अध्यायः 260
भीष्मेण युधिष्ठिरम् प्रति कामादिशक्तिप्रतिपादनपूर्वकतज्जयोपायप्रतिपादनपरव्यासवाक्यानुवादः ॥ 1 ॥
व्यास उवाच 001
हृदि कामद्रुमश्चित्रो मोहसञ्चयसम्भवः । 001a
क्रोधमानमहास्कन्धो विवित्सापरिवेषणः ॥ 001c
तस्य चाज्ञानमाधारः प्रमादः परिषेचनम् । 002a
सोऽभ्यसूयापलाशो हि पुरा दुष्कृतसारवान् ॥ 002c
सम्मोहचिन्ताविटपः शोकशाखो भयाङ्कुरः । 003a
मोहनीभिः पिपासाभिर्लताभिरनुवेष्टितः ॥ 003c
उपासते महावृक्षं सुलुब्धास्तत्फलेप्सवः । 004a
आयतैः संयुताः पाशैः फलदं परिवेष्ट्य तम् ॥ 004c
यस्तान्पाशान्वशे कृत्वा तं वृक्षमपकर्षति । 005a
गतः स दुःखयोरन्तं जरामरणयोर्द्वयोः ॥ 005c
संरोहत्यकृतप्रज्ञः ससत्वो हन्ति पादपम् । 006a
स तमेवाहतो हन्ति विषं ग्रस्तमिवातुरम् ॥ 006c
तस्यानुगतमूलस्य मूलमुद्ध्रियते बलात् । 007a
योगप्रसादात्कृतिना साम्येन परमासिना ॥ 007c
एवं यो वेद कामस्य केवलं परिसर्पणम् । 008a
एतच्च कामशास्त्रस्य सुदुःखान्यतिवर्तते ॥ 008c
शरीरं पुरमित्याहुः स्वामिनी बुद्धिरिष्यते । 009a
तत्र बुद्धेः शरीरस्थं मनो नामार्थचिन्तकम् ॥ 009c
इन्द्रियाणि जनाः पौरास्तदर्थं तु परा कृतिः । 010a
तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा । 010c
तदर्थमुपजीवन्ति पौराः सह पुरेश्वरैः ॥ 010e
अद्वारेण तमेवार्थं द्वौ दोषावुपजीवतः । 011a
तत्र बुद्धिर्हि दुर्धर्षा मनः साधर्म्यमुच्यते ॥ 011c
पौराश्चापि मनस्तृप्तास्तेषामपि चला स्थितिः । 012a
यदर्थं बुद्धिरध्यास्ते सोऽनर्थः परिषीदति ॥ 012c
'पौरमन्त्रवियुक्तायाः सोऽर्थः संसीदति क्रमात् ।' 013a
यदर्थं पृथगध्यास्ते मनस्तत्परिषीदति ॥ 013c
पृथग्भूतं मनो बुद्ध्या मनो भवति केवलम् । 014a
तत्रैनं विकृतं शून्यं रजः पर्यवतिष्ठते ॥ 014c
तन्मनः कुरुते सख्यं रजसा सह सङ्गतम् । 015a
तं चादाय जनं पौरं रजसे सम्प्रयच्छति ॥ 015c
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षष्ट्यधिकद्विशततमोऽध्यायः ॥ 260 ॥
12-260-1 विधित्सा परिषेचन इति झ. पाठः ॥ 12-260-3 शोकशाखाभयङ्कर इति ड. थ. पाठः ॥ 12-260-4 फलादायिभिरन्वित इति ध. पाठः । पाशैः फलानि परिभक्षयन्निति ड. थ. पाठः ॥ 12-260-5 त्यागप्रमादकृतिनेति ड. थ. पाठः ॥