अध्यायः 272

भीष्मेण युधिष्ठिरम् प्रति चिरकारिकोपाख्यानकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
कथं कार्यं परीक्षेत शीघ्रं वाऽथ चिरेण वा । 001a
सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः ॥ 001c
भीष्म उवाच 002
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 002a
चिरकारेस्तु यत्पूर्वं वृत्तमाङ्गिरसां कुले ॥ 002c
'गौतमस्य सुता ह्यासन्यवीयांश्चिरकारिकः ।' 003a
चिरकारिक भद्रं ते भद्रं ते चिरकारिक । 003c
चिरकारी हि मेधावी नापराध्यति कर्मसु ॥ 003e
चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः । 004a
चिरेण सर्वकार्याणि विमृश्यार्थान्प्रपद्यते ॥ 004c
चिरं स चिन्तयत्यर्थांश्चिरं जाग्रच्चिरं स्वपन् । 005a
चिरं कार्याभिपत्तिं च चिरकारी तथोच्यते ॥ 005c
अलसग्रहणं प्राप्तो दुर्मेधावीति चोच्यते । 006a
बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना ॥ 006c
व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान् । 007a
पित्रोक्तः कुपितेनाथ जहीमां जननीमिति ॥ 007c
इत्युक्त्वा स तदा विप्रो गौतमो जपतां वरः । 008a
अविमृश्य महाभागो वनमेव जगाम सः ॥ 008c
स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः । 009a
विमृश्य चिरकारित्वाच्चिन्तयामास वै चिरम् ॥ 009c
पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम् । 010a
कथं धर्मच्छले नास्मिन्निमज्जेयमसाधुवत् ॥ 010c
पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम् । 011a
अस्वतन्त्रं च पुत्रत्वं किन्तु मां नानुपीडयेत् ॥ 011c
स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत् । 012a
पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात् ॥ 012c
अनवज्ञा पितुर्युक्ता स्वधर्मो मातृरक्षणम् । 013a
युक्तक्षमावुभावेतौ नातिवर्तेत मां कथम् ॥ 013c
पिता ह्यात्मानमाधत्ते जायायां जायतामिति । 014a
शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च ॥ 014c
सोऽहं मात्रा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः । 015a
विज्ञानं मे कथं न स्याद्द्वौ बुद्ध्ये चात्मसम्भवम् ॥ 015c
जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि । 016a
पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये ॥ 016c
गुरुरग्र्यः परो धर्मः पोषणाध्यापनान्वितः । 017a
पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः ॥ 017c
प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता । 018a
शरीरादीनि देयानि पिता त्वेकः प्रयच्छति ॥ 018c
तस्मात्पितुर्वचः कार्यं न विचार्यं कदाचन । 019a
पातकान्यपि पूयन्ते पितुः शासनकारिणः ॥ 019c
भाग्यभोगे प्रसवने सर्वलोकनिदर्शने । 020a
धात्र्याश्चैव समायोगे सीमन्तोन्नयने तथा ॥ 020c
पिता धर्मः पिता स्वर्गः पिता हि परमं तपः । 021a
पितरि प्रीतिमापन्ने सर्वाः प्रीणन्ति देवताः ॥ 021c
आशिषस्ता भजन्त्येनं पुरुषं प्राह यत्पिता । 022a
निष्कृतिः सर्वपापानां पिता यच्चाभिनन्दति ॥ 022c
मुच्यते बन्धनात्पुरष्पं फलं वृक्षात्प्रमुच्यते । 023a
क्लिश्यन्नपि सुतस्नेहैः पिता पुत्रं न मुञ्चति ॥ 023c
