अध्यायः 271

भीष्मेण युधिष्ठिरम् प्रति हिंसात्यागपूर्वकं शरीराविरोधेन धर्माचरणचोदना ॥ 1 ॥ 'युधिष्ठिर उवाच 001
शरीरमापदश्चैव न विदन्त्यविहिंसकाः । 001a
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यते ॥ 001c
भीष्म उवाच 002
यथा शरीरं न म्लायेन्नैव मृत्युवशं भवेत् । 002a
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ॥' 002c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 003a
प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्युना ॥ 003c
छिन्नस्थूणं वृपं दृष्ट्वा विरावं च गवां भृशम् । 004a
गोगृहे यज्ञवाटे च प्रेक्षमाणः स पार्थिवः ॥ 004c
स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् । 005a
हिंसायां हि प्रवृत्तायामाशीरेषा तु कल्पिता ॥ 005c
अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरैः । 006a
संशयात्मभिरव्यक्तैर्हिंसा समनुदर्शिता ॥ 006c
सर्वकर्मस्वहिंसां हि धर्मात्मा मनुरब्रवीत् । 007a
कामकाराद्विहिंसन्ति बहिर्वेद्यां पशून्नराः ॥ 007c
तस्मात्प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता । 008a
अहिंसा ह्येव सर्वेभ्यो धर्मेभ्यो ज्यायसी मता ॥ 008c
उपोष्य संशितो भूत्वा हित्वा वेदकृतां शुचिः । 009a
आचार इत्यनाचारः कृपणाः फलहेतवः ॥ 009c
यदि च्छिन्दन्ति वृक्षांश्च यूपांश्चोद्दिश्य मानवाः । 010a
वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते ॥ 010c
सुरां मत्स्यान्मधु मांसमासवं कृसरौदनम् । 011a
धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् । 011c
कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् ॥ 011e
विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः । 012a
पायसैः सुमनोभिश्च तस्यैव यजनं स्मृतम् ॥ 012c
यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः । 013a
यच्चापि किञ्चित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् । 013c
महासत्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ॥ 013e
युधिष्ठिर उवाच 014
शरीरमापदश्चापि विवदन्त्यविहिंसतः । 014a
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यते ॥ 014c
भीष्म उवाच 015
यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा । 015a
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ॥ 015c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकसप्तत्यधिकद्विशततमोऽध्यायः ॥ 271 ॥

12-271-4 छिन्ना विशस्ता स्थूणा प्रतिमा शरीरं यस्य तम् ॥ 12-271-5 निश्चितं वचनं निर्वचनम् । एषा स्वस्ति गोभ्योऽस्त्विति हिंसा क्रतौ पश्वालम्भः ॥ 12-271-9 वेदकृतां वेदोक्तां हिंसाम् । आचार इति बुद्ध्या अनाचारः आचरणहीनः ॥ 12-271-12 विष्णुमेव यजन्तीहेति ट. थ. पाठः ॥ 12-271-13 चोक्षैर्विशुद्धैः ॥ 12-271-14 आपदः शरीरं शोषयन्ति शरीरं चापदां नाशमिच्छत्यतोऽत्यन्तं हिंसाशून्यस्य कथं शरीरनिर्वाह इत्याह शरीरमिति ॥