अध्यायः 274
भीष्मेण युधिष्ठिरम् प्रति फलानिच्छया यज्ञादेः कर्तव्यताप्रतिपादकगोकपिलसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
अविरोधेन भूतानां त्यागः षाड्गुण्यकारकः । 001a
यः स्यादुभयभाग्धर्मस्तन्मे ब्रूहि पितामह ॥ 001c
गार्हस्थ्यस्य च धर्मस्य योगधर्मस्य चोभयोः । 002a
अदूरसम्प्रस्थितयोः किंस्विच्छ्रेयः पितामह ॥ 002c
भीष्म उवाच 003
उभौ धर्मौ महाभागावुभौ परमदुश्चरौ । 003a
उभौ महाफलौ तौ तु सद्भिराचरितावुभौ ॥ 003c
अत्र ते वर्तयिष्यासि प्रामाण्यमुभयोस्तयोः । 004a
शुणुष्वैकमताः पार्थ च्छिन्नधर्मार्थसंशयम् ॥ 004c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 005a
कपिलस्य गोश्च संवादं तन्निबोध युधिष्ठिर ॥ 005c
आम्नायमनुपश्यन्हि पुराणं शाश्वतं ध्रुवम् । 006a
नहुषः पूर्वमालेभे त्वष्टुर्गामिति नः श्रुतम् ॥ 006c
तां नियुक्तामदीनात्मा सत्वस्थः संयमे रतः । 007a
ज्ञानवान्नियताहारो ददर्श कपिलस्तथा ॥ 007c
स बुद्धिमुत्तमां प्राप्तो नैष्ठिकीमकुतोभयाम् । 008a
स्वरेण शिथिलां सत्यां वेदा३ इत्यब्रवीत्सकृत् ॥ 008c
तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत् । 009a
हंहो वेदा३ यदि मता धर्माः केनापरे मताः ॥ 009c
तपस्विनो धृतिमतः श्रुतिविज्ञानचक्षुषः । 010a
सर्वमार्षं हि मन्यन्ते व्याहृतं विदितात्मनः ॥ 010c
तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः । 011a
का विवक्षाऽस्ति वेदेषु निरारम्भस्य सर्वतः ॥ 011c
कपिल उवाच 012
नाहं वेदान्विनिन्दामि न विवक्ष्यामि कर्हिचित् । 012a
पृथगाश्रमिणां कर्माण्येकार्थानीति नः श्रुतम् ॥ 012c
गच्छत्येव परित्यागी वानप्रस्थश्च गच्छति । 013a
गृहस्थो ब्रह्मचारी च उभौ तावपि गच्छतः ॥ 013c
देवयाना हि पन्थानश्चत्वारः शाश्वता मताः । 014a
नैषां ज्यायः कनीयस्त्वं फलेषूक्तं बलाबलम् ॥ 014c
एवं विदित्वा सर्वार्थानारभेतेति वैदिकम् । 015a
नारभेतेति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः ॥ 015c
अनारम्भे ह्यदोषः स्यादारम्भे दोष उत्तमः । 016a
एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम् ॥ 016c
यदत्र किञ्चित्प्रत्यक्षमहिंसायाः परं मतम् । 017a
ऋते त्वागमशास्त्रेभ्यो ब्रूहि तद्यदि पश्यसि ॥ 017c
स्यूमरश्मिरुवाच 018
स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः । 018a
फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते ॥ 018c
अजश्चाश्वश्च मेषश्च गौश्च पक्षिगणाश्च ये । 019a
ग्राम्यारण्याश्चौषधयः प्राणस्यान्नमिति श्रुतिः ॥ 019c
तथैवान्नं ह्यहरहः सायम्प्रातर्निरूप्यते । 020a
पशवश्चाथ धान्यं च यज्ञस्याङ्गमिति श्रुतिः ॥ 020c
एतानि सह यज्ञेन प्रजापतिरकल्पयत् । 021a
तेन प्रजापतिर्देवान्यज्ञेनायजत प्रभुः ॥ 021c
तदन्योन्यवराः सर्वे प्राणिनः सप्तसप्त च ॥ 022ac
'गौरजो मनुजः श्वा वा अश्वाश्वतरगर्दभाः । 023a
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः ॥ 023c
सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा । 024a
हरिणः शललाश्चैव सप्तारण्यास्तथा स्मृताः ॥' 024c
यज्ञेषूपाकृतं विश्वं प्राहुरुत्तमसञ्ज्ञितम् ॥ 025ac
एतच्चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस्तथा । 026a
को जातु न विचिन्वीत विद्वान्स्वां शक्तिमात्मनः ॥ 026c
