अध्यायः 259

भीष्मेण युधिष्ठिरम् प्रति योगिप्रशंसादिपरव्यासवाक्यानुवादः ॥ 1 ॥ व्यास उवाच 001
शरीराद्विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम् । 001a
कर्मभिः परिपश्यन्ति शास्त्रोक्तैः शास्त्रचेतसः ॥ 001c
यथा मरीच्यः सहिताश्चरन्ति गच्छन्ति तिष्ठन्ति च दृश्यमानाः । 002a
देहैर्विमुक्तानि वरन्ति लोकांस्तथैव सत्वान्यतिमानुषाणि ॥ 002c
प्रतिरूपं यथैवाप्सु तावत्सूर्यस्य लक्ष्यते । 003a
सत्ववांस्तु तथा सत्वं प्रतिरूपं स पश्यति ॥ 003c
तानि सूक्ष्माणि सत्वानि विमुक्तानि शरीरतः । 004a
तेन तत्वेन तत्वज्ञाः पश्यन्ति नियतेन्द्रियाः ॥ 004c
स्वपतां जाग्रतां चैष सर्वेषामात्मचिन्तितम् । 005a
प्रधानाद्वैधयुक्तानां दह्यते कर्मजं रजः ॥ 005c
यथाऽहनि तथा रात्रौ यथा रात्रौ तथाऽहनि । 006a
वशे तिष्ठति सत्वात्मा सततं योगयोगिनाम् ॥ 006c
तेषां नित्यं सदा नित्यो भूतात्मा सततं गुणैः । 007a
सप्तभिस्त्वन्वितः सूक्ष्मैश्चरिष्णुरजरामरः ॥ 007c
मनोबुद्धिपराभूतः स्वदेहपरदेहवित् । 008a
स्वप्नेष्वपि भवत्येष विज्ञाता सुखदुःखयोः ॥ 008c
तत्रापि लभते दुःखं तत्रापि लभते सुखम् । 009a
कामं क्रोधं च तत्रापि कृत्वा व्यसनमृच्छति ॥ 009c
प्रीणितश्चापि भवति महतोऽर्थानवाप्य हि । 010a
करोति पुण्यं तत्रापि जाग्रन्निव च पश्यति ॥ 010c
सदोष्मान्तर्गतश्चापि गर्भत्वं समुपेयिवान् । 011a
दश मासान्वसन्कुक्षौ नैषोऽन्नमिव जीर्यते ॥ 011c
तमेतमतितेजोंशं भूतात्मानं हृदि स्थितम् । 012a
तमोरजोभ्यामाविष्टा नानुपश्यन्ति मूर्तिषु ॥ 012c
योगशास्त्रपरा भूत्वा स्वमात्मानं परीप्सवः । 013a
'तमोरजोभ्यां निर्मुक्तास्तं प्रपश्यन्ति मूर्तिषु ।' 013c
अनुच्छ्वासान्यमूर्तानि यानि वज्रोपमान्यपि ॥ 013e
पृथग्भूतेषु सृष्टेषु चतुर्ष्वाश्रमकर्मसु । 014a
समाधौ योगमेवैतच्छाण्डिल्यः सममब्रवीत् ॥ 014c
विदित्वा सप्तसूक्ष्माणि षडङ्गं च महेश्वरम् । 015a
प्रधानविनियोगज्ञः परं ब्रह्मानुपश्यति ॥ 015c

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनषष्ट्यधिकद्विशततमोऽध्यायः ॥ 259 ॥

12-259-8 स्वप्नेष्वपि स्वदेहं परदेहं च स्थूलादन्यं वेत्तीति तथा ॥ 12-259-13 वज्रोपमानि ब्राह्मप्रलयेऽप्यविनाशीनि ॥