अध्यायः 267

भीष्मेण युधिष्ठिरम् प्रति जाजलिचरित्रकथनारम्भः ॥ 1 ॥ धार्मिकम्मन्येन जाजलिना खेचरकृतावज्ञया तुलाधारसमीपगमनम् ॥ 2 ॥ भीष्म उवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 001a
तुलाधारस्य वाक्यानि धर्मे जाजलिना सह ॥ 001c
वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः । 002a
सागरोद्देशमागम्य तपस्तेपे महातपाः ॥ 002c
नियतो नियताहारश्चीराजिनजटाधरः । 003a
मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः ॥ 003c
स कदाचिन्महातेजा जलवासो महीपते । 004a
चचार लोकान्विप्रर्षिः प्रेक्षमाणो मनोजवः ॥ 004c
स चिन्तयामास मुनिर्जलमध्ये कदाचन । 005a
विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम् ॥ 005c
न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे । 006a
अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै ॥ 006c
स दृश्यमानो रक्षोभिर्जलमध्ये च भारत । 007a
आस्फोटयत्तदाऽऽकाशे धर्मः प्राप्तो मयेति वै ॥ 007c
अब्रुवंश्च पिशाचास्तं नैवं त्वं वक्तुमर्हसि । 008a
तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः । 008c
सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम ॥ 008e
इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः । 009a
पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम् ॥ 009c
इति ब्रुवाणं तमृषिं रक्षांस्युत्थाय सागरात् । 010a
अब्रुवन्गच्छ पन्थानमास्थायेमं द्विजोत्तम ॥ 010c
इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा । 011a
वाराणस्यां तुलाधारं समासाद्याब्रवीदिदम् ॥ 011c
युधिष्ठिर उवाच 012
किं कृतं दुष्करं तात कर्म जाजलिना पुरा । 012a
येन सिद्धिं परां प्राप्तस्तन्मे व्याख्यातुमर्हसि ॥ 012c
भीष्म उवाच 013
अतीव तपसा युक्तो घोरेण स बभूव ह । 013a
नद्युपस्पर्शनपरः सायम्प्रातर्महातपाः ॥ 013c
अग्नीन्परिचरन्सम्यक्स्वाध्यायपरमो द्विजः । 014a
वानप्रस्थ विधानज्ञो जाजलिर्ज्वलितः श्रिया ॥ 014c
वने तपस्यतिष्ठत्स न चाधर्ममवैक्षत । 015a
वर्षास्वाकाशशायी च हेमन्ते जलसंश्रयः ॥ 015c
वातातपसहो ग्रीष्मे न चाधर्ममविन्दत । 016a
दुःखशय्याश्च विविधा भूमौ च परिवर्तनम् ॥ 016c
ततः कदाचित्स मुनिर्वर्षास्वाकाशमास्थितः । 017a
अन्तरिक्षाज्जलं मूर्ध्नां प्रत्यगृह्णान्मुहुर्मुहुः ॥ 017c
आप्लुतस्य जटाः क्लिन्ना बभूवुर्ग्रथिताः प्रभो । 018a
अरण्यगमनान्नित्यं मलिनोऽमलसंयुतः ॥ 018c
स कदाचिन्निराहारो वायुभक्षो महातपाः । 019a
तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित् ॥ 019c
तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत । 020a
कुलिङ्गशकुनौ राजन्नीडं शिरसि चक्रतुः ॥ 020c
स तौ दयावान्ब्रह्मर्षिरुपप्रैक्षत दम्पती । 021a
कुर्वाणौ नीडकं तत्र जटासु तृणतन्तुभिः ॥ 021c
यदा न स चलत्येव स्थाणुभूतो महातपाः । 022a
ततस्तौ सुखविश्वस्तौ सुखं तत्रोषतुस्तदा ॥ 022c
अतीतास्वथ वर्षासु शरत्काल उपस्थिते । 023a
प्राजापत्येन विधिना विश्वासात्काममोहितौ ॥ 023c
तत्रोत्पादयतां राजञ्शिरस्यण्डानि खेचरौ । 024a
तान्यबुध्यत तेजस्वी स विप्रः संशितव्रतः ॥ 024c
बुद्ध्वा च स महातेजा न चचाल च जाजलिः । 025a
धर्मे कृतमना नित्यं नाधर्मं स त्वरोचयत् ॥ 025c
अहन्यहनि चागत्य ततस्तौ तस्य मूर्धनि । 026a
आश्वासितौ निवसतः सम्प्रहृष्टौ तदा विभो ॥ 026c
अण्डेभ्यस्त्वथ पुष्टेभ्यः प्राजायन्त शकुन्तकाः । 027a
व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः ॥ 027c
स रक्षमाणस्त्वण्डानि कुलिङ्गानां धृतव्रतः । 028a
तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः ॥ 028c
ततस्तु काले राजेन्द्र बभूवुस्तेऽथ पक्षिणः । 029a
बुबुधे तांस्तु स मुनिर्जातपक्षान्कुलिङ्गकान् ॥ 029c
