अध्यायः 263
स्थाणुवचनाद्ब्रह्मणा लोकदाहककोपाग्नेरन्तर्नियमनम् ॥ 1 ॥ तथा स्वचक्षुरादीन्द्रियेभ्यो जातां मृत्युदेवीम् प्रति प्रजासंहारे नियोजनम् ॥ 2 ॥
स्थाणुरुवाच 001
प्रजासर्गनिमित्तं मे कार्यवत्तामिमां प्रभो । 001a
विद्धि सृष्टास्त्वया हीमा मा कुप्यासां पितामह ॥ 001c
तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः । 002a
ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत्प्रभो ॥ 002c
प्रजापतिरुवाच 003
न कुप्ये न च मे कामो नभवेयुः प्रजा इति । 003a
लाघवार्थं धरण्यास्तु ततः संहार इष्यते ॥ 003c
इयं हि मां सदा देवी भारार्ता समचोदयत् । 004a
संहारार्थं महादेव भारेणाप्सु निमज्जती ॥ 004c
यदाऽहं नाधिगच्छामि बुद्ध्या बहु विचारयन् । 005a
संहारमासां वृद्धानां ततो मां क्रोध आविशत् ॥ 005c
स्थाणुरुवाच 006
संहारात्त्वं निवर्तस्व मा क्रुधो विबुधेश्वर । 006a
मा प्रजाः स्थावरं चैव जङ्गमं च व्यनीनशः ॥ 006c
पल्वलानि च सर्वाणि सर्वं चैव तृणोलपम् । 007a
स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम् ॥ 007c
अकाले भस्मसाद्भूतं जगत्सर्वमुपप्लुतम् । 008a
प्रसीद भगवन्साधो वर एष वृतो मया ॥ 008c
नष्टा न पुनरेष्यन्ति प्रजा ह्येताः कथञ्चन । 009a
तस्मान्निवर्ततामेतत्तेन स्वेनैव तेजसा ॥ 009c
उपायमन्यं सम्पश्य भूतानां हितकाम्यया । 010a
यथामी जन्तवः सर्वे न दह्येरन्पितामह ॥ 010c
अभावं हि न गच्छेयुरुत्सन्नप्रजनाः प्रजाः । 011a
'पुत्रत्वेनानुसङ्कल्प्ये तदाऽहं तप्य दानवैः ।' 011c
अधिदैवे नियुक्तोस्मि त्वया लोकहितेप्सुना ॥ 011e
त्वद्भवं हि जगन्नाथ एतत्स्थावरजङ्गमम् । 012a
प्रसाद्य त्वां महादेव याचाम्यावृत्तिजाः प्रजाः ॥ 012c
नारद उवाच 013
श्रुत्वा तु वचनं देवः स्थाणोर्नियतवाङ्मनाः । 013a
तेजस्तत्सन्निजग्राह पुनरेवान्तरात्मनि ॥ 013c
ततोऽग्निमुपसङ्गृह्य भगवाल्ँलोकपूजितः । 014a
प्रवृत्तिं च निवृत्तिं च कल्पयामास वै प्रभुः ॥ 014c
उपसंहरतस्तस्य तमग्निं रोषजं तदा । 015a
प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः ॥ 015c
कृष्णरक्ताम्बरधरा कृष्णनेत्रतलान्तरा । 016a
दिव्यकुण्डलसम्पन्ना दिव्याभरणभूषिता ॥ 016c
सा विनिःसृत्य वै खेभ्यो दक्षिणामाश्रिता दिशम् । 017a
ददृशाते च तां कन्यां देवौ विश्वेश्वरावुभौ ॥ 017c
तामाहूय तदा देवो लोकानामादिरीश्वरः । 018a
मृत्यो इति महीपाल जहि चेमाः प्रजा इति ॥ 018c
त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च । 019a
तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः ॥ 019c
अविशेषेण चैव त्वं प्रजाः संहर कामिनि । 020a
मम त्वं हि नियोगेन श्रेयः परमवाप्स्यसि ॥ 020c
एवमुक्ता तु या देवी मृत्युः कमलमालिनी । 021a
प्रदध्यौ दुःखिता बाला साश्रुपातमतीव च ॥ 021c
पाणिभ्यां चैव जग्राह तान्यश्रूणि जनेश्वरः । 022a
मानवानां हितार्थाय ययाचे पुनरेव ह ॥ 022c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिषष्ट्यधिकद्विशततमोऽध्यायः ॥ 263 ॥
12-263-1 कार्यवत्तामर्थित्वम् । मा कुप्य कोपं मा कुरु । आसाम् आसु ॥ 12-263-3 नभवेयुर्नश्येयुः ॥ 12-263-7 उलपं तृणविशेषः ॥ 12-263-10 निवर्तेरन्परन्तपेति ध. पाठः थ. ध. पाठः ॥ 12-263-11 अधिदैवे अहङ्काराधिष्ठातृत्वे ॥ 12-263-12 आवृत्तिजाः प्रजा याचामि याचे । आवृत्त्या जाताः । मृत्वा मृत्वा पुनर्जायन्तामित्यर्थः ॥ 12-263-13 सन्निजग्राह संहृतवान् ॥ 12-263-14 प्रवृत्तिं जन्म । निवृत्तिं मरणम् अनेन नात्यन्तं प्रजानामुच्छेदो नाप्यत्यन्तं भूमेर्भार इति दर्शितम् ॥ 12-263-17 उभौ ब्रह्मरुद्रौ ॥ 12-263-22 मृत्योरश्रुपाते युगपत् सर्वभूतक्षयो माभूदिति भावः ॥