एतद्विचिन्तितं तावत्पुत्रस्य पितृगौरवम् । 024a
पिता नाल्पतरं स्थानं चिन्तयिष्यामि मातरम् ॥ 024c
यो ह्ययं मयि सङ्घातो मर्त्यत्वे पाञ्चभौतिकः । 025a
अस्य मे जननी हेतुः पावकस्य यथाऽरणिः ॥ 025c
माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः । 026a
मातृलाभे सनाथत्वमनाथत्वं विपर्यये ॥ 026c
न च शोचति नाप्येनं स्थाविर्यमपकर्षति । 027a
श्रिया हीनोऽपि यो गेहमम्बेति प्रतिपद्यते ॥ 027c
पुत्रपौत्रोपपन्नोपि जननीं यः समाश्रितः । 028a
अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत् ॥ 028c
समर्थं वाऽसमर्थं वा कृशं वाप्यकृशं तथा । 029a
रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः ॥ 029c
तदा स वृद्धो भवति तदा भवति दुःखितः । 030a
तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते ॥ 030c
नास्ति मातृसमा च्छाया नास्ति मातृसमा गतिः । 031a
नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रिया ॥ 031c
कुक्षौ सन्धारणाद्धात्री जननाज्जननी स्मृता । 032a
अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः ॥ 032c
शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम् । 033a
चेतनावान्स को हन्याद्यस्य नासुषिरं शिरः ॥ 033c
दम्पत्योः प्राणसंश्लेषे योऽभिसन्धिः कृतः किल । 034a
तं माता च पिता चेति भूतार्थो मातरि स्थितः ॥ 034c
माता जानाति यद्गोत्रं माता जानाति यस्य सः । 035a
मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः ॥ 035c
पाणिबन्धं स्वयं कृत्वा सहधर्ममुपेत्य च । 036a
यदा यास्यन्ति पुरुषाः स्त्रियो नार्हन्ति याप्यताम् ॥ 036c
भरणाद्धि स्त्रियो भर्ता पालनाद्धि पतिस्तथा । 037a
गुणस्यास्य निवृत्तौ तु न भर्ता न पुनः पतिः ॥ 037c
एवं स्त्री नापराध्नोति नर एवापराध्यति । 038a
व्युच्चरंश्च महादोषं नर एवापराध्यति ॥ 038c
स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम् । 039a
तस्यात्मना तु सदृशमात्मानं परमं ददौ ॥ 039c
नापराधोऽस्ति नारीणां नर एवापराध्यति । 040a
सर्वकार्यापराध्यत्वान्नापराध्यन्ति चाङ्गनाः ॥ 040c
यश्चनोक्तोऽथ निर्देशः स्त्रिया मैथुनवृद्धये । 041a
तस्य स्मारयतो व्यक्तमधर्मो नास्ति संशयः ॥ 041c
एवं नारीं मातरं च गौरवे चाधिके स्थिताम् । 042a
अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः ॥ 042c
देवतानां समावायमेकस्थं पितरं विदुः । 043a
मर्त्यानां देवतानां च स्नेहादभ्येति मातरम् ॥ 043c
एवं विमृशतस्तस्य विरकारितया बहु । 044a
दीर्घः कालो व्यतिक्रान्तस्ततोस्याभ्यागमत्पिता ॥ 044c
मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः । 045a
विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम् ॥ 045c
सोऽब्रवीद्भृशसन्तप्तो दुःखेनाश्रूणि वर्तयन् । 046a
श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः ॥ 046c
आश्रमं मम सम्प्राप्तस्त्रिलोकेशः पुरन्दरः । 047a
अतिथिव्रतमास्थाय ब्राह्मण्यं रूपमास्थितः ॥ 047c
स मया सान्त्वितो वाग्भिः स्वागतेनाभिपूजितः । 048a
अर्घ्यं पाद्यं यथान्यायं मया च प्रतिपादितः ॥ 048c