ततः कदाचित्तांस्तत्र पश्यन्पक्षीन्यतव्रतः । 030a
बभूव परमप्रीतस्तदा मतिमतां वरः ॥ 030c
तथा तानभिसंवृद्धान्दृष्ट्वा चैवाप्तवान्मुदम् । 031a
शकुनौ निर्भयौ तत्र ऊषतुश्चात्मजैः सह ॥ 031c
जातपक्षांश्च सोऽपश्यदुड्डीनान्पुनरागतान् । 032a
सायंसायं द्विजान्विप्रो न चाकम्पत जाजलिः ॥ 032c
कदाचित्पुनरभ्येत्य पुनर्गच्छन्ति सन्ततम् । 033a
त्यक्ता मातापितृभ्यां ते नचाकम्पत जाजलिः ॥ 033c
तथा ते दिवसं चापि गत्वा सायं पुनर्नृप । 034a
उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः ॥ 034c
कदाचिद्दिवसान्पञ्च समुत्पत्य विहङ्गमाः । 035a
षष्ठेऽहनि समाजग्मुर्न चाकम्पत जाजलिः ॥ 035c
क्रमेण च पुनः सर्वे दिवसान्सुबहूनथ । 036a
नोपावर्तन्त शकुना जातपक्षाश्च ते यदा ॥ 036c
कदाचिन्मासमात्रेण समुत्पत्य विहङ्गमाः । 037a
नैवागच्छंस्ततो राजन्प्रातिष्ठत स जाजलिः ॥ 037c
ततस्तेषु प्रलीनेषु जाजलिर्जातविस्मयः । 038a
सिद्धोस्मीति मतिं चक्रे ततस्तं मान आविशत् ॥ 038c
स तथा निर्गतान्दृष्ट्वा शकुन्तान्नियतव्रतः । 039a
सम्भावितात्मा सम्भाव्य भृशं प्रीतस्तदाऽभवत् ॥ 039c
स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम् । 040a
उदयन्तमथादित्यमभ्यागच्छन्महातपाः ॥ 040c
सम्भाव्य चटकान्मूर्ध्नि जाजलिर्जपतांवरः । 041a
आस्फोटयत्तथाऽऽकाशे धर्मः प्राप्तो मयेति वै ॥ 041c
अथान्तरिक्षे वागासीत्तां च शुश्राव जाजलिः । 042a
धर्मेण न समस्त्वं वै तुलाधारस्य जाजले ॥ 042c
वाराणस्यां महाप्राज्ञस्तुलाधारः प्रतिष्ठितः । 043a
सोऽप्येवं नार्हते वक्तुं यथा त्वं भाषसे द्विज ॥ 043c
सोमर्षवशमापन्नस्तुलाधारदिदृक्षया । 044a
पृथिवीमचरद्राजन्यत्रसायङ्गृहो मुनिः ॥ 044c
कालेन महताऽगच्छत्स तु वाराणसीं पुरीम् । 045a
विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः ॥ 045c
सोऽपि दृष्ट्वैव तं विप्रमायान्तं भाण्डजीवनः । 046a
समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत् ॥ 046c
तुलाधार उवाच 047
आयानेवासि विदितो मम ब्रह्मन्न संशयः । 047a
ब्रवीमि यत्तु वचनं तच्छृणुष्व द्विजोत्तम ॥ 047c
सागरानूपमाश्रित्य तपस्तप्तं त्वया महत् । 048a
न च धर्मस्य सञ्ज्ञां त्वं पुरा वेत्थ कथञ्चन ॥ 048c
ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः । 049a
क्षिप्रं शिरस्यजायन्त ते च सम्भावितास्त्वया ॥ 049c
जातपक्षा यदा ते च गता सञ्चरितुं ततः । 050a
मन्यमानस्ततो धर्मं चटकप्रभवं द्विज । 050c
खे वाचां त्वमथाश्रौषीर्मां प्रति द्विजसत्तम ॥ 050e
अमर्षवशमापन्नस्ततः प्राप्तो भवानिह । 051a
करवाणि प्रियं किं ते तद्ब्रूहि द्विजसत्तम ॥ 051c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तषष्ट्यधिकद्विशततमोऽध्यायः ॥ 267 ॥

12-267-1 जाञ्जलिना सहेति ड. थ. पाठः । तुलाधारवाक्यानि धर्मे प्रमाणत्वेनोदाहरन्तीत्यर्थः ॥ 12-267-4 प्रेक्षमाणो महाजलमिति ध. पाठः ॥ 12-267-5 जलध्ये महीं विप्रेक्ष्य तपोबलाद्दूरदर्शनादिसिद्धिं प्राप्येत्यर्थः ॥ 12-267-6 वैहायसमाकाशगतं ग्रहनक्षत्रादि गच्छेत् अवगच्छेत् । मया सह गच्छेद्यः सोऽन्यः कोस्तीति योज्यम् ॥ 12-267-13 उपस्पर्शनरतः स्नानाचमनरतः ॥ 12-267-14 श्रिया वेदविद्यया ॥ 12-267-18 अमलसंयुतः निष्पापः ॥ 12-267-21 उपप्रैक्षतोपेक्षाञ्चक्रे । न वारितवानित्यर्थः ॥ 12-267-23 प्राजापत्येन गर्भाधानविधिना ॥ 12-267-29 ते शकुन्तकाः पक्षिणः पक्षवन्तो बभूवुः ॥ 12-267-30 पक्षीन् । आर्षो मत्वर्थीय इः ॥ 12-267-32 द्विजान् शकुन्तान् ॥ 12-267-38 प्रलीनेषु प्रडीनेषु । मानो गर्वः ॥ 12-267-41 सम्भाव्य वर्धयित्वा । आस्फोटयद्बाहुशब्दमकरोत् ॥ 12-267-46 भाण्डं मूलवणिग्धनं तेन जीवनं यस्य ॥ 12-267-47 आयानागच्छन् । आगतेनासि विदित इति थ. पाठः ॥ 12-267-48 सागरानूपं सागरसमीपस्थं सजलं प्रदेशम् ॥