद्ध्वाऽनुपश्यन्तः सन्त्यजेयुः शुभाशुभम् । 056c
परां गतिमभीप्सन्तो यतयः संयमे रताः ॥ 056a
स्यूमरश्मिरुवाच 057
सर्वमेतत्त्वया ब्रह्मञ्शास्त्रतः परिकीर्तितम् । 057a
न ह्यविज्ञाय शास्त्रार्थं प्रवर्तन्ते प्रवृत्तयः ॥ 057c
यः कश्चिन्न्याय्य आचारः सर्वं शास्त्रमिति श्रुतिः । 058a
यदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः ॥ 058c
न प्रवृत्तिर्ऋते शास्त्रात्काचिदस्तीति निश्चयः । 059a
यदन्यद्वेदवादेभ्यस्तदशास्त्रमिति श्रुतिः ॥ 059c
शास्त्रादपेतं पश्यन्ति बहवोऽत्यर्थमानिनः । 060a
शास्त्रदोषान्न पश्यन्ति इह चामुत्र चापरे । 060c
[इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु ॥ 060e
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु । 061a
एकमालम्बमानानां निर्णये सर्वतो दिशम् ॥ 061c
आनन्त्यं वदमानेन शक्तेनावर्जितात्मना] । 062a
अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः ॥ 062c
शक्यं त्वेकेन युक्तेन कृतकृत्येन सर्वशः । 063a
पिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतो दिशम् ॥ 063c
'नात्यन्तं वन्दमानेन शक्तेन विजितात्मना ।' 064a
वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभाषितुम् । 064c
अपेतन्यायशास्त्रेण सर्वलोकविगर्हिणा ॥ 064e
इदं तु दुष्करं कर्म कुटुम्बमभिसंश्रितम् । 065a
दानमध्ययनं यज्ञः प्रजासन्तानमार्जवम् ॥ 065c
यद्येतदेवं कृत्वाऽपि न विमोक्षोऽस्ति कस्यचित् । 066a
धिक्कर्तारं च कार्यं च श्रमश्चायं निरर्थकः ॥ 066c
नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतः क्रिया । 067a
एतस्यानन्त्यमिच्छामि भगवञ्श्रोतुमञ्जसा ॥ 067c
तत्त्वं वदस्व मे ब्रह्मन्नुपसन्नोस्म्यधीहि भोः । 068a
यथा ते विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम् ॥ 068c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ॥ 275 ॥
12-275-11 श्रमस्योपरमो दृष्ट इति ट. थ. पाठः ॥ 12-275-14 दानं पुनः सङ्ग्रहणं संश्रिता पात्रभोजनम् । इति ट. थ. पाठः । दाहः पुनः सञ्चयनं संस्थितः पात्रभोजनमिति ध. पाठः ॥ 12-275-19 ब्रह्म ब्रह्मणि विन्दतीति ट. थ. पाठः ॥ 12-275-20 तेषु धर्मः सनातन इति झ. पाठः ॥ 12-275-22 सर्वज्ञानेन पश्यतः इति ट. पाठः ॥ 12-275-24 नायोनिजस्येह स्रुवं प्रगृह्णादिति ट. थ. पाठः । नायोनिजस्यैव सुतां प्रगृह्णादिति ध. पाठः ॥ 12-275-26 साधुरनागसः स्यादिति ट. थ. पाठः ॥ 12-275-27 धैर्यव्रतं ह्यात्मनीति ध. पाठः ॥ 12-275-39 यथा च देवब्राह्मण्यमत्यागश्च कलौ यथेति थ. पाठः ॥ 12-275-44 यथागममुपासीतेति थ. पाठः यथाकाममुपासीतेति ध. पाठः ॥