अध्यायः 266

युधिष्ठिरेण भीष्मम् प्रति धर्मप्रामाण्याक्षेपः ॥ 1 ॥ युधिष्ठिर उवाच 001
सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम् । 001a
प्रतिभा त्वस्ति मे काचित्तां ब्रूयामनुमानतः ॥ 001c
भूयांसो हृदये ये मे प्रश्नास्ते व्याहृतास्त्वया । 002a
इदं त्वन्यत्प्रवक्ष्यामि न राजन्निग्रहादिव ॥ 002c
इमानि हि प्राणयन्ति सृजन्त्युत्तारयन्ति च । 003a
न धर्मः परिपाठेन शक्यो भारत वेदितुम् ॥ 003c
अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः । 004a
आपदस्तु कथं शक्याः परिपाठेन वेदितुम् ॥ 004c
सदाचारो मचो धर्मः सन्तस्त्वाचारलक्षणाः । 005a
साध्यासाध्यं कथं शक्यं सदाचारो ह्यलक्षणः ॥ 005c
दृश्यते धर्मरूपेण ह्यधर्मं प्राकृतश्चरन् । 006a
धर्मं चाधर्मरूपेण कश्चिदप्राकृतश्चरन् ॥ 006c
पुनरस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः । 007a
वेदवादाश्चानुयुगं ह्रसन्तीतीह नः श्रुतम् ॥ 007c
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे परे । 008a
अन्ये कलियुगे धर्मा यथाशक्ति कृता इव ॥ 008c
आम्नायवचनं सत्यमित्ययं लोकसङ्ग्रहः । 009a
आम्नायेभ्यः पुनर्वेदाः प्रसृताः सर्वतोमुखाः ॥ 009c
ते चेत्सर्वप्रमाणं वै प्रमाणं ह्यत्र विद्यते । 010a
प्रमाणं च प्रमाणेन विरुद्ध्येच्छास्त्रता कुतः ॥ 010c
धर्मस्य क्रियमाणस्य बलवद्भिर्दुरात्मभिः । 011a
यदा विक्रियते संस्था ततः साऽपि प्रणश्यति ॥ 011c
विद्मश्चैनं न वा विद्मः शक्यं वा वेदितुं न वा । 012a
अणीयान्क्षुरधाराया गरीयानपि पर्वतात् ॥ 012c
गन्धर्वनगराकारः प्रथमं सम्प्रदृश्यते । 013a
अन्वीक्ष्यमाणः कविभिः पुनर्गच्छत्यदर्शनम् ॥ 013c
निपानानीव गोभ्याशे क्षेत्रे कुल्ये च भारत । 014a
स्मृतो हि शाश्वतो धर्मो विप्रहीणो न दृश्यते ॥ 014c
कामादन्ये भयादन्ये कारणैरपरैस्तथा । 015a
असन्तोऽपि वृथाचारं भजन्ते बहवोऽपरे ॥ 015c
धर्मो भवति स क्षिप्रं विलोमस्तेष्वसाधुषु । 016a
अथैतानाहुरुन्मत्तानपि चावहसन्त्युत ॥ 016c
महाजना ह्युपावृत्ता राजधर्मं समाश्रिताः । 017a
न हि सर्वहितः कश्चिदाचारः सम्प्रवर्तते ॥ 017c
तेनैवान्यः प्रभवति सोऽपरं बाधते पुनः । 018a
दृश्यते चैव स पुनस्तुल्यरूपो यदृच्छया ॥ 018c
येनैवान्यः प्रभवति सोऽपरानपि बाधते । 019a
आचाराणामनैकाग्र्यं सर्वेषामेव लक्षयेत् ॥ 019c
चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः । 020a
तेनाचारेण पूर्वेण संस्था भवति शाश्वती ॥ 020c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट्षष्ट्यधिकद्विशततमोऽध्यायः ॥ 266 ॥

12-266-2 निग्रहात् कुतर्काग्रहेण ॥ 12-266-9 प्रसूताः सर्वतोमुखा इति ध. पाठः ॥ 12-266-16 अपि वाचं हसन्त्युतेति ध. पाठः ॥ 12-266-20 संस्था मर्यादा ॥