परवानस्मि चेत्युक्तः प्रणयिष्यति तेन च । 049a
अत्र चाकुशले जाते स्त्रिया नास्ति व्यतिक्रमः ॥ 049c
एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः । 050a
अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति ॥ 050c
ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्वरेतसः । 051a
ईर्ष्यया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे ॥ 051c
हत्वा साध्वीं च नारीं च व्यसनित्वाच्च वासिताम् । 052a
भर्तव्यत्वेन भार्यां च को नु मां तारयिष्यति ॥ 052c
अन्तरेण मयाऽऽज्ञप्तश्चिरकारीत्युदारधीः । 053a
यद्यद्य चिरकारी स्यात्स मां त्रायेत पातकात् ॥ 053c
चिरकारिक भद्रं ते भद्रं ते चिरकारिक । 054a
यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः ॥ 054c
त्राहि मां मातरं चैव तपो यच्चार्जितं त्वया । 055a
आत्मानं पातकेभ्यश्च भवाद्य चिरकारिकः ॥ 055c
सहजं चिरकारित्वमतिप्रज्ञतया तव । 056a
सफलं तत्तथा तेऽस्तु भवाद्य चिरकारिकः ॥ 056c
चिरमांशसितो मात्रा चिरं गर्भेण धारितः । 057a
सफलं चिकारित्वं कुरु त्वं चिरकारिक ॥ 057c
चिरायते च सन्तापाच्चिरं स्वपिति धारितः । 058a
आवयोश्चिरसन्तापादवेक्ष्य चिरकारिक ॥ 058c
भीष्म उवाच 059
एवं स दुःखितो राजन्महर्षिर्गौतमस्तदा । 059a
चिरकारिं ददर्शाथ पुत्रं स्थितमथान्तिके ॥ 059c
चिरकारी तु पितरं दृष्ट्वा परमदुःखितः । 060a
शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे ॥ 060c
गौतमस्तं ततो दृष्ट्वा शिरसा पतितं भुवि । 061a
पत्नीं चैव निराकारां परामभ्यागमन्मुदम् ॥ 061c
न हि सा तेन सम्भेदं पत्नी नीता महात्मना । 062a
विजने चाश्रमस्थेन पुत्रश्चापि समाहितः ॥ 062c
हन्या इति समादेशः शस्त्रपाणौ सुते स्थिते । 063a
विनीते प्रसवत्यर्थे विवासे चात्मकर्मसु ॥ 063c
बुद्धिश्चासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम् । 064a
शस्त्रग्रहणचापल्यं संवृणोति भयादिति ॥ 064c
ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि । 065a
चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्युदाहृतः ॥ 065c
एवं स गौतमः पुत्रं प्रीतिहर्षगुणैर्युतः । 066a
अभिनन्द्य महाप्रज्ञ इदं वचनमब्रवीत् ॥ 066c
चिरकारिक भद्रं ते चिरकारी चिरं भव । 067a
चिराय यदि ते सौम्य चिरमस्मि न दुःखितः ॥ 067c
गाथाश्चाप्यब्रवीद्विद्वान्गौतमो मुनिसत्तमः । 068a
चिरकारिषु धीरेषु गुणोद्देशसमाश्रयाः ॥ 068c
चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत् । 069a
चिरेण हि कृतं मित्रं चिरं धारणमर्हति ॥ 069c
रागे दर्पे च माने च द्रोहे पापे च कर्मणि । 070a
अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते ॥ 070c
बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च । 071a
अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते ॥ 071c
एवं स गौतमस्तत्र प्रीतः पुत्रस्य भारत । 072a
कर्मणा तेन कौरव्य चिरकारितया तथा ॥ 072c
एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः । 073a
चिरेण निश्चयं कृत्वा चिरं न परितप्यते ॥ 073c
चिरं धारयते रोषं चिरं कर्म नियच्छति । 074a
