अध्यायः 261
भीष्मेण युधिष्ठिरम् प्रति पृथिव्यादिभूतगुणप्रतिपादकव्यासवाक्यानुवादः ॥ 1 ॥
भीष्म उवाच 001
भूतानां गुणसङ्ख्यानं भूयः पुत्र निशामय । 001a
द्वैपायनमुखाद्भ्रष्टं श्लाघया परयाऽनघ ॥ 001c
दीप्तानलनिभः प्राह भगवान्धूमवत्सलः । 002a
ततोऽहमपि वक्ष्यामि भूयः पुत्र निदर्शनम् ॥ 002c
भूमेः स्थैर्यं गुरुत्वं च काठिन्यं प्रसवात्मता । 003a
गन्धो भारश्च शक्तिश्च सङ्घातः स्थापना धृतिः ॥ 003c
अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता । 004a
जिह्वाविस्यन्दनं चापि भौमानां श्रपणं तथा ॥ 004c
अग्नेर्दुर्धर्षता ज्योतिस्तापः पाकः प्रकाशनम् । 005a
शौचं रागो लघुस्तैक्ष्ण्यं सततं चोर्ध्वभागिता ॥ 005c
वायोरनियमस्पर्शो वादस्थानं स्वतन्त्रता । 006a
बलं शैघ्र्यं च मोक्षं च कर्म चेष्टात्मता भवः ॥ 006c
आकाशस्य गुणः शब्दो व्यापित्वं छिद्रताऽपि च । 007a
अनाश्रयमनालम्बमव्यक्तमविकारिता ॥ 007c
अप्रतीघातिता चैव श्रोतृत्वं विवराणि च । 008a
गुणाः पञ्चाशतं प्रोक्ताः पञ्चभूतविभाविताः ॥ 008c
फलोपपत्तिर्व्यक्तिश्च विसर्गः कल्पना क्षमा । 009a
सदसच्चाशुता चैव मनसो नव वै गुणाः ॥ 009c
इष्टानिष्टविपत्तिश्च व्यवसायः समाधिता । 010a
संशयः प्रतिपत्तिश्च बुद्धेः पञ्च गुणान्विदुः ॥ 010c
युधिष्ठिर उवाच 011
कथं पञ्चगुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः । 011a
एतन्मे सर्वमाचक्ष्व सूक्ष्मज्ञानं पितामह ॥ 011c
भीष्म उवाच 012
आहुः षष्टिं भूतगुणान्वै भूतविषक्तान्प्रकृतिविसृष्टान् । 012a
नित्यविषक्तांश्चाक्षरसृष्टान्पुत्र न नित्यं तदिह वदन्ति ॥ 012c
तत्पुत्रचिन्ताकलिलं तदुक्तमनागतं वै तव सम्प्रतीह । 013a
भूतार्थवत्त्वं तदवाप्य सर्वं भूतप्रभावाद्भव शान्तबुद्धिः ॥ 013c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकषष्ट्यधिकद्विशततमोऽध्यायः ॥ 261 ॥
12-261-2 धर्मवत्सल इति ड. पाठः ॥ 12-261-4 जिह्वा रसनेन्द्रियम् । विस्यन्दनं प्रस्रवणम् । भौमानां तण्डुलादीनां श्रपणं पाचनम् । विष्यन्दनं चैव भूमावास्रवणं तथेति थ. पाठः । विष्यन्दनं भूमेर्देहेष्वाश्रयणं तथेति ध. पाठः ॥ 12-261-5 ज्योतिर्ज्वलनकर्म । लघुः शीघ्रगामित्वम् । दशमश्चोर्ध्वभागितेति थ. ध. पाठः ॥ 12-261-6 अनियमस्पर्शोऽनुष्णाशीतस्पर्शः । वादस्थानं वागिन्द्रियगोलकानि । स्वतन्त्रता गमनादौ । मोक्षो मूत्रादेः । कर्म उत्क्षेपणादि । चेष्टा श्वासप्रश्वासादिः । भवो जन्ममरणे । वायोस्तिर्यग्गतिः स्पर्शे इति ड. थ. पाठः । चलं शैघ्र्यं च गमनं चेष्टा कर्मात्मता तथा इति ड. थ. पाठः ॥ 12-261-7 अनाश्रयमाश्रयत्वाभावः । अनालम्बनमाश्रयान्तरशून्यत्वम् । अव्यक्तं रूपस्पर्शशून्यत्वात् । अविकारिता द्रव्यान्तरानारम्भकत्वम् ॥ 12-261-8 पञ्चभूतात्मभाविताः पञ्चानां भूतानामात्मा प्रातिस्विकं स्वरूपं तत्र लक्षिताः ॥ 12-261-9 व्यक्तिः स्मरणम् । विसर्गो विपरीतः सर्गो भ्रान्तिः । कल्पना मनोरथवृत्तिः । क्षमा प्रसिद्धा । सत् वैराग्यादि । असत् रागद्वेषादि । आशुता अस्थिरत्वम् ॥ 12-261-10 इष्टानिष्टानां वृत्तिविशेषाणां विपत्तिर्नाशो निद्रारूपा वृत्तिरित्यर्थः । व्यवसाय उत्साहः । समाधिता चित्तस्थैर्यं निरोध इत्यर्थः । प्रतिपत्तिः प्रत्यक्षादिप्रमाणवृत्तिः ॥