अध्यायः 269
तुलाधारेण जाजलये धर्मरहस्योपदेशः ॥ 1 ॥
जाजलिरुवाच 001
यथा प्रवर्तितो धर्मस्तुलां धारयता त्वया । 001a
स्वर्गद्वारं च वृत्तिं च भूतानामवरोत्स्यते ॥ 001c
कृष्या ह्यन्नं प्रभवति ततस्त्वमपि जिवसि । 002a
पशुभिश्चौषधीभिश्च मर्त्या जीवन्ति वाणिज ॥ 002c
ततो यज्ञः प्रभवति नास्तिक्यमपि जल्पसि । 003a
न हि वर्तेदयं लोको वार्तामुत्सृज्य केवलाम् ॥ 003c
तुलाधार उवाच 004
वक्ष्यामि जाजले वृत्तिं नास्मि ब्राह्मण नास्तिकः । 004a
न यज्ञं च विनिन्दामि यज्ञवित्तु सुदुर्लभः ॥ 004c
नमो ब्राह्मण यज्ञाय ये च यज्ञविदो जनाः । 005a
स्वयज्ञं ब्राह्मणा हित्वा क्षत्रयज्ञमनुष्ठिताः ॥ 005c
लुब्धैर्वित्तपरैर्ब्रह्मन्नास्तिकैः सम्प्रवर्तितम् । 006a
वेदवादानभिज्ञानां सत्याभासमिवानृतम् ॥ 006c
इदं देयमिदं देयमिति नान्यच्चिकीर्षति । 007a
अतः स्तैन्यं प्रभवति विकर्माणि च जाजले ॥ 007c
यदेव सुकृतं हव्यं तेन तुष्यन्ति देवताः । 008a
नमस्कारेण हविषा स्वाध्यायैरौषधैस्तथा । 008c
पूजा स्याद्देवतानां हि यथाशास्त्रनिदर्शनम् ॥ 008e
इष्टापूर्तादसाधूनां विदुषां जायते प्रजा । 009a
लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः ॥ 009c
यजमाना यथाऽऽत्मानमृत्विजश्च तथा प्रजाः । 010a
यज्ञात्प्रजा प्रभवति नभसोऽम्भ इवामलम् ॥ 010c
अग्नौ प्रास्ताहुतिर्ब्रह्मन्नादित्यमुपगच्छति । 011a
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ 011c
तस्मात्सुनिष्ठिताः पूर्वे सर्वान्कामांश्च लेभिरे । 012a
अकृष्टपच्या पृथिवी आशीर्भिर्वीरुधोऽभवन् ॥ 012c
न ते यज्ञेष्वात्मसु वा फलं पश्यन्ति किञ्चन । 013a
शङ्कमानाः फलं यज्ञे ये यजेरन्कथञ्चन ॥ 013c
जानन्तः सर्वथा साधु लुब्धा वित्तप्रयोजनाः । 014a
स स्म पापकृतां लोकान्गच्छेदशुभकर्मणा ॥ 014c
प्रमाणमप्रमाणेन यः कुर्यादशुभं नरः । 015a
पापात्मा सोऽकृतप्रज्ञः सदैवेह द्विजोत्तम ॥ 015c
कर्तव्यमिति कर्तव्यं वेत्ति वै ब्राह्मणो भयम् । 016a
ब्रह्मैव वर्तते लोके नैव कर्तव्यतां पुनः ॥ 016c
विगुणं च पुनः कर्म ज्याय इत्यनुशुश्रुम । 017a
सर्वभूतोपकारश्च फलभावे च संयमः ॥ 017c
सत्ययज्ञा दमयज्ञा अलुब्धाश्चात्मवृत्तयः । 018a
उत्पन्नत्यागिनः सर्वे जना आसन्नमत्सराः ॥ 018c
क्षेत्रक्षेत्रज्ञतत्त्वज्ञाः स्वयज्ञपरिनिष्ठिताः । 019a
ब्राह्मं वेदमधीयन्तस्तोषयन्त्यपरानपि ॥ 019c
अखिलं दैवतं सर्वं ब्रह्म ब्रह्मणि संश्रितम् । 020a
तृप्यन्ति तृप्यतो देवास्तृप्ताऽतृप्तस्य जाजले ॥ 020c
यथा सर्वरसैस्तृप्तो नाभिनन्दति किञ्चन । 021a
तथा प्रज्ञानतृप्तस्य नित्यतृप्तिः सुखोदया ॥ 021c
धर्माधारा धर्मसुखाः कृत्स्नव्यवसितास्तथा । 022a
अस्ति नस्तत्त्वतो भूय इति प्राज्ञस्त्ववेक्षते ॥ 022c
ज्ञानविज्ञानिनः केचित्परं पारं तितीर्षवः । 023a
अतीव पुण्यदं पुण्यं पुण्याभिजनसंहितम् ॥ 023c
यत्र गत्वा न शोचन्ति न च्यवन्ति व्यथन्ति च । 024a
ते तु तद्ब्रह्मणः स्थानं प्राप्नुवन्तीह सात्विकाः ॥ 024c
नैव ते स्वर्गमिच्छन्ति न यजन्ति यशोधनाः । 025a
सतां वर्त्मानुवर्तन्ते यथाबलमहिंसया ॥ 025c
