अध्यायः 268
तुलाधारेण जाजलये धर्मरहस्योपदेशः ॥ 1 ॥
भीष्म उवाच 001
इत्युक्तः स तदा तेन तुलाधारेण धीमता । 001a
प्रोवाच वचनं धीमाञ्जाजलिर्जपतांवरः ॥ 001c
जाजलिरुवाच 002
विक्रीणतः सर्वरसान्सर्वगन्धांश्च वाणिज । 002a
वनस्पतीनोषधीश्च तेषां मूलफलानि च ॥ 002c
अग्र्या सा नैष्ठिकी बुद्धिः कुतस्त्वामियमागता । 003a
एतदाचक्ष्व मे सर्वं निखिलेन महामते ॥ 003c
भीष्म उवाच 004
एवमुक्तस्तुलाधारो ब्राह्मणेन यशस्विना । 004a
उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित् ॥ 004c
वेदाहं जाजले धर्मं सरहस्यं सनातनम् । 005a
सर्वभूतहितं मैत्रं पुराणं यं जना विदुः ॥ 005c
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः । 006a
या वृत्तिः स परो धर्मस्तेन जीवामि जाजले ॥ 006c
परिच्छिन्नैः काष्ठतृणैर्मयेदं शरणं कृतम् । 007a
अलक्तं पद्मकं तुङ्गं गन्धांश्चोच्चावचांस्तथा ॥ 007c
रसांश्च तांस्तान्विप्रर्षे मद्यवर्ज्यान्बहूनहम् । 008a
क्रीत्वा वै प्रतिविक्रीणे परहस्तादमायया ॥ 008c
सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः । 009a
कर्मणा मनसा वाचा स धर्मं वेद जाजले ॥ 009c
नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये । 010a
समोऽहं सर्वभूतेषु पश्य मे जाजले व्रतम् । 010c
तुला मे सर्वभूतेषु समा तिष्ठति जाजले ॥ 010e
नाहं परेषां कृत्यानि प्रशंसामि न गर्हये । 011a
आकाशस्येव विप्रेन्द्र पश्यल्ँलोकस्य चित्रताम् ॥ 011c
'कृपा मे सर्वभूतेषु समा तिष्ठति जाजले । 012a
इष्टानिष्टवियुक्तस्य प्रियद्वेषौ बहिष्कृतौ ॥' 012c
इति मां त्वं विजानीहि सर्वलोकस्य जाजले । 013a
समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनम् ॥ 013c
यथाऽन्धबधिरोन्मत्ता उच्छ्वासपरमाः सदा । 014a
देवैरपिहितद्वाराः सोपमा पश्यतो मम ॥ 014c
यथा वृद्धातुरकृशा निस्पृहा विषयान्प्रति । 015a
तथाऽर्थकामभोगेषु ममापि विगता स्पृहा ॥ 015c
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति । 016a
यदा नेच्छति न द्वेष्टि तदा सिद्ध्यति वै द्विज ॥ 016c
यदा न कुरुते भावं सर्वभूतेषु पापकम् । 017a
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ 017c
न भूतो न भविष्योऽस्ति न च धर्मोस्ति कश्चन । 018a
योऽभयः सर्वभूतानां स प्राप्नोत्यभयं पदम् ॥ 018c
यस्मादुद्विजते लोकः सर्वो मृत्युमुखादिव । 019a
वाक्क्रूराद्दण्डपरुषात्स प्राप्नोति महद्भयम् ॥ 019c
यथावद्वर्तमानानां वृद्धानां पुत्रपौत्रिणाम् । 020a
अनुवर्तामहे वृत्तमहिंस्राणां महात्मनाम् ॥ 020c
प्रनष्टः शाश्वतो धर्मः सदाचारेण मोहितः । 021a
तेन वैद्यस्तपस्वी वा बलवान्वा विमुह्यते ॥ 021c
आचाराज्जाजले प्राज्ञः क्षिप्रं धर्ममवाप्नुयात् । 022a
एवं यः साधुभिर्दान्तश्चरेदद्रोहचेतसा ॥ 022c