पश्चात्तापकरं कर्म न किञ्चिदुपपद्यते ॥ 074c
चिरं वृद्धानुपासीत चिरमन्यांश्च पूजयेत् । 075a
चिरं धर्मं निषेवेत कुर्याच्चान्वेषणं चिरम् ॥ 075c
चिरमन्वास्य विदुषश्चिरं शिष्टान्निषेव्य च । 076a
चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम् ॥ 076c
ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम् । 077a
चिरं पृष्टोऽपि च ब्रूयाच्चिरं न परितप्यते ॥ 077c
उपास्य बहुलास्तस्मिन्नाश्रमो सुमहातपाः । 078a
समाः स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा ॥ 078c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विसप्तत्यधिकद्विशततमोऽध्यायः ॥ 272 ॥

12-272-1 कार्यदुर्गे गुर्वादिवचनादवश्यकर्तव्ये हिंसामयत्वेन दुष्करे च सतीत्यर्थः ॥ 12-272-4 सर्वकार्याणि विमर्शात्प्रत्यपद्यतेति थ. ध. पाठः ॥ 12-272-6 गृह्यते उपादीयते लोकेऽनेनेति ग्रहणं नामधेयम् । अलस इति ग्रहणमलसग्रहणं प्राप्तः ॥ 12-272-7 पित्रा गौतमेन । इमां जननीमहल्यां जहि संहर ॥ 12-272-10 धर्मच्छले धर्मसङ्कटे ॥ 12-272-13 युक्तमुचितम् । क्षमं सुखानुष्टेयम् । नातिवर्तेतमामतिशयेन नातिवर्ते । तिङन्तात्तमप आम् नातिवर्ते त्वहं कथम् इति ध. पाठः ॥ 12-272-14 पिता ह्यात्मानमादत्ते माता भस्त्रा ह्यनिन्दितेति ट. पाठः । गोत्रस्य नाम्नः ॥ 12-272-15 बुद्ध्ये जानामि । सम्भवमुत्पत्तिहेतुम् ॥ 12-272-26 निर्वृतिः सुखं तत्कर्त्री ॥ 12-272-27 हे अम्ब इत्युक्त्वा ॥ 12-272-28 द्विहायनवद्द्विवर्षवान् भवेत् । अपि वर्षशतस्यान्ते हायनत्वेन वर्तते इति ध. पाठः ॥ 12-272-32 वीरसूर्वीरपुत्रसूः ॥ 12-272-33 असुषिरं कर्णनासादिसुषिरहीनं यः शृणोति पश्यति जिघ्रति भक्षयति च स मातरं न हन्यादित्यर्थः ॥ 12-272-34 प्राण उपस्थेन्द्रियं तत्संश्लेषे मैथुने इत्यर्थः । अभिसन्धिः पुत्रो मे गौरो जायेतेत्यादिरूपोऽभिलाषः । माता पिता वा उभौ वा कुरुतस्तत्र भूतार्थो याथार्थ्यं मातर्येव तत्कर्तृत्वं स्थितं निष्ठितं पितरि तु सोऽभिलाषः पाक्षिको भवतीत्यर्थः । दम्पत्योः पाणिसंश्लेषे इति ध. पाठः ॥ 12-272-35 भरणमात्रेण गर्भधारणमात्रेण सम्बन्धेन माता पुत्रे प्रीतिमाह्लादं स्नेहमासक्तिं च करोति । वस्तुतस्तु पितुरेव प्रजाः । पितुराज्ञाऽनुल्लङ्घनीयेति भावः ॥ 12-272-36 याप्यतां त्याज्यताम् ॥ 12-272-37 तथाच भर्तृत्वादिगुणशून्यस्योन्मत्तस्येव वचनान्मातरं न हिंसिष्ये इत्याशयः ॥ 12-272-38 व्युच्चरन् पोषणादिकमकुर्वन् महादोषं प्राप्नोतीति शेषः ॥ 12-272-40 सर्वेषु कार्येष्वपराध्यत्वादनुरोध्यत्वादल्पबलत्वेन सर्वथा पुरुषाधीनत्वात् ॥ 12-272-41 चनशब्दोऽप्यर्थे ॥ 12-272-42 पशवोऽपि पशुप्राया अपि ॥ 12-272-43 समावायः समूहः । मर्त्यानां देवतानां च समावायं मातरं स्नेहादभ्येतीति योजना । माता तु इह लोके पालयित्री चेति भावः ॥ 12-272-45 तेन तावता कालेन । संस्थाव्यतिक्रमं मरणानौचित्यम् ॥ 12-272-49 परवान् प्रणयिष्यति मयि प्रणयं करिष्यति । अत्रास्मिन्नर्थे चिन्तिते सति । अकुशले इन्द्रलौल्येन स्त्रीदूषणे जाते विषये स्त्रिया अहल्याया व्यतिक्रमो नास्ति ॥ 12-272-53 अन्तरेण प्रमादेन ॥ 12-272-61 निराकारां पाषाणभूताम् ॥