पशवश्च मनुष्याश्च द्रुमाश्चौषधिभिः सह । 027a
स्वर्गमेवाभिकाङ्क्षन्ते न च स्वर्गोस्ति ते मखात् ॥ 027c
ओषध्यः पशवो वृक्षा वीरुदाज्यं पयो दधि । 028a
हविर्भूमिर्दिशः श्रद्धा कालश्चैतानि द्वादश ॥ 028c
ऋचो यजूंषि सामानि ऋत्विजश्चापि षोडश । 029a
अग्निर्ज्ञेयो गृहपतिः स सप्तदश उच्यते ॥ 029c
अङ्गान्येतानि यज्ञस्य यज्ञो मूलमिति श्रुतिः । 030a
आज्येन पयसा दध्ना शकृताऽऽमिक्षया त्वचा ॥ 030c
बालैः शृङ्गेण पादेन सम्भवत्येव गौर्मखम् । 031a
एवं प्रत्येकशः सर्वं यद्यदस्य विधीयते ॥ 031c
यज्ञं वहन्ति सम्भूय सहर्त्विग्भिः सदक्षिणैः । 032a
संहृत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्युत ॥ 032c
यज्ञार्थानि हि सृष्टानि यथार्था श्रूयते श्रुतिः । 033a
एवं पूर्वतराः पूर्वे प्रवृत्ताश्चैव मानवाः ॥ 033c
न हिनस्ति नारभते नाभिद्रुह्यति किञ्चन । 034a
यज्ञैर्यष्टव्यमित्येव यो यजत्यफलेप्सया ॥ 034c
यज्ञाङ्गान्यपि चैतानि यथोक्तान्यपि सर्वशः । 035a
विधिना विधियुक्तानि तारयन्ति परस्परम् ॥ 035c
आम्नायमार्षं पश्यामि यस्मिन्वेदाः प्रतिष्ठिताः । 036a
तं विद्वांसोऽनुपश्यन्ति ब्राह्मणस्यानुदर्शनात् ॥ 036c
ब्राह्मणप्रभवो यज्ञो ब्राह्मणार्पण एव च । 037a
अनुयज्ञं जगत्सर्वं यज्ञश्चानुजगत्सदा ॥ 037c
ओमिति ब्रह्मणो योनिर्नमः स्वाहा स्वधा वषट् । 038a
यस्यैतानि प्रयुज्यन्ते यथाशक्ति कृतान्यपि ॥ 038c
न तस्य त्रिषु लोकेषु परलोकभयं विदुः । 039a
इति वेदा वदन्तीह सिद्धाश्च परमर्षयः ॥ 039c
ऋचो यजूंषि सामानि स्तोत्राश्च विधिचोदिताः । 040a
यस्मिन्नेतानि सर्वाणि भवन्तीह स वै द्विजः ॥ 040c
अग्न्याधेये यद्भवति यच्च सोमे सुते द्विज । 041a
यच्चेतरैर्महायज्ञैर्वेद तद्भगवांस्तथा ॥ 041c
तस्माद्ब्रह्मन्यजेच्चैव याजयेच्चाविचारयन् । 042a
यजतो यज्ञविधिना प्रेत्य स्वर्गफलं महत् ॥ 042c
नायं लोकोस्त्ययज्ञानां परश्चेति विनिश्चयः । 043a
वेदवादविदश्चैव प्रमाणमुभयं तदा ॥ 043c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुःसप्तत्यधिकद्विशततमोऽध्यायः ॥ 274 ॥
12-274-1 योगः षाड्गुण्यकारित इति ड. पाठः ॥ 12-274-3 उभौ गार्हस्थ्ययोगधर्मौ ॥ 12-274-6 त्वष्टुस्त्वष्ट्रे गृहागताय मधुपर्के गामालेभे । यष्टुं गामितीति ट. थ. पाठः ॥ 12-274-7 नियुक्तां हन्तुं पुरस्कृतां दृष्ट्वा वेदा इत्यब्रवीदिति द्वयोः सम्बन्धः ॥ 12-274-8 वेदा इति गर्हायां प्लुतिः ॥ 12-274-9 प्रविश्य योगबलेनेत्यर्थः । यतिं कपिलमुनिम् । हंहो इति विस्मये । वेदा यदि मताः गर्हितत्वेन सम्मताः । अत्रापि गर्हार्थायाः प्लुतेरनुवादः । अपरे हिंसाशून्याधर्माः केन मताः । प्रामाण्यमप्रामाण्यं वा कर्मज्ञानकाण्डयोस्तुल्यमतो नान्यतरन्निन्देत्प्रशंसेद्वेति भावः ॥ 12-274-10 विलक्षणपुरुषस्य भाषितं सत्यमिति जना मन्यन्ते । किं विदितात्मनः नित्यज्ञानवतः परमेश्वरस्य व्याहृतम् ॥ 12-274-12 विवक्ष्यामि विषमान् वक्ष्यामि ॥ 12-274-13 एकार्थत्वमाह गच्छत्येवेति । परित्यागी सन्न्यासी । गच्छत्येव परं पदमिति शेषः ॥ 12-274-14 देवयानाः देवमात्मानं यान्त्येभिरिति तथाभूताश्चत्वार आश्रमाः ॥ 12-274-22 तस्माद्यागपराः सर्वे इति ध. पाठः ॥ 12-274-34 नापि दूह्यति किञ्चनेति ट. ड. पाठः ॥ 12-274-39 इति लोका वदन्तीहेति ध. पाठः ॥ 12-274-41 यच्च सोमे स्थितं जगत् । इति ड. पाठः ॥