अध्यायः 273
भीष्मेण युधिष्ठिरम् प्रति प्रजापालनप्रकारप्रतिपादकद्युमत्सेनसत्यवत्संवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच 001
कथं राजा प्रजा रक्षेन्न च किञ्चित्प्रतापयेत् । 001a
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह ॥ 002c
अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम् । 003a
वधाय नीयमानेषु पितुरेवानुशासनात् ॥ 003c
अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम् । 004a
वधो नाम भवेद्धर्मो नैतद्भवितुमर्हति ॥ 004c
द्युमत्सेन उवाच 005
अथ चेदवधो धर्मोऽधर्मः को जातुचिद्भवेत् । 005a
दस्यवश्चेन्न हन्येरन्सत्यवन्सङ्करो भवेत् ॥ 005c
ममेदमिति नास्यैतत्प्रवर्तेत कलौ युगे । 006a
लोकयात्रा न चैव स्यादथ चेद्वेत्थ शंस नः ॥ 006c
सत्यवानुवाच 007
सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः । 007a
धर्मपाशनिबद्धानां नाल्पोऽप्यपचरिष्यति ॥ 007c
यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः । 008a
अयं मे न शृणोतीति तस्मिन्राजा प्रधारयेत् ॥ 008c
तत्त्वाभावेन यच्छास्त्रं तत्कुर्यान्नान्यथा वधः । 009a
असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि । 009c
दस्यून्निहन्ति वै राजा भूयसो वाऽप्यनागसः ॥ 009e
भार्या माता पिता पुत्रो हन्यन्ते पुरुषेण ते । 010a
परेणापकृतो राजा तस्मात्सम्यक्प्रधारयेत् ॥ 010c
असाधुश्चैव पुरुषो लभते शीलमेकदा । 011a
साधोश्चापि ह्यसाधुभ्यः शोभना जायते प्रजा ॥ 011c
न मूलघातः कर्तव्यो नैष धर्मः सनातनः । 012a
अपि खल्ववधेनैव प्रायश्चित्तं विधीयते ॥ 012c
उद्वेजनेन बन्धेन विरूपकरणेन च । 013a
वधदण्डेन क्लिश्या न पुरोहितसंसदि ॥ 013c
यदा पुरोहितं वा ते पर्येयुः शरणैषिणः । 014a
करिष्यामः पुनर्ब्रह्मन्न पापमिति वादिनः ॥ 014c
तदा विसर्गमर्हाः स्युरितीदं धातृशासनम् । 015a
विभ्रद्दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति शासनम् ॥ 015c
गरीयांसो गरीयांसमपराधे पुनः पुनः । 016a
तदा विसर्गमर्हन्ति न यथा प्रथमे तथा ॥ 016c
द्युमत्सेन उवाच 017
यत्रयत्रैव शक्येरन्संयन्तुं समये प्रजाः । 017a
स तावान्प्रोच्यते धर्मो यावन्न प्रतिलङ्घ्यते । 017c
अहन्यमानेषु पुनः सर्वमेव पराभवेत् ॥ 017e
पूर्वे पूर्वतरे चैव सुशास्या ह्यभवञ्जनाः । 018a
मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः ॥ 018c
पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम् । 019a
आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते ॥ 019c
वधेनापि न शक्यन्ते नियन्तुमपरे जनाः ॥ 020ac
नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः । 021a
न गन्धर्वपितॄणां च कः कस्येह न कश्चन ॥ 021c
पक्वं श्मशानादादत्ते पिशाचांश्चापि दैवतम् । 022a
तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु ॥ 022c
सत्यवानुवाच 023
तान्न शक्नोषि चेत्साधून्परित्रातुमहिंसया । 023a
कस्यचिद्भूतभव्यस्य लोभेनान्तं तथा कुरु ॥ 023c
राजानो लोकयात्रार्थं तप्यन्ते परमं तपः । 024a
तेऽपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च ॥ 024c
वित्रास्यमानाः सुकृतो न कामाद्धन्ति दुष्कृतीन् । 025a
सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः ॥ 025c
श्रेयसः श्रेयसोऽप्येवं वृत्तं लोकोऽनुवर्तते । 026a
सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः ॥ 026c
द्युमत्सेन उवाच 027
आत्मानमसमाधाय समाधित्सति यः परान् । 027a
विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम् ॥ 027c
यो राज्ञो दम्भमोहेन किञ्चित्कुर्यादसाम्प्रतम् । 028a
सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते ॥ 028c
आत्मैवादौ नियन्तव्यो दुष्कृतं सन्नियच्छता । 029a
दण्डयेच्च महादण्डैरपि बन्धूननन्तरान् ॥ 029c
'यो राजा लोभमोहेन किञ्चित्कुर्यादसाम्प्रतम् । 030a
सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते ॥' 030c
यत्र वै पापकृन्नीचो न महद्दुःखमर्च्छति । 031a
वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्नुवम् ॥ 031c
इति कारुण्यशीलस्तु विद्वान्वै ब्राह्मणोऽन्वशात् । 032a
इति चैवानुशिष्टोऽस्मि पूर्वैस्तातपितामहैः । 032c
आश्वासयद्भिः सुभृशमनुक्रोशात्तथैव च ॥ 032e
एतत्प्रथमकल्पेन राजा कृतयुगे जयेत् । 033a
पादोनेनापि धर्मेण गच्छेत्त्रेतायुगे तथा । 033c
द्वापरे तु द्विपादेन पादेन त्ववरे युगे ॥ 033e
तथा कलियुगे प्राप्ते राज्ञो दुश्चरितेन ह । 034a
भवेत्कालविशेषेण कला धर्मस्य षोडशी ॥ 034c
अथ प्रथमकल्पेन सत्यवन्सङ्करो भवेत् । 035a
आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत् ॥ 035c
सत्याय हि यथा नेह जह्याद्धर्मफलं महत् । 036a
भूतानामनुकम्पार्थं मनुः स्वायम्भुवोऽब्रवीत् ॥ 036c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिसप्तत्यधिकद्विशततमोऽध्यायः ॥ 273 ॥
12-273-3 अव्याहृतं दण्ड्यानामप्यदण्ड्यत्वं प्राक्केनाप्यनुक्तम् । वधाय वध्येष्विति शेषः ॥ 12-273-4 वधो नाम स च धर्म इति वदतोव्याघात इत्यर्थः ॥ 12-273-8 अपचरेद्ब्राह्मणवचनमतिक्रामेत् । प्रधारयेद्दण्डम् । अधर्मेण शृणोतीति ट. थ. पाठः ॥ 12-273-10 अनपराधिवधात् जन्मन्यस्मिन्नेव पापं फलतीत्याह भार्येति ॥ 12-273-11 साधोः सकाशात् शीलं लभते ॥ 12-273-14 ते दस्यवः ॥ 12-273-15 बिभ्रदिति सन्न्यासिनोऽपि शास्या इत्यर्थः ॥ 12-273-16 गरीयांसमपि शास्युरिति शेषः । पुनःपुनरपराधे कृते तदा ते विसर्गं नार्हन्ति । प्रथमापराधे इवेति व्यतिरेकदृष्टान्तः ॥ 12-273-18 धर्मोल्लङ्घनेऽप्यहन्यमानेषु चोरेषु पूर्वे पूर्वकाले ॥ 12-273-19 अद्य कलौ ॥ 12-273-21 नैव दस्युषु दया कार्येत्याह । नैवेति । कः कस्येहेति प्रश्नः । न कश्चन कस्यापीत्युत्तरम् ॥ 12-273-22 चोरेषु मर्यादाकरणमपि न सम्भवतीत्याह पक्कमिति । तेषु समयं शास्त्रमर्यादां यः कुर्वीत स पक्वं श्मशानादादत्ते पिशाचान् दैवतत्वेन गृह्णाति । पात्रं श्मशानादिति ड. पाठः । पद्मं श्मशानादिति झ. पाठः । तत्र पद्मं शवालङ्कारमित्यर्थः ॥ 12-273-23 लाभेनाथ तथा कुर्विति ड. पाठः ॥ 12-273-24 ते राजानस्तादृग्भ्यः स्तेनेभ्योऽपत्रपन्ते ममापि राज्ये स्तेन इति लज्जां कुर्वतेऽतस्तथा वृत्ता लोकयात्रार्थं प्रजानां निर्दोषत्वं कामयानाः पितर इव तपस्विनो भवन्ति ॥ 12-273-25 वित्रास्यमाना इति त्रासेनैव प्रजाः साध्व्यो भवन्ति ॥ 12-273-29 दुष्कृतं दुष्टकर्मकारिणाम् ॥ 12-273-32 आश्वासयद्भिः प्रजा इति शेषः ॥ 12-273-33 एतद्भूमण्डलं प्रथमकल्पने मुख्येनाहिंसामयेन दण्डेन जयेद्वशीकुर्यात् । धिग्दण्डं वाग्दण्डमादातदण्डं वधदण्डं च युगक्रमेण प्रजासु प्रवर्णयेदिति तात्पर्यम् ॥ 12-273-35 निर्दिश्य निश्चित्य । तपोदण्डम् । राजभिः कृतदण्डास्तु शुद्ध्यन्ति मलिना जना इति दण्डस्यापि तपोवच्छुद्धिहेतुत्वस्मृतेः ॥ 12-273-36 सत्याय ब्रह्मप्राप्तये । हि प्रतिद्धम् । महद्धर्मफलं ज्ञानम् । यथा येन प्रकारेणेह न जह्यात्तादृशमहिंसाख्यं धर्मं मनुरब्रवीत् ॥