अध्यायः 262

भीष्मेण युधिष्ठिरम् प्रति नारदाकम्पनसंवादानुवादः ॥ 1 ॥ नारदेनाकम्पनम् प्रति स्थाणुप्रजापतिसंवादानुवादारम्भः ॥ 2 ॥ युधिष्ठिर उवाच 001
य इमे पृथिवीपालाः शेरते पृथिवीतले । 001a
पृतनामध्य एते हि गतसत्त्वा महाबलाः ॥ 001c
एकैकशो भीमबला नागायुतबलास्तथा । 002a
एते हि निहताः सङ्ख्ये तुल्यतेजीबलैर्नरैः ॥ 002c
नैषां पश्यामि हन्तारं प्राणिनां संयुगे पुरा । 003a
विक्रमेणोपसम्पन्नास्तेजोबलसमन्विताः ॥ 003c
अथ चेमे महाप्राज्ञाः शेरते हि गतासवः । 004a
मृता इति च शब्दोऽयं वर्तत्येषु गतासुषु ॥ 004c
इमे मृता नृपतयः प्रायशो भीमविक्रमाः । 005a
तत्र मे संशयो जातः कुतः सञ्ज्ञा मृता इति ॥ 005c
कस्य मृत्युः कुतो मृत्युः केन मृत्युरिह प्रजाः । 006a
हरत्यमरसङ्काश तन्मे ब्रूहि पितामह ॥ 006c
भीष्म उवाच 007
पुरा कृतयुगे तात राजा ह्यासीदकम्पनः । 007a
स शत्रुवशमापन्नः सङ्ग्रामे क्षीणवाहनः ॥ 007c
तस्य पुत्रो हरिर्नाम नारायणसमो बले । 008a
स शत्रुभिर्हतः सङ्ख्ये सबलः सपदानुगः ॥ 008c
स राजा शत्रुवशगः पुत्रशोकसमन्वितः । 009a
यदृच्छया शान्तिपरो ददर्श भुवि नारदम् ॥ 009c
तस्मै स सर्वमाचष्ट यथावृत्तं जनेश्वरः । 010a
शत्रुभिर्ग्रहणं सङ्ख्ये पुत्रस्य मरणं तथा ॥ 010c
तस्य तद्वचनं श्रुत्वा नारदोऽथ तपोधनः । 011a
आख्यानमिदमाचष्ट पुत्रशोकापहं तदा ॥ 011c
नारद उवाच 012
राजञ्शृणु महाख्यानं ममेदं बहुविस्तरम् । 012a
यथावृत्तं श्रुतं चैव मयाऽपि वसुधाधिप ॥ 012c
प्रजाः सृष्ट्वा महातेजाः प्रजासर्गे पितामहः । 013a
अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः ॥ 013c
न ह्यन्तरमभूत्किञ्चित्क्वचिज्जन्तुभिरच्युत । 014a
निरुच्छ्वासमिवोन्नद्धं त्रैलोक्यमभवन्नृप ॥ 014c
तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते । 015a
चिन्तयन्नाध्यगच्छच्च संहारे हेतुकारणम् ॥ 015c
तस्य रोषान्महाराज खेभ्योऽग्निरुदतिष्ठत । 016a
तेन सर्वा दिशो राजन्ददाह स पितामहः ॥ 016c
ततो दिवं भुवं खं च जगच्च सचराचरम् । 017a
ददाह पावको राजन्भगवत्कोपसम्भवः ॥ 017c
तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च । 018a
महता क्रोधवेगेन कुपिते प्रपितामहे ॥ 018c
ततो हरो जटी स्थाणुर्देवोऽध्वरपतिः शिवः । 019a
जगाम शरणं देवो ब्रह्माणं परमेष्ठिनम् ॥ 019c
तस्मिन्नभिगते स्थाणौ प्रजानां हितकाम्यया । 020a
अब्रवीद्वरदो देवो ज्वलन्निव तदा शिवम् ॥ 020c
करवाण्यद्य कं कामं वरार्होऽसि मतो मम । 021a
कर्ता ह्यसि प्रियं शम्भो तव यद्धृदि वर्तते ॥ 021c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विषष्ट्यधिकद्विशततमोऽध्यायः ॥ 262 ॥

12-262-1 गतसञ्ज्ञा महाबला इति थ. पाठः ॥ 12-262-16 खेभ्य इन्द्रियच्छिद्रेभ्यः ॥ 12-262-17 खं खस्थं ग्रहनक्षत्रादि ॥ 12-262-19 स्थाणुः श्मशाननिलयः शिव इति ड. थ. पाठः ॥