वनस्पतीनोषधीश्च फलमूलानि ते विदुः । 026a
न चैतानृत्विजो लुब्धा याजयन्ति फलार्थिनः ॥ 026c
स्वमेव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर्द्विजाः । 027a
परिनिष्ठितकर्माणः प्रजानुग्रहकाम्यया ॥ 027c
तस्मात्तानृत्विजो लुब्धा याजयन्त्यशुभान्नरान् । 028a
प्रापयेयुः प्रजाः स्वर्गे स्वधर्माचरणेन वै । 028c
इति मे वर्तते बुद्धिः समा सर्वत्र जाजले ॥ 028e
प्रयुञ्जते येन यज्ञे सदा प्राज्ञा द्विजर्षभाः । 029a
तेन ते देवयानेन पथा यान्ति महामुने ॥ 029c
आवृत्तिस्तस्य चैकस्य नास्त्यावृत्तिर्मनीषिणाः । 030a
उभौ तौ देवयानेन गच्छतो जाजले यथा ॥ 030c
स्वयं चैषामनडुहो युञ्जन्ति च वहन्ति च । 031a
स्वयमुस्राश्च दुह्यन्ते मनःसङ्कल्पसिद्धिभिः ॥ 031c
स्वयं यूपानुपादाय यजन्ते स्वाप्तदक्षिणाः । 032a
यस्तथा भावितात्मा स्यात्स गामालब्धुमर्हति ॥ 032c
ओषधीभिस्तथा ब्रह्मन्यजेरंस्ते न तादृशाः । 033a
श्रद्धया गां पुरस्कृत्य तदृतं प्रब्रवीमि ते ॥ 033c
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् । 034a
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः ॥ 034c
न श्रावयन्न च यजन्न ददद्ब्राह्मणेषु च । 035a
काम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले । 035c
इदं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात् ॥ 035e
जाजलिरुवाच 036
[न वै मुनीनां शृणुमः स्म तत्त्वं पृच्छामि ते वाणिज कष्टमेतत् । 036a
पूर्वेपूर्वे चास्य नावेक्षमाणा नातः परं तमृषयः स्थापयन्ति ॥ 036c
यस्मिन्नेवात्मतीर्थेन पशवः प्राप्नुयुर्मखम् ।] 037a
अथ स्म कर्मणा केन वाणिज प्राप्नुयात्सुखम् । 037c
शंस मे तन्महाप्राज्ञ भृशं वै श्रद्दधामि ते ॥ 037e
तुलाधार उवाच 038
उत यज्ञा उतायज्ञा मस्वं नार्हन्ति ते क्वचित् । 038a
आज्येन पयसा दध्ना सत्कृत्यामिक्षया त्वचा । 038c
बालैः शृङ्गेण पादेन सम्भरत्येव गौर्मखम् ॥ 038e
पत्नीव्रतेन विधिना प्रकरोति नियोजयन् । 039a
इष्टं तु दैवतं कृत्वा यथा यज्ञमवाप्नुयात् ॥ 039c
पुरोडाशो हि सर्वेषां पशूनां मेध्य उच्यते । 040a
सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः । 040c
जाजले तीर्थमात्मेव मा स्म देशातिथिर्भव ॥ 040e
एतानीदृशकान्धर्मानाचरन्निह जाजले । 041a
कारणैर्धर्ममन्विच्छन्स लोकानाप्नुते शुभान् ॥ 041c
भीष्म उवाच 042
एतानीदृशकान्धर्मांस्तुलाधारः प्रशंसति । 042a
उपपत्त्याऽभिसम्पन्नान्नित्यं सद्भिर्निषेवितान् ॥ 042c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनसप्तत्यधिकद्विशततमोऽध्यायः ॥ 269 ॥
12-269-3 नास्तिक्यं हिंसात्मकत्वेन यज्ञनिन्दा ॥ 12-269-9 विगुणा जायते प्रजेति झ. पाठः ॥ 12-269-25 यजन्ते चाविहिंसयेति झ. पाठः ॥ 12-269-38 अशक्तानां तु बालैर्गोपुच्छे पितृतर्पणादिना । शृङ्गेण गोशृङ्गेणाभिषेकादिना । पादेनेति पादरजसेत्यर्थः । एतेषां गोस्पर्शनादीनां च सद्यः पापनाशकत्वं परलोकप्रदत्वं च स्मृत्युक्तं दर्शितम् ॥ 12-269-41 ईदृशकानहिंस्रान् । कारणैरर्थित्वसमर्थत्वविद्वत्त्वतारतम्यैः ॥ 12-269-42 उपपत्त्या युक्त्या ॥