नद्यां चेह यथा काष्ठमुह्यमानं यदृच्छया । 023a
यदृच्छयैव काष्ठेन सन्धिं गच्छेत केनचित् ॥ 023c
तत्रापराणि दारूणि संसृज्यन्ते ततस्ततः । 024a
तृणकाष्ठकरीषाणि कदाचिन्न समीक्षया ॥ 024c
यस्मान्नोद्विजते भूतं जातु किञ्चित्कथञ्चन । 025a
अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने ॥ 025c
यस्मादुद्विजते विद्वन्सर्वलोको वृकादिव । 026a
क्रोशतस्तीरमासाद्य यथा सर्वे जलेचराः ॥ 026c
एवमेवायमाचारः प्रादुर्भूतो यतस्ततः । 027a
सहायवान्द्रव्यवान्यः सुभगोऽथ परस्तथा ॥ 027c
ततस्तानेव कवयः शास्त्रेषु प्रवदन्त्युत । 028a
कीर्त्यर्थमल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः ॥ 028c
तपोभिर्यज्ञदानैश्च वाक्यैः प्रज्ञाश्रितैस्तथा । 029a
प्राप्नोत्यभयदानस्य यद्यत्फलमिहाश्नुते ॥ 029c
लोके यः सर्वभूतेभ्यो ददात्यभयदक्षिणाम् । 030a
स सत्ययज्ञैरीजानः प्राप्नोत्यभयदक्षिणाम् ॥ 030c
न भूतानामहिंसाया ज्यायान्धर्मोऽस्ति कश्चन । 031a
यस्मान्नोद्विजते भूतं जातु किञ्चित्कथञ्चन । 031c
सोऽभयं सर्वभूतेभ्यः सम्प्राप्नोति महामुने ॥ 031e
यस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव । 032a
न स धर्ममवाप्नोति इह लोके परत्र च ॥ 032c
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः । 033a
देवाऽपि मार्गे मुह्यन्ति ह्यपदस्य पदैषिणः ॥ 033c
दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम् । 034a
ब्रवीमि ते सत्यमिदं श्रद्धत्स्व मम जाजले ॥ 034c
स एव सुभगो भूत्वा पुनर्भवति दुर्भगः । 035a
व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा ॥ 035c
अकारणो हि नैवास्ति धर्मः सूक्ष्मो हि जाजले । 036a
भूतभव्यार्थमेवेह धर्मप्रवचनं कृतम् ॥ 036c
सूक्ष्मत्वान्न स विज्ञातुं शक्यते बहुनिह्नवः । 037a
उपलभ्यान्तरा चान्यानाचारानवबुध्यते ॥ 037c
ये च च्छिन्दन्ति वृषणान्ये च भिन्दन्ति नस्तकान् । 038a
वहन्ति महतो भारान्बध्नन्ति दमयन्ति च । 038c
हत्वा सत्वानि खादन्ति तान्कथं न विगर्हसे ॥ 038e
मानुषा मानुषानेव दासभोगेन भुञ्जते । 039a
वधबन्धनिरोधेन कारयन्ति दिवानिशम् ॥ 039c
आत्मनश्चापि जानाति यद्दुःखं वधबन्धने । 040a
पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम् ॥ 040c
आदित्यश्चन्द्रमा वायुर्ब्रह्मा प्राणः क्रतुर्यमः । 041a
तानि जीवानि विक्रीय का मृतेषु विचारणा ॥ 041c
अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट् । 042a
धेनुर्वत्सश्च सोमो वै विक्रीयैतन्न सिध्यति ॥ 042c
का तैले का धृते ब्रह्मन्मधुन्यप्स्वोषधीषु वा ॥ 043ac
अदंशमशके देशे सुखसंवर्धितान्पशून् । 044a
तांश्च मातुः प्रियाञ्जानन्नाक्रम्य बहुधा नराः ॥ 044c
बहुदंशाकुलान्देशान्नयन्ति बहुकर्दमान् । 045a
वाहसम्पीडिता धुर्याः सीदन्त्यविधिना परे ॥ 045c
न मन्ये भ्रूणहत्याऽपि विशिष्टा तेन कर्मणा । 046a
कृषिं साध्विति मन्यन्ते सा च वृत्तिः सुदारुणा ॥ 046c
भूमिं भूमिशयांश्चैव हन्ति काष्ठैरयोमुखैः । 047a
तथैवानडुहो युक्तान्क्षुत्तृष्णाश्रमकर्शितान् ॥ 047c
अघ्न्या इति गवां नाम क एता हन्तुमर्हति । 048a
महच्चकाराकुशलं वृथा यो गां निहन्ति ह ॥ 048c
ऋषयो यतयो ह्येतन्नहुषे प्रत्यवेदयन् । 049a
गां मातरं चाप्यवधीर्वृषभं च प्रजापतिम् । 049c
अकार्यं नहुषाकार्षींर्लप्स्यामस्त्वत्कृते व्यथाम् ॥ 049e
शतं चैकं च रोगाणां सर्वभूतेष्वपातयन् । 050a
ऋषयस्ते महाभागाः प्रशस्तास्ते च जाजले ॥ 050c
भ्रूणहं नहुषं त्वाहुर्न तं भोक्ष्यामहे वयम् । 051a
इत्युक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः । 051c
ऋषयो यतयः शान्तास्तपसा प्रत्येषधयन् ॥ 051e
ईदृशानशिवान्घोरानाचारानिह जाजले । 052a
केवलाचरितत्वात्तु निपुणो नावबुध्यसे ॥ 052c
कारणाद्धर्ममन्विच्छेन्न लोकं विरसं चरेत् ॥ 053ac
यो हन्याद्यश्च मां स्तौति तत्रापि शृणु जाजले । 054a
समौ तावपि मे स्यातां न हि मे स्तः प्रियाप्रिये । 054c
एतदीदृशकं धर्मं प्रशंसन्ति मनीषिणः ॥ 054e
उपपत्त्या हि सम्पन्नो यतिभिश्चैव सेव्यते । 055a
सततं धर्मशीलैश्च निपुणेनोपलक्षितः ॥ 055c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टषष्ट्यधिकद्विशततमोऽध्यायः ॥ 268 ॥
12-268-2 वाणिज वणिक्पुत्र ॥ 12-268-3 अध्यगा नैष्ठिकीं बुद्धिं कुतस्त्वामिदमागतमिति झ. पाठः ॥ 12-268-7 पद्मकं तुङ्गं च काष्ठविशेषौ । कस्तूर्यादीन्गन्धान् ॥ 12-268-8 रसान् लवणादीन् ॥ 12-268-16 न द्वेष्टि ब्रह्म सम्पद्यते तदेति झ. पाठः ॥ 12-268-26 दृष्टान्ते वडवाग्निः ॥ 12-268-33 सम्यग्भूतानि पश्यत इति ध. पाठः ॥ 12-268-35 व्यापत्तिं नाशम् । कर्मणां कर्मफलानां स्वर्गादीनाम् ॥ 12-268-36 अकारणः कारणमनुष्ठानप्रयोजकं फलं तद्धीनः ॥ 12-268-38 यदुक्तमलक्तपद्मकादीन्यपण्यानि विक्रीणासीति तत्राह येचेति । नस्तकान् नासागर्भान् । वहन्ति वाहयन्ति ॥ 12-268-39 दासभावेन भुञ्जते इति झ. पाठः ॥ 12-268-45 अविधिना क्रत्वर्थापि हिंसा दोषावहा किमुताऽक्रत्वर्थेत्यर्थः ॥ 12-268-47 भूमिशयान्सर्पादीन् । अयोमुखं काष्ठं लाङ्गलम् ॥ 12-268-48 न हन्तुं शक्या अघ्न्या इति योगाद्गवामवध्यत्वं श्रौतमित्यर्थः ॥ 12-268-50 नहुषकृता गोवृषहत्या सर्वभूतेष्वेकाधिकशतरोगरूपेण क्षिप्तेत्यर्थः ॥ 12-268-51 एवमुक्त्वापि तपसा ध्यानेन तं प्रत्यवेदयन् प्रतीपमवेदयन् । हन्तारमपि धीपूर्वमहन्तारं नहुषं ध्यानबलेन ज्ञात्वा तथैव लोकेऽपि प्रमादात्कृतोऽपि गोवधो व्याधिरूपेण सर्वलोकापकारायाभूत् किमुत बुद्धिपूर्वं कृत इति ज्ञापितवन्त इत्यर्थः ॥ 12-268-52 केवलेति पूर्वैः कृत इत्यन्धपरम्परामात्रात्करोषि नतु तत्त्वबुद्ध